Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.5

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.5.1

अथ तत्रोपविष्टेषु पाण्डवेषु महात्मसु ।
महत्सु चोपविष्टेषु गन्धर्वेषु च भारत ॥ २.५.१ ॥

此时,伟大的般度之子在此就座,众多贤者与乾达婆也已就座,婆罗多啊。

2.5.2

वेदोपनिषदां वेत्ता ऋषिः सुरगणार्चितः ।
इतिहासपुराणज्ञः क्रियाकल्पविशेषवित् ॥ २.५.२ ॥

通晓吠陀与奥义书的仙人,受众天神礼拜,精通史诗与往世书,并熟知祭仪规程的特殊细则。

2.5.3

स्तुतस्तोमग्रहस्तोभपदक्रमविभागवित् ।
शिक्षाक्षरविभागज्ञः पुराकल्पविशेषवित् ॥ २.५.३ ॥

通晓赞歌、颂诗、歌唱段落及斯托巴中词序的分段,通晓音韵学中音节的划分,熟知古代仪轨的特殊规则。

2.5.4

आदिकल्पार्थवेत्ता च कल्पसूत्रार्थतत्त्ववित् ।
ब्रह्मचर्यव्रतपर ऊहापोहविशारदः ॥ २.५.४ ॥

通晓原初仪轨的意义,通晓劫波经的义理与本质,专注于梵行学习的誓愿,善于推论与驳斥。

2.5.5

नृत्तगान्धर्वसेवी च सर्वत्राप्रतिमस्तथा ।
अष्टादशानां विद्यानां कोशभूतो महाद्युतिः ॥ २.५.५ ॥

精修舞蹈与乾达婆之艺,处处无与伦比,是十八种学问的宝库,光辉极盛。

2.5.6

न्यायविद्धर्मतत्त्वज्ञः षडङ्गविदनुत्तमः ।
ऐक्यसंयोगनानात्वसमवायविशारदः ॥ २.५.६ ॥

通晓因明,知晓法的本质,是六支吠陀学的无上通达者,精通一体、结合、差异与内属之义。

2.5.7

वक्ता प्रगल्भो मेधावी स्मृतिमान्नयवित्कविः ।
परापरविभागज्ञः प्रमाणकृतनिश्चयः ॥ २.५.७ ॥

他是善辩者、勇敢、聪慧、有记忆,通晓政事,是诗人;明辨高下之别,以正确的论据作出决断。

2.5.8

पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित् ।
उत्तरोत्तरवक्ता च वदतोपि बृहस्पतेः ॥ २.५.८ ॥

他通晓五支论式之语的优劣,层层应答,即使与布利哈斯帕提辩论,也能胜过。

2.5.9

धर्मकामार्थमोक्षेषु यथावत्कृतनिश्चयः ।
तथा भुवनकोशस्य सर्वस्यास्य महामतिः ॥ २.५.९ ॥

于法、欲、利、解脱皆能如实决断;对这整个世界的宝藏,亦是大智慧者。

2.5.10

प्रत्यक्षदर्शी लोकस्य तिर्यगूर्ध्वमधस्तथा ।
साङ्ख्ययोगविभागज्ञो निर्विवित्सुः सुरासुरान् ॥ २.५.१० ॥

直接洞见世界,横向、向上与向下;通晓数论与瑜伽的区分,渴望完全了解诸天与阿修罗。

2.5.11

सन्धिविग्रहतत्त्वज्ञस्त्वनुमानविभागवित् ।
षाङ्गुण्यविधियुक्तश्च सर्वशास्त्रविशारदः ॥ २.५.११ ॥

通晓和与战之实质,明辨推理之分类,精通六策之法,在一切学问中都是行家。

2.5.12

युद्धगान्धर्वसेवी च सर्वत्राप्रतिघस्तथा ।
एतैश्चान्यैश्च बहुभिर्युक्तो गुणगणैर्मुनिः ॥ २.५.१२ ॥

专注于战争与乾闼婆的技艺,所至无碍;具足这些以及其他众多的德行,是这位牟尼。

2.5.13

लोकाननुचरन्सर्वानागमत्तां सभां नृप ।
नारदः सुमहातेजा ऋषिभिः सहितस्तदा ॥ २.५.१३ ॥

大王啊,光辉极盛的那罗陀游历一切世界,此时与诸仙人一同来到了那座议事厅。

2.5.14

पारिजातेन राजेन्द्र पर्वतेन च धीमता ।
सुमुखेन च सौम्येन देवर्षिरमितद्युतिः ॥ २.५.१४ ॥

大王之主啊,光辉无量的天仙与智慧的波利阇多、温和的苏穆卡一同前来。

2.5.15

सभास्थान्पाण्डवान्द्रष्टुं प्रीयमाणो मनोजवः ।
जयाशीर्भिस्तु तं विप्रो धर्मराजानमार्चयत् ॥ २.५.१५ ॥

见到坐在议会中的般度诸子而欢喜,这位如意念般迅捷的婆罗门以胜利的祝福礼敬了法王。

2.5.16

तमागतमृषिं दृष्ट्वा नारदं सर्वधर्मवित् ।
सहसा पाण्डवश्रेष्ठः प्रत्युत्थायानुजैः सह ॥ २.५.१६ ॥

看见来到的仙人那罗陀,通晓一切法的般度诸子之首立即与弟弟们一同起身。

2.5.17

अभ्यवादयत प्रीत्या विनयावनतस्तदा ।
तदर्हमासनं तस्मै सम्प्रदाय यथाविधि ॥ २.५.१७ ॥

于是他谦恭地俯身,怀着敬爱向他行礼,并依礼为他奉上相称的座位。

2.5.18

गां चैव मधुपर्कं च सम्प्रदायार्घ्यमेव च ।
अर्चयामास रत्नैश्च सर्वकामैश्च धर्मवित् ॥ २.५.१८ ॥

