摩诃婆罗多 · 章 2.48
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.48.1
विष्णोः पुनर्महाभागः प्रादुर्भावो महात्मनः ।
दत्तात्रेय इति ख्यात ऋषिरासीन्महायशाः ॥ २.४८.१ ॥
毗湿奴再次显现,那位大福大德、伟大灵魂的显现;名为达塔特雷耶的贤人,享有大名。
2.48.2
तेन नष्टेषु वेदेषु क्रियासु च मखेषु च ।
चातुर्वर्ण्ये च सङ्कीर्णे धर्मे शिथिलतां गते ॥ २.४८.२ ॥
由于他——当吠陀、祭祀与献祭已经消亡,四种姓已经混杂,法已经松弛之时。
2.48.3
अभवर्धति चाधर्मे सत्ये नष्टे स्थितेऽनृते ।
प्रजासु क्षीयमाणासु धर्मे चामूलतां पते ॥ २.४८.३ ॥
当非法增长,真理消亡,虚妄确立,民众日渐减少,法失去根基而倾颓之时。
2.48.4
सयज्ञाः सक्रिया वेदाः प्रत्यानीता हि तेन वै ।
चातुर्वर्ण्यमसङ्कीर्णं कृतं तेन महात्मना ॥ २.४८.४ ॥
吠陀与祭祀、仪式,确实是由他重新带回的;那位大灵魂使四种姓重新恢复纯净不杂。
2.48.5
स एव वै यदा प्रादाद्धैहयाधिपतेर्वरम् ।
तं हैहयानामधिपस्त्वर्जुनोऽभिप्रसादयन् ॥ २.४८.५ ॥
当他赐予哈依哈亚之主恩惠时,哈依哈亚之主阿周那正在讨好他。
2.48.6
वनं पर्यचरन्सम्यक्छुश्रूषुरनुसूयकः ।
निर्ममो निरहङ्कारो दीर्घकालमतोषयत् ॥ २.४८.६ ॥
他在森林中妥善侍奉,渴望服侍,不生嫉妒,无我所执,无我慢,长时间令他欢喜。
2.48.7
आराध्य दत्तात्रेयं हि अगृङ्णात्स वरानिमान् ।
आप्तादाप्ततरान्विप्राद्विद्वान्विद्वन्निषेवितात् ॥ २.४८.७ ॥
他崇拜达多多列耶,从那位受博学者侍奉的婆罗门处获得了这些恩赐,都是可得之中最为殊胜的。
2.48.8
ऋतेऽमरत्वं विप्रेण दत्तात्रेयेण धीमता ।
वरैश्चतुर्भिः प्रवृत इमान्वव्रे वरान्नृपः ॥ २.४८.८ ॥
除不死外,睿智的婆罗门达多多列耶赐予四项恩赐;国王从这四项中选择了这些。
2.48.9
श्रीमान्मनस्वी बलवान्सत्यवागनसूयकः ।
सहस्रबाहुर्भूयासमेषु मे प्रथमो वरः ॥ २.४८.९ ॥
愿我光荣、心志高远、强大、言语真实、无妒忌,并有千臂:这是我的第一项恩赐。
2.48.10
जरायुजाण्डजं सर्वं सर्वं चैव चराचरम् ।
शास्तुमिच्छामि धर्मेण द्वितीयस्त्वेष मे वरः ॥ २.४८.१० ॥
我愿以法治理一切胎生、卵生之物,以及一切动与不动之物:这是我的第二项恩赐。
2.48.11
पितृन्देवानृषीन्विप्रान्यजेयं विपुलैर्मखैः ।
अमित्रांश्च शितैर्बाणैस्तृतीयो व्रर एष मे ॥ २.४८.११ ॥
愿我以丰盛的祭祀供养祖先、诸神、仙人与婆罗门,并以利箭征服敌人:这是我的第三项恩赐。
2.48.12
यस्य नासीन्न भविता न चास्ति सदृशः पुमान् ।
इह वा दिवि वा लोके स मे हन्ता भवेदिति ॥ २.४८.१२ ॥
愿那位在此世、天界或世间,从来没有、将来也不会有、现在也没有能与之相等之人的人,成为杀我者。
2.48.13