奉上母牛、蜜酒与迎宾水,通晓法的人以珍宝和一切所欲之物礼敬他。

2.5.19

तुतोष च यथावच्च पूजां प्राप्य युधिष्ठिरात् ।
सोऽर्चितः पाण्डवैः सर्वैर्महर्षिर्वेदपारगः।
धर्मकामार्थसंयुक्तं पप्रच्छेदं युधिष्ठिरम् ॥ २.५.१९ ॥

大仙得到坚战如法的供养而心生欢喜。他受到所有般度五子的尊敬,精通吠陀,于是向坚战提出了这个关于法、欲与利的问题。

2.5.20

कच्चिदर्थाश्च कल्पन्ते धर्मे च रमते मनः ।
सुखानि चानुभूयन्ते मनश्च न विहन्यते ॥ २.५.२० ॥

你的事业可有成就?你的心是否喜乐于法?你是否享受着种种快乐?你的心是否未受伤害?

2.5.21

कच्चिदाचरितां पूर्वैर्नरदेवपितामहैः ।
वर्तसे वृत्तिमक्षुद्रां धर्मार्थसहितां त्रिषु ॥ २.५.२१ ॥

你是否遵循前代国王和王族祖先所奉行的高尚行为?那行为与法和利相合,并立于三者之中。

2.5.22

कच्चिदर्थेन वा धर्मं धर्मेणार्थमथापि वा ।
उभौ वा प्रीतिसारेण न कामेन प्रबाधसे ॥ २.५.२२ ॥

你是以财富来守护法,或以法来守护财富,还是以爱的精髓来同时守护二者?你是否未被欲望所困扰?

2.5.23

कच्चिदर्थं च धर्मं च कामं च जयतां वर ।
विभज्य काले कालज्ञः सदा वरद सेवसे ॥ २.५.२३ ॥

胜利者中最优秀的,赐予恩惠的人啊!你是否知时,总在恰当的时候分配利、法与欲,并且常常加以奉行?

2.5.24

कच्चिद्राजगुणैः षड्भिः सप्तोपायांस्तथाऽनघ ।
बलाबलं तथा सम्यक्वतुर्दश परीक्षसे ॥ २.५.२४ ॥

无罪之人啊!你是否以国王的六种品德、七种方略,正确地审察十四种要素的强弱?

2.5.25

कच्चिदात्सानमर्न्वाक्ष्य परांश्च जयतां वर ।
तथा सन्धाय कर्माणि अष्टौ भारत सेवसे ॥ २.५.२५ ॥

最优秀的胜者啊,你是否仔细审察自己与敌人?婆罗多啊,你缔结盟约之后,是否践行八种行动?

2.5.26

कच्चित्प्रकृतयः सप्त न लुप्ता भरतर्षभ ।
आढ्यास्तथा व्यसनिनः स्वनुरक्ताश्च सर्वशः ॥ २.५.२६ ॥

婆罗多之雄啊,王国的七要素没有衰亡吧?它们是否繁荣,困苦者是否得到照顾,它们是否在一切方面都忠于你?

2.5.27

कच्चिन्न कृतकैर्दूतैर्ये चाप्यपरिशङ्किताः ।
त्वत्तो वा तव चामात्यैर्भिद्यते मन्त्रितं तथा ॥ २.५.२७ ॥

你的谋略是否没有通过你未曾怀疑的假使者,或通过你自己,或通过你的大臣而泄露?

2.5.28

मित्रोदासीनशत्रूणां कच्चिद्वेत्सि चिकीर्षितम् ।
कच्चित्सन्धिं यथाकालं विग्रहं चोपसेवसे ॥ २.५.२८ ॥

你是否了解朋友、中立者与敌人的意图?你是否依时机而行和约与战争?

2.5.29

कच्चिद्वृत्तिमुदासीने मध्यमे चानुमन्यसे ।
कच्चिदात्मसमा वृद्धाः शुद्धाः सम्बोधनक्षमाः ॥ २.५.२९ ॥

你是否认可对中立者和中间君主的待遇?是否有与你相当、年长、纯正且善于进谏的人?

2.5.30

कुलीनाश्चानुरक्ताश्च कृतास्ते वीरमन्त्रिणः ।
विजयो मन्त्रमूलो हि राज्ञो भवति भारत ॥ २.५.३० ॥

你的英勇大臣是否都是出身高贵、忠心耿耿的人?婆罗多啊,君王的胜利确实以谋略为根本。

2.5.31

कच्चित्संवृतमन्त्रैस्ते अमात्यैः शास्त्रकोविदैः ।
राष्ट्रं सुरक्षितं तात शत्रुभिर्न विलुप्यते ॥ २.५.३१ ॥

你那精通典籍的大臣们是否以秘密谋划妥善守护国家,孩子,使敌人无法劫掠它?

2.5.32

कच्चिन्निद्रावशं नैषि कच्चित्काले विबुद्ध्यसे ।
कच्चिच्चापररात्रेषु चिन्तयस्यर्थमर्थवित् ॥ २.५.३२ ॥

你是否不为睡眠所控制?是否在适当的时候醒来?在夜深之时,你是否思量财富与政事,精通利益之人啊?

2.5.33

कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह ।
कच्चित्ते मन्त्रितो मन्त्रो न राष्ट्रं परिधावति ॥ २.५.३३ ॥

你是独自谋划,而不与众人商议吗?你经过商议的秘密谋略,不会在国中流传开来吗?

2.5.34

कच्चिदर्थान्विनिश्चित्य लघुमूलान्महोदयान् ।
क्षिप्रमारभसे कर्तुं न विघ्नयसि तादृशान् ॥ २.५.३४ ॥

你决定那些根本微小而成果巨大的事务之后,是否迅速着手去做?你是否不阻挠这类事务?

2.5.35

कच्चिन्न स्रवे कर्मान्ताः परोक्षास्ते विशङ्किताः ।
सर्वे वा पुनरुत्सृष्टाः संसृष्टं चात्र कारणम् ॥ २.५.३५ ॥

你所行之事的结果不会泄露吗?那些对你隐秘而令人怀疑的事务,是否全部又被放任?这里的混杂是否就是原因?

2.5.36

आप्तैरलुब्धैः क्रमिकैस्ते च कच्चिदनुष्ठिताः ।
कच्चिद्राजन्कृतान्येव कृतप्रायाणि वा पुनः ॥ २.५.३६ ॥

你的事务是否由可靠、不贪婪、按次序办事的人来执行?啊,国王,已经做好的事情是否真正完成,还是仅仅接近完成?

2.5.37

विदुस्ते वीर कर्माणि नानवाप्तानि कानिचित् ।
कच्चित्कारणिका धर्मे सर्वशास्त्रेषु कोविदाः।
कारयन्ति कुमारांश्च योधमुख्यांश्च सर्वशः ॥ २.५.३७ ॥

英雄啊,你可知道你有哪些事尚未完成?精通法与一切论典的审判官,是否在各方面使王子与主要战士各尽其责?

2.5.38

कच्चित्सहस्रैर्मूर्खाणामेकं क्रीणासि पण्डितम् ।
पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्नः श्रेयसं परम् ॥ २.५.३८ ॥

你是否以千名愚人的代价换取一位智者?因为在事务的艰难之际,智者才会为我们带来最高的福祉。

2.5.39

कच्चिद्दुर्गाणि सर्वाणि धनधान्यायुधोदकैः ।
यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः ॥ २.५.३९ ॥

所有堡垒是否都充满了财富、谷物、兵器与水,并且备有器械、工匠与弓箭手?

2.5.40

एकोप्यमात्यो मेधावी शूरो दान्तो विचक्षणः ।
राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम् ॥ २.५.४० ॥

即使只有一位大臣,若他聪慧、勇敢、自制而明察,也能使国王或王子获得极大的繁荣。

2.5.41

कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च ।
त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः ॥ २.५.४१ ॥

你是否通过每三名无人识破的密探,掌握己方及他方的十八、十与五处谋议之所?

2.5.42

कच्चिद्द्विषामविदितः प्रतिपन्नश्च सरवदा ।
नित्ययुक्तो रिपून्सर्वान्वीक्षसे रिपुसूदन ॥ २.५.४२ ॥

灭敌者啊,你是否始终在敌人不知之中行事,时刻保持警觉,并监视着所有的敌人?

2.5.43

कच्चिद्विनयसम्पन्नः कुलपुत्रो बहुश्रुतः ।
अनसूयुरनुप्रष्टा सत्कृतस्ते पुरोहितः ॥ २.५.४३ ॥

你的家祭司是否谦逊有礼、出身高贵、博学多识、不妒忌、善于咨询,并且受你尊敬?

2.5.44

कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः ।
हुतं च होष्यमाणं च काले वेदयते सदा ॥ २.५.४४ ॥

你的祭司是否专心于圣火,熟知仪轨,明智正直,并且总能及时报告已供奉和将供奉的祭品?

2.5.45

कच्चिदङ्गेषु निष्णातो ज्योतिपः प्रतिपादकः ।
उत्पातेषु च सर्वेषु दैवज्ञः कुशलस्तव ॥ २.५.४५ ॥

你的占星师是否精通吠陀的辅助学科,能阐释天文学,知晓一切凶兆,并为你效力而熟练?

2.5.46

कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः ।
जघन्याश्च जघन्येषु भृत्याः कर्मसु योजिताः ॥ २.५.४६ ॥

大事是否委派给重要的人,中等事委派给中等之人,小事委派给低下的仆人?

2.5.47

अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन् ।
श्रेष्ठाञ्श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ॥ २.५.४७ ॥

你是否把不为利诱所动、世代侍奉父祖、清廉而优秀的大臣任命于最重要的职务?

2.5.48

कच्चिन्नोग्रेण दण्डेन भृशमुद्विजसे प्रजाः ।
राष्ट्रं तवानुशासन्ति मन्त्रिणो भरतर्षभ ॥ २.५.४८ ॥

婆罗多之雄牛啊,你是否不以严酷的刑罚过度惊扰百姓?你的大臣们是否在治理你的国家?

2.5.49

कच्चित्त्वां नावजानन्ति याजकाः पतितं यथा ।
उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः ॥ २.५.४९ ॥

祭司们是否不轻视你,如同轻视堕落之人,如同女子轻视索求无度、贪求她们的严苛受施者?

2.5.50

कच्चिद्धृष्टश्च शूरश्च मतिमान्धृतिमाञ्शुचिः ।
कुलीनश्चानुरक्तश्च दक्षः सेनापतिस्तथा। ॥ २.५.५० ॥

你的统帅是否勇敢无畏、英勇、有智慧、坚定、清净、出身高贵、忠诚而善于用兵?

2.5.51

कच्चिद्बलस्य ते मुख्याः सर्वयुद्धविशारदाः ।
धृष्टावदाता विक्रान्तास्त्वया सत्कृत्य मानिताः ॥ २.५.५१ ॥

你军中的主要将领是否精通各种战斗,勇敢、清净而英勇?你是否以礼相待、尊重了他们?