सोऽर्जुनः कृतवीर्यस्य वरः पुत्रोऽभवद्युधि ।
स सहस्रं सहस्राणां माहिष्मत्यामवर्धत ॥ २.४८.१३ ॥
那位阿周那,凭恩赐成为迦鲁达维利耶之子,在战场上闻名。他在摩希什玛提长成,千倍千。
2.48.14
स भूमिमखिलां जित्वा द्वीपांश्चापि समुद्रिणः ।
नभसीवाज्वलत्सूर्यः पुण्यैः कर्मभिर्जुनः ॥ २.४८.१४ ॥
他征服了整个大地,也征服了被海洋环绕的岛屿。凭借功德之业,阿周那如天空中的太阳般闪耀。
2.48.15
इन्द्रद्वीपं कशेरुं च कामद्वीपं गभस्तितम् ।
गन्धर्ववरुणद्वीपं सौहृष्टममितप्रभः ॥ २.४८.१५ ॥
因陀罗岛、迦舍卢、欲岛、伽白斯提摩、乾达婆与伐楼那岛,以及萧瑟陀,这些都被那位无限光辉者征服。
2.48.16
पूर्वैरजितपूर्वांश्च द्वीपनजयदर्जुनः ।
इदं तु कार्तवीर्यस्य बभूवासदृशं जनैः ॥ २.४८.१६ ॥
阿周那征服了前人从未征服的岛屿。此功绩即便对迦尔塔维利耶而言,在人类中也是无与伦比的。
2.48.17
न पूर्वे नापरे तस्य गमिष्यन्ति गतिं नृपाः ।
यदर्णवे प्रयातस्य वस्त्रं न परिषिच्यते ॥ २.४८.१७ ॥
无论前代还是后代的国王,都不会走他的道路,因为入海者的衣裳都不会被打湿。
2.48.18
सौवर्णं सर्वमप्यासीद्विमानवरमुत्तमम् ।
चतुर्धा व्यभजद्राष्ट्रं तद्विभज्यान्वपालयत् ॥ २.४८.१८ ॥
那一切都是金制的,是至上而殊胜的天车。他将王国分为四部分,分后加以守护。
2.48.19
एकांशेनाहरत्सेनामेकांशेनावसद्गृहान् ।
यस्तु तस्य तृतीयांशो राज्ञोऽभूज्जनसङ्ग्रहे ॥ २.४८.१९ ॥
以一份征集军队,以一份居于屋舍;其第三份则归国王用于聚集民众。
2.48.20
आप्तः परमकल्याणस्तेन यज्ञानकल्पयत् ।
ये दस्यवो ग्रामचरा अरम्ये च वसन्ति ये ॥ २.४८.२० ॥
他诚实可靠、极为仁善,安排了祭祀。那些在村落间游荡的盗贼,以及居于荒野的人——。
2.48.21
चतुर्थेन तु सोंऽशेन तान्सर्वान्प्रत्यषेधयत् ।
द्वाराणि नापिधीयन्ते पुरेषु नगरेषु च ॥ २.४८.२१ ॥
以第四份,他制止了他们所有人。在城镇与城市中,门户不再关闭。
2.48.22
स एव राष्ट्रपालोऽभूत्स्रीपालोऽभवदर्जुनः ।
स एवासीद्जापालः सः गोपालो विशाम्पते ॥ २.४८.२२ ॥
他成为国家的守护者,成为妇女的守护者。这位阿周那也是百姓的守护者;啊,民众之主,他也是牧牛之人。
2.48.23
शतं वर्षसहस्राणामनुशिष्यार्जुनो महीम् ।
दत्तात्रेयप्रसादेन एवं राज्यं चकार सः ॥ २.४८.२३ ॥
阿周那治理大地,使之有序,共十万年。因达多特利耶的恩惠,他如此统治了王国。
2.48.24
एवं बहूनि कर्माणि चक्रे लोकहिताय सः ।
दत्तात्रेय इति ख्यातः प्रादुर्भावो ह्ययं हरेः।
कथितो भरतश्रेष्ट शृणु भूयो महात्मनः ॥ २.४८.२४ ॥
他如此为世界的福祉行了许多善事。这位以达多特利耶之名著称的哈里化身已被讲述。啊,婆罗多中最优秀者,请继续听那位伟大灵魂的事迹。