2.5.52

कच्चिद्वलस्य भक्तं च वेतनं च यथोचितम् ।
सम्प्राप्तकाले दातव्यं ददासि न विकर्षसि ॥ २.५.५२ ॥

你是否按时、按应得之数供给军队的口粮和饷银,而不加克扣?

2.5.53

कालातिक्रमणादेते भक्तवेतनयोर्भृताः ।
भर्तुः कुप्यन्ति दौर्गत्यात्सोऽनर्थः सुमहान्स्मृतः ॥ २.५.५३ ॥

因时间拖延,这些受雇之人失去口粮与饷银,便因困苦而对其主人生怒;那样的祸患被认为极为巨大。

2.5.54

कच्चित्सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः ।
कच्चित्प्राणांस्तवार्थेषु सन्त्यजन्ति सदा युधि ॥ २.५.५४ ॥

所有名门子弟,尤其是主要人物,是否都忠于你?他们是否总是为你的事业在战场上舍命?

2.5.55

कच्चिन्नैको बहूनर्थान्सर्वशः साम्परायिकान् ।
अनुशास्ति यथाकामं कामात्मा शासनातिगः ॥ २.५.५५ ॥

你是否独自一人,受欲望支配,违背法度,随心所欲地对许多事务,包括关于来世的事务,发号施令?

2.5.56

कच्चित्पुरुषकारेण पुरुषः कर्म शोभयन् ।
लभते मानमधिकं भूयो वा भक्तवेतनम् ॥ २.५.५६ ॥

人是否凭自身努力使事业生辉,从而获得更大的尊敬,或再得食物与薪酬?

2.5.57

कच्चिद्विद्याविनीतांश्च नराञ्ज्ञानविशारदान् ।
यथार्हं गुणतश्चैव दानेनाभ्युपपद्यसे ॥ २.५.५७ ॥

你是否依其德行,以相称的施舍尊敬那些因学问而谦逊、精通智慧的人?

2.5.58

कच्चिद्दारान्मनुष्याणां तवार्थे मृत्युमीयुषाम् ।
व्यसनं चाभ्युपेतानां बिभर्षि भरतर्षभ ॥ २.५.५८ ॥

婆罗多族的雄牛啊,你是否供养那些为你而死的人的妻子,以及陷入灾难的人?

2.5.59

कच्चिद्भयादुपगतं क्षीणं वा रिपुमागतम् ।
युद्धे वा विजितं पार्थ पुत्रवत्परिरक्षसि ॥ २.५.५९ ॥

普利塔之子啊,你是否像保护儿子一样保护那些因恐惧前来投靠的人、衰弱的人、前来的敌人,或在战斗中被征服的人?

2.5.60

कच्चित्त्वमेव सर्वस्याः पृथिव्याः पृथिवीपते ।
समश्चानभिशङ्क्यश्च यथा माता यथा पिता ॥ २.५.६० ॥

大地之主啊,你是否对整个大地一视同仁、无可怀疑,如同母亲和父亲一样?

2.5.61

कच्चिद्व्यसनिनं शत्रुं निशम्य भरतर्षभ ।
अभियासि जवेनैव समीक्ष्य त्रिविधं बलम् ॥ २.५.६१ ॥

婆罗多族的雄牛啊,听闻敌人陷于恶习,你是否在审视了你的三军之后,迅速向他进军?

2.5.62

यात्रामारभसे दिष्ट्या प्राप्तकालमरिन्दम ।
पार्ष्णिमूलं च विज्ञाय व्यवसायं पराजयम् ॥ २.५.६२ ॥

降伏敌人的人啊,你幸而在适当的时机出征;既已明了后方的根基,你也审慎考虑了你的谋划与失败的可能吗?

2.5.63

बलस्य च महाराज दत्त्वा वेतनमग्रतः ।
कच्चिच्च बलमुख्येभ्यः परराष्ट्रे परन्तप।
उपच्छन्नानि रत्नानि प्रयच्छसि यथार्हतः ॥ २.५.६३ ॥

大王啊,你预先发放军饷,降伏敌人的人啊,你是否也按其身份,暗中赠予敌国中的将领们应得的宝物?

2.5.64

कच्चिदात्मानमेवाग्रे विजित्य विजितेन्द्रियः ।
पारञ्जिगीषसे पार्थ प्रमत्तानजितेन्द्रियान् ॥ २.५.६४ ॥

普利塔之子啊,你是否先战胜了自己、制服了感官,然后想要战胜那些疏忽、未能控制感官的敌人?

2.5.65

कच्चित्ते यास्यतः शत्रून्पर्वं यान्ति स्वनुष्ठिताः ।
साम दानं च भेदश्च दण्डश्च विधिवद्गुणाः ॥ २.५.६५ ॥

你向敌人进军时,是否适时而依法地运用了和解、赠予、离间与惩罚这些策略?

2.5.66

तांश्च विक्रमसे जेतुं जित्वा च परिरक्षसि ।
कच्चिदष्टाङ्गसंयुक्ता चतुर्विधबला चमूः। ॥ २.५.६६ ॥

你努力去征服他们,征服之后又加以保护。你的军队是否具备八支和四种兵力?

2.5.67

बलमुख्यैः सुनीता ते द्विषतां प्रतिवर्धिनी ।
कच्चिल्लवं च मुष्टिं च परराष्ट्रे परन्तप। ॥ २.५.६७ ॥

征服敌人的人啊,你那由主要将领妥善统领、能遏制敌人壮大的军队,是否也守护着他国的间谍之事(lava)与秘密积蓄(muṣṭi)?

2.5.68

अविहाय महाराज निहंसि समरे रिपून् ।
कच्चित्स्वपरराष्ट्रेषु बहवोऽधिकृतास्तव। ॥ २.५.६८ ॥

大王啊,你在战场上诛杀敌人时,难道不曾舍弃法(dharma)吗?在你自己的国家和他国,是否有许多由你任命的官员?

2.5.69

अर्थान्समधितिष्ठन्ति रक्षन्ति च परस्परम् ॥ २.५.६९ ॥

他们认真料理国家事务,并且彼此守护。

2.5.70

कच्चिदभ्यवहार्याणि गात्रसंस्पर्शनानि च ।
घ्रेयाणि च महाराज रक्षन्त्यनुमतास्तव। ॥ २.५.७० ॥

大王啊,那些经你认可的人,是否守护着饮食、涂身之物和香料?

2.5.71

कच्चित्कोशश्च कोष्ठं च वाहनं द्वारमायुधम् ।
आयश्च कृतकल्याणैस्तव भक्तैरनुष्ठितः ॥ २.५.७१ ॥

你的库藏与粮仓、车乘、城门与兵器,以及岁入,是否都由曾经立下功劳的忠诚仆从妥善管理?

2.5.72

कच्चिदाभ्यन्तरेभ्यश्च बाह्येभ्यश्च विशाम्पते ।
रक्षस्यात्मानमेवाग्रे तांश्च स्वेभ्यो मिथश्च तान्। ॥ २.५.७२ ॥

人民之主啊,你是否首先保护自己免受内外危险,也保护他们,并保护他们免受你自己的人民与彼此之间的敌意?

2.5.73

कच्चिन्न पाने द्यूते वा क्रीडासु प्रमदासु च ।
प्रतिजानन्ति पूर्वाह्णे व्ययं व्यसनजं तव ॥ २.५.७३ ॥

他们是否在上午就能辨明你因饮酒、博戏、游乐和女色而产生的开支?

2.5.74

कच्चिदायस्य चार्धेन चतुर्भागेन वा पुनः ।
पादभागैस्त्रिभिर्वापि व्ययः संशुद्ध्यते तव ॥ २.५.७४ ॥

你的开支是否与收入恰当平衡,或以一半、四分之一或其分数来调节?

2.5.75

कच्चिज्ज्ञातीन्गुरून्वृद्धा-
न्वणिजः शिल्पिनः श्रितान्।
अभीक्ष्णमनुगृहाणिसि ।
धनधान्येन दुर्गतान् ॥ २.५.७५ ॥

你是否经常眷顾那些缺乏财物与粮食而陷入困顿的亲属、长辈、老者、商贾、工匠和依附之人?

2.5.76

कच्चिच्चायव्यये युक्ताः सर्वे गणकलेखकाः ।
अनुतिष्ठन्ति पूर्वाह्णे नित्यमायं व्ययं तव ॥ २.५.७६ ॥

所有负责收支的会计与书记,是否每天上午都依循你的收入与支出办事?

2.5.77

कच्चिदर्थेषु सम्प्रौढान्हितकामाननुप्रियान् ।
नापकर्षसि कर्मभ्यः पूर्वमप्राप्य किल्बिषम् ॥ २.५.७७ ॥

在未证明过错之前,你是否就把那些精通政务、怀有善意、令人喜爱的臣仆从其职务上撤下?

2.5.78

कच्चिद्विदित्वा पुरुषानुत्तमाधममध्यमान् ।
त्वं कर्मस्वनुरूपेषु नियोजयसि भारत ॥ २.५.७८ ॥

婆罗多之子啊,你是否了解人才的上、下、中之别,并把他们委任于与之相称的职事?

2.5.79

कच्चिन्न लुब्धाश्चौरा वा वैरिणो वा विशाम्पते ।
अप्राप्तव्यवहारा वा तव कर्मस्वनुष्ठिताः ॥ २.५.७९ ॥

众民之主啊,贪婪之人、盗贼或仇敌,或尚未经受审理之人,是否被任用于你的事务之中?

2.5.80

कच्चिन्न चौरैर्लुब्धैर्वा कुमारैः स्त्रीबलेन वा ।
त्वया वा पीड्यते राष्ट्रं कच्चित्तुष्टाः कृषीवलाः ॥ २.५.८० ॥

国家是否未被盗贼、贪婪之人、年轻王子、女人的势力,或你本人所困扰?农夫们是否满足?

2.5.81

कच्चिद्राष्ट्रे तटाकानि पूर्णानि च बृहन्ति च ।
भागशो विनिविष्टानि न कृषिर्देवमातृका ॥ २.५.८१ ॥

国内的大池塘是否蓄满并分段设置,使农业不单靠雨水?

2.5.82

कच्चिन्नं भक्तं बीजं च कर्षकस्यावसीदति ।
प्रत्येकं च शतं वृद्ध्या ददास्यृणमनुग्रहम् ॥ २.५.८२ ॥

农夫的粮食、口粮与种子是否陷于困顿?你是否以百分之百的利息,作为恩惠借贷给每个人?

2.5.83

कच्चित्स्वनुष्ठिता तात वार्ता ते साधुभिर्जनैः ।
वार्तायां संश्रितस्तात लोकोऽयं सुखमेधते ॥ २.५.८३ ॥

亲爱的,你的经济(农耕与商贸)是否由善人妥善经营?亲爱的,依靠经济的这个世界在幸福中兴盛。

2.5.84

कच्चिच्छूराः कृतप्रज्ञाः पञ्चपञ्च स्वनुष्ठिताः ।
क्षेमं कुर्वन्ति संहत्य राजञ्जनपदे तव ॥ २.५.८४ ॥

大王,那些以五人为一队、有智慧而善于任用的勇士,是否同心协力,维护你国境的安定?

2.5.85

कच्चिन्नगरगुप्त्यर्थं ग्रामा नगरवत्कृताः ।
ग्रामवच्च कृताः प्रान्तास्ते च सर्वे त्वदर्पणाः ॥ २.५.८५ ॥

是否为了保卫城市,将村庄建设得如同城市,并将边境地区也建设得如同村庄?它们是否全都献给了你?

2.5.86

कच्चिद्बलेनानुगताः समानि विषमाणि च ।
पुराणि चौरान्निघ्नन्तश्चरन्ति विषये तव ॥ २.५.८६ ॥

随军的人员在城镇中击杀盗贼,是否在你的王国中,于平坦与险峻之地往来巡行?

2.5.87

कच्चित्स्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः ।
कच्चिन्न श्रद्दधास्यासां कच्चिद्गुह्यं न भाषसे ॥ २.५.८७ ॥

你是否安抚妇女?她们是否得到妥善保护?你是否不信任她们?你是否不把秘密告诉她们?

2.5.88

कच्चिदात्ययिकं श्रुत्वा तदर्थमनुचिन्त्य च ।
प्रियाण्यनुभवञ्शेषे न त्वमन्तः पुरे नृप ॥ २.५.८८ ॥

大王,你是否在听闻紧急消息并加以思量之后,才在内宫享受快乐而入睡,而非其他?

2.5.89

कच्चिद्द्वौ प्रथमौ यामौ रात्रेः सुप्त्वा विशाम्पते ।
सञ्चिन्तयसि धर्मार्थौ याम उत्थाय पश्चिमे ॥ २.५.८९ ॥

人主啊,你是否在夜晚前两个时辰入睡,而在最后一个时辰起身思考法与利?

2.5.90

कच्चिद्दर्शयसे नित्यं मनुष्यान्समलङ्कृतः ।
उत्थाय काले कालज्ञैः सह पाण्डव मन्त्रिभिः ॥ २.५.९० ॥

般度之子啊,你是否总是盛装示人于民,并在适当的时候与知晓时机的大臣一同起身?

2.5.91

कच्चिद्रक्ताम्बरधराः खड्गहस्ताः स्वलङ्कृताः ।
उपासते त्वामभितो रक्षणार्थमरिन्दम ॥ २.५.९१ ॥

身着红衣、手持利剑、装饰华美的卫士是否在四周守护你、侍奉你?啊,降伏敌人者?

2.5.92

कच्चिद्दण्ड्येषु यमवत्पूज्येषु च विशाम्पते ।
परीक्ष्य वर्तसे सम्यगप्रियेषु प्रियेषु च ॥ २.५.९२ ॥

人民之主啊,你对应受惩罚者如阎摩一般,对应受尊敬者经过考察,对不喜爱者与所喜爱者,是否都行事得当?

2.5.93

कच्चिच्छारीरमाबाधमौषधैर्नियमेन वा ।
मानसं वृद्धसेवाभिः सदा पार्थापकर्षसि ॥ २.५.९३ ॥

啊,普利塔之子,你是否总以药物或调养去除身体的疾病,以侍奉长者去除心中的疾病?

2.5.94

कच्चिद्वैद्याश्चिकित्सायामष्टाङ्गायां विशारदाः ।
सुहृदश्चानुरक्ताश्च शरीरे ते हिताः सदा ॥ २.५.९४ ॥

精通八支医术的医师,以及你的友人与忠心之人,是否始终对你的身体有益?

2.5.95

कच्चिन्न लोभान्मोहाद्वा मानाद्वापि विशाम्पते ।
अर्थिप्रत्यर्थिनः प्राप्तान्नापास्यसि कथञ्चन ॥ २.५.९५ ॥

人民之主啊,你是否从不因贪欲、迷惑或傲慢,以任何方式拒绝前来的原告与被告?

2.5.96

कच्चिन्न लोभान्मोहाद्वा विश्रम्भात्प्रणयेन वा ।
आश्रितानां मनुष्याणां वृत्तिं त्वं संरुणात्सि वै ॥ २.५.९६ ॥

你是否从不因贪欲、迷惑、信任或私情,而断绝依附于你的人们的生计?

2.5.97

कच्चित्पौरा न सहिता ये च ते राष्ट्रवासिनः ।
त्वया सह विरुध्यन्ते परैः क्रीताः कथञ्चन ॥ २.५.९७ ॥

城中的百姓和国中的居民是否与你同心?他们是否被敌人以某种方式收买,而与你对立?

2.5.98

कच्चिन्न दुर्बलः शत्रुर्बलेन परिपीडितः ।
मन्त्रेण बलवान्कश्चिदुभाभ्यां च कथञ्चन ॥ २.५.९८ ॥

弱小的敌人是否不被武力所压制?强大的敌人是否不被谋略,或以两者以某种方式所压制?

2.5.99

कच्चित्सर्वेऽनुरक्तास्त्वां भूमिपालाः प्रधानतः ।
कच्चित्प्राणांस्त्वदर्थेषु सन्त्यजन्ति त्वया हृताः ॥ २.५.९९ ॥

所有的地方君主,尤其是主要的大王,是否都归附于你?那些被你所笼络的人,是否为了你而甘愿舍弃性命?

2.5.100

कच्चित्ते सर्वविद्यासु गुणतोऽर्चा प्रवर्तते ।
ब्राह्मणानां च साधूनां तव नैः श्रेयसी शुभा।
दक्षिणास्त्वं ददास्येषां नित्यं स्वर्गापवर्गदाः ॥ २.५.१०० ॥

你是否依据才德在各门学问中尊敬有德之人?你对婆罗门和善人的礼敬是否吉祥,并导向至高的福祉?你是否总是向他们施予能带来天界与解脱的布施?

2.5.101

कच्चिद्धर्मे त्रयीमूले पूर्वैराचरिते जनैः ।
यतमानस्तथा कर्तुं तस्मिन्कर्मणि वर्तसे ॥ २.५.१०१ ॥

在以三吠陀为根本、由先人所实行的法中,你是否努力依此行事,并专注于那项事业?

2.5.102

कच्चित्तव गृहेऽन्नानि स्वादून्यश्रन्ति वै द्विजाः ।
गुणवन्ति गुणोपेतास्तवाध्यक्षं सदक्षिणम् ॥ २.५.१०२ ॥

在你的家中,再生者们是否享用美味上好的食物?那些有德、具备良好品质的人,是否在你的监督下,连同布施一起用餐?

2.5.103

कच्चित्क्रतूनेकचित्तो वाजपेयांश्च सर्वशः ।
पौण्डरीकांश्च कार्त्स्न्येन यतसे कर्तुमात्मवान् ॥ २.५.१०३ ॥

你是否一心专注、克制自己,全力举行一切祭祀、婆阇比耶祭和补陀利迦祭?

2.5.104

कच्चिज्ज्ञातीन्गुरून्वृद्धान्दैवतांस्तापसानपि ।
चैत्यांश्च वृक्षान्कल्याणान्ब्राह्मणांश्च नमस्यसि ॥ २.५.१०४ ॥

你是否向亲属、师长、长者、神祇、苦行者、神圣的祠庙、吉祥的树木和婆罗门致敬?

2.5.105

कच्चिच्छोको न मन्युर्वा त्वया प्रोत्पाद्यतेऽनघ ।
अपि मङ्गलहस्तश्च जनः पार्श्वे न तिष्ठति ॥ २.५.१०५ ॥

无罪者啊,你是否不会引起悲伤或愤怒?手持吉祥之物的人难道不站在你身旁吗?

2.5.106

कच्चिदेषा च ते बुद्धिर्वृत्तिरेषा च तेऽनघ ।
आयुष्या च यशस्या च धर्मकामार्थदर्शिनी ॥ २.५.१०६ ॥

无罪者啊,你的这种智慧与这种行为,是否能带来长寿与名声,并显示法、欲与利?

2.5.107

एतया वर्तमानस्य बुद्ध्या राष्ट्रं न सीदति ।
विजित्य च महीं राजा सोत्यन्तं सुखमेधते ॥ २.५.१०७ ॥

以此智慧行事的国王,其国家不会衰败;征服大地之后,他便极度幸福地繁荣昌盛。

2.5.108

कच्चिदार्यो विशुद्धात्मा क्षारितश्चौरकर्मणि ।
अदृष्टशास्त्रकुशलैर्न लोभाद्वध्यते शुचि ॥ २.५.१०८ ॥

是否有一位高尚、心灵纯净的人,因盗窃之事被烙印,却没有被那些精通技艺却不谙经典的人贪婪地处死,且他是清白的?

2.5.109

दुष्टो गृहीतस्तत्कारितज्ज्ञैर्दृष्टः सकारणः ।
कच्चिन्न मुच्यते स्तेनो द्रव्यलोभान्नरर्षभ ॥ २.५.१०९ ॥

人中之雄啊,被熟知此类盗窃之人抓获、并有证据可见的恶贼,难道不会因贪求财物而被释放吗?

2.5.110

उत्पन्नानकच्चिदाढ्यस्य दरिद्रस्य च भारत ।
अर्थान्न मिथ्या पश्यन्ति तवामात्या हृता धनैः ॥ २.५.११० ॥

婆罗多啊,你的大臣们被财物所夺,对于富人与穷人之间产生的诉讼,是否不曾如实看待?

2.5.111

नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् ।
अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम्।
एकचिन्तनमर्थानामनर्थज्ञैश्च चिन्तनम् ॥ २.५.१११ ॥

无信、虚妄、愤怒、放逸、拖延、不接近智者、懒惰、耽于五欲、对利益作片面思考,以及与不知利害之人商议。

2.5.112

निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् ।
मङ्गलाद्यप्रयोगं च प्रत्युत्थानं च सर्वतः ॥ २.५.११२ ॥

已经决定之事却不开始,不守护谋议,不举行吉祥等仪式,以及四面八方都有叛乱兴起。

2.5.113

कच्चित्त्वं वर्जयस्येतान्राजदोषांश्चतुर्दश ।
प्रायशोयैर्विनश्यन्ति कृतमूलापि पार्थिवः ॥ २.५.११३ ॥

你是否避开了这十四种君王之过?因为这些过失,即使根基牢固的国王也大多会走向灭亡。

2.5.114

कच्चित्ते सफला वेदाः कच्चित्ते सफळं धनम् ।
कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम् ॥ २.५.११४ ॥

你的吠陀是否有成效?你的财富是否有益?你的妻子们是否有福?你所闻之学问是否有成效?

2.5.115

कथं वै सफला वेदाः कथं वै सफलं धनम् ।
कथं वै सफला दाराः कथं वै सफलं श्रुतम् ॥ २.५.११५ ॥

吠陀如何结出果实?财富如何结出果实?妻子如何结出果实?所闻之学如何结出果实?

2.5.116

अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम् ।
रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम् ॥ २.५.११६ ॥

吠陀的果实在火祭中;财富的果实在布施与享用中;妻子的果实在欢愉与子嗣中;所闻之学的果实在良好品行与正直生活中。

2.5.117

एतदाख्याय स मुनिर्नारदो वै महातपाः ।
पप्रच्छानन्तरमिदं धर्मात्मानं युधिष्ठिरम् ॥ २.५.११७ ॥

大苦行者仙人那罗陀说完这些后,接着问了正法之心的坚战这件事。

2.5.118

कच्चिदभ्यागता दूराद्वणिजो लाभकारणात् ।
यथोक्तमवहार्यन्ते शुल्कं शुल्कोपजीविभिः ॥ २.५.११८ ॥

靠关税为生的官吏,是否只向远道而来求利的商人征收规定的税额?

2.5.119

कच्चित्ते पुरुषा राजन्पुरे राष्ट्रे च मानिताः ।
उपानयन्ति पण्यानि उपाधाभिरवञ्चिताः ॥ २.५.११९ ॥

国王啊,你城中与国中受尊敬的人,是否不受欺骗地把货物送来?

2.5.120

कच्चिच्छृणोषि वृद्धानां धर्मार्थसहिता गिरः ।
नित्यमर्थविदां तात यथाधर्मार्थदर्शिनाम् ॥ २.५.१२० ॥

亲爱的孩子,你是否经常聆听那些通晓义理、正确洞见正法与财利的长者所说的、兼具正法与财利的话语?

2.5.121

कच्चित्ते कृषितन्त्रेषु गोषु पुष्पफलेषु च ।
धर्मार्थं च द्विजातिभ्यो दीयेते मधुसर्पिषी ॥ २.५.१२१ ॥

你是否从农事、牛群、花果之中取出蜂蜜和酥油,为法而施予再生族?

2.5.122

द्रव्योपकरणं किञ्चित्सर्वदा सर्वशिल्पिनाम् ।
चातुर्मास्यावरं सम्यङ्नियतं सम्प्रयच्छसि ॥ २.५.१२२ ॥

你是否总是,即使在雨季四个月中,也定期而妥善地为所有工匠提供至少一些材料和工具?

2.5.123

कच्चित्कृतं विजानीषे कर्तारं च प्रशंससि ।
सतां मध्ये महाराज सत्करोषि च पूजयन् ॥ २.५.१२३ ॥

你是否认可已完成的事业,并称赞其作者?伟大的君王啊,你是否在善人之中尊敬他、礼拜他?

2.5.124

कच्चित्सूत्राणि सर्वाणि गृह्णासि भरतर्षभ ।
हस्तिसूत्राश्वसूत्राणि रथसूत्राणि वा विभो ॥ २.५.१२४ ॥

伟大的婆罗多之雄啊,你是否掌握所有的论典——象论、马论或车论,啊,大能者?

2.5.125

कच्चिदभ्यस्यते सम्यग्गृहे ते भरतर्षभ ।
धनुर्वेदस्य सूत्रं वै यन्त्रसूत्रं च नागरम् ॥ २.५.१२५ ॥

婆罗多之雄啊,你家中是否妥善研习《弓术论》与城市机械论?

2.5.126

कच्चिदस्त्राणि सर्वाणि ब्रह्मदण्डश्च तेऽनघ ।
विषयोगास्तथा सर्वे विदिताः शत्रुनाशनाः ॥ २.५.१२६ ॥

无罪者啊,你是否通晓所有兵器与梵杖?同样,那些摧毁敌人的毒药之用是否都为你所知?

2.5.127

कच्चिदग्निभयाच्चैव सर्वं व्यालभयात्तथा ।
रोगरक्षोभयाच्चैव राष्ट्रं स्वं परिरक्षशि ॥ २.५.१२७ ॥

你是否从火灾之惧、猛兽之惧,以及疾病与罗刹之惧中,好好地守护你自己的国土?

2.5.128

कच्चिदन्धांश्च मूकांश्च पङ्गून्व्यङ्गानबान्धवान् ।
पितेव पासि धर्मज्ञ तथा प्रव्रजितानपि ॥ २.५.१२८ ॥

精通法的人啊,你是否像父亲一样庇护盲人、哑人、跛子、残障者、无亲之人,以及出家人?

2.5.129

षडवर्था महाराज कच्चित्ते पृष्ठतः कृताः ।
निद्राऽऽलस्यं भयं क्रोधो मार्दवं दीर्घसूत्रता ॥ २.५.१२९ ॥

伟大的国王啊,你是否已将六件事置于身后:睡眠、懒惰、恐惧、愤怒、柔弱与拖延?

2.5.130

ततः कुरूणामृषभो महात्मा ।
श्रुत्वा गिरो ब्राह्मणसत्तमस्य।
प्रणम्य पादावभिवाद्य तुष्टो ।
राजाऽब्रवीन्नारदं देवरूपम् ॥ २.५.१३० ॥

于是,库鲁族中的雄牛、大德之王,听了婆罗门中最优秀者的话语,向他的足下顶礼,恭敬地致敬,心中欢喜,对形如天神的那罗陀说道。

2.5.131

एवं करिष्यामि यथा त्वयोक्तं ।
प्रज्ञा हि मे भूय एवाभिवृद्धा।
उक्त्वा तथा चैव चकार राजा ।
लेभे महीं सागरमेखलां च ॥ २.५.१३१ ॥

“我将依你所说而行;我的智慧确实更加增长了。”国王说罢便如此行事,并获得了被大海环绕的大地。

2.5.132

एवं यो वर्तते राजा चातुर्वर्ण्यस्य रक्षणे ।
स विहृत्येह सुसुखी शुक्रस्यैति सलोकताम् ॥ २.५.१३२ ॥

能如此护持四种姓的国王,在此享受极大的安乐,之后便到达金星(Śukra)的世界。