Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.50

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.50.1

शृणु राजंस्ततो विष्णोः प्रादुर्भावं महात्मनः ।
अष्टाविंशे युगे चापि मार्कण्डेयपुरः सरः ॥ २.५०.१ ॥

大王,请听伟大灵魂毗湿奴的降世。在第二十八时代,由摩根德耶引领。

2.50.2

तिथौ नावमिके जज्ञे तथा दशरथादपि ।
कृत्वाऽऽत्मानं महाबाहुश्चतुर्धा विष्णुरव्ययः ॥ २.५०.२ ॥

在第九个太阴日,他降生,也降生于十车王。大臂的不灭毗湿奴将自己分为四份。

2.50.3

लोके राम इति ख्यातस्तेजसा भास्करोपमः ।
प्रसादनार्थं लोकस्य विष्णुस्तत्र सनातनः ॥ २.५०.३ ॥

他在世间以罗摩之名闻名,光辉如太阳。永恒的毗湿奴在那里,为了使世界欢喜。

2.50.4

धर्मार्थमेव कौन्तेय जज्ञे तत्र महायशाः ।
तमप्याहुर्मनुष्येन्द्रं सर्वभूतपतेस्तनुम् ॥ २.५०.४ ॥

贡蒂之子啊,为了法,他在那里降生,这位大名之人。人们也称他为人王,是一切众生之主的化身。

2.50.5

यज्ञविघ्नकरस्तत्र विश्वामित्रस्य भारत ।
सुबाहुर्निहतस्तेन मारीचस्ताडितो भृशम् ॥ २.५०.५ ॥

婆罗多之子啊,那里阻碍毗首摩多罗祭祀的苏巴忽被他杀死,摩利遮也被重创。

2.50.6

तस्मै दत्तानि चास्राणि विश्वमित्रेण धीमता ।
वधार्थं सर्वशत्रूणां दुर्वाराणि सुरैरपि ॥ २.५०.६ ॥

智者毗首摩多罗将武器赠予他,用以杀灭一切敌人,即使诸神也难以抵挡。

2.50.7

वर्तमाने महायज्ञे जनकस्य महात्मनः ।
भग्नं माहेश्वरं चापं क्रीडता लीलया भृशम् ॥ २.५०.७ ॥

在高尚的遮那迦举行大祭祀期间,他仿佛游戏一般,猛力折断了摩醯湿伐罗的神弓。

2.50.8

ततस्तु सीतां जग्राह भार्यार्थे जानकीं विभुः ।
नगरीं पुनरासाद्य मुमुदे तत्र सीतया ॥ २.५०.८ ॥

随后,这位强大者迎娶了遮那姬悉多为妻;回到城中后,他与悉多在那里欢乐。

2.50.9

कस्यचित्त्वथ कालस्य पित्रा तत्राभिचोदितः ।
कैकेय्याः प्रियमन्विच्छन्वनमभ्यवपद्यत ॥ २.५०.९ ॥

过了一些时日,他受父亲在那里的催促,为了讨好吉迦伊,便前往森林。

2.50.10

यः समाः सर्वधर्मज्ञश्चतुर्दश वने वसन ।
लक्ष्मणानुचरो रामः सर्वभूतहिते रतः ॥ २.५०.१० ॥

精通一切法的罗摩在森林中居住了十四年,随从是罗什曼那,他乐于利益一切众生。

2.50.11

चतुर्दश वने तीर्त्वा तदा वर्षाणि भारत ।
रूपिणी यस्य पार्श्वस्था सीतेत्यभिहिता जनैः ॥ २.५०.११ ॥

婆罗多啊,在森林中度过十四年之后,那位以形体伴随在他身旁、被人们称为悉多的女子,

2.50.12

पूर्वोचितत्वात्सा लक्ष्मीर्भर्तारमनुशोचति ।
जनस्थाने वसन्कार्यं त्रिदशानां चकार सः ॥ २.५०.१२ ॥

因为往昔的相称,那位吉祥天女为她的丈夫哀伤。他居住在惹那斯坦,完成了诸天的使命。

2.50.13

मारीचं दूषणं हुत्वा खरं त्रिशिरसं तथा ।
चतुर्दश सहस्राणि रक्षसां घोरकर्मणाम् ॥ २.५०.१३ ॥

杀死了摩里采、都舍那、卡罗和三头罗刹,以及十四千名行事残酷的罗刹。

2.50.14

जघान रामो धर्मात्मा प्रजानां हितकाम्यय ।
विराधं च कबन्धं च राक्षसौ घोरकर्मिणौ ॥ २.५०.१४ ॥

正直的罗摩为了百姓的福祉,杀死了两个行事残酷的罗刹,毗罗陀和羯班陀。

2.50.15

जघान च तदा रामो गन्धर्वौ शाषविक्षतौ ।
स रावणस्य भगिनीनासाच्छेदमकारयत् ॥ २.५०.१५ ॥

那时罗摩杀死了两个因诅咒而受伤的乾闼婆,并令人割去了罗波那之妹的鼻子。

2.50.16

भार्यावियोगं तं प्राप्य मृगयन्व्यचरद्वनम् ।
स तस्मादृश्यमूकं तु गत्वा पम्पामतीत्य च ॥ २.५०.१६ ॥

失去妻子后,他在林中漫游寻找她;然后从那里前往熊猴山,渡过了般波河。

2.50.17

सुग्रीवं मारुतिं दृष्ट्वा चक्रे मैत्रीं तयोः स वै ।
अथ गत्वा स किष्किन्धां सुग्रीवेण तदा सह ॥ २.५०.१७ ॥

他见到了须羯哩婆与摩如提(哈努曼),便与二人结为友好;随后他前往基什坎达,与须羯哩婆一同留在那里。

2.50.18

निहत्य वालिनं युद्धे वानरेद्रं महाबलम् ।
अभ्यपिञ्चत्तदा रामः सुग्रीवं वानरेश्वरम् ॥ २.५०.१८ ॥

罗摩在战斗中杀死了强大的猴王婆林,随即为须羯哩婆行灌顶礼,立他为猴王。

2.50.19

ततः स वीर्यवान्राजंस्त्वरया वै समुत्सुकः ।
विचित्य वायुपुत्रेण लङ्कादेशं निवेदितः ॥ २.५०.१९ ॥

于是那位勇猛的国王啊,在风神之子探查后报告了楼迦国的消息,他急切而渴望地行动起来。

2.50.20

मेतुं वद्ध्वा समुद्रस्य वानरैः स समुत्सुकः ।
सीतायाः पदमन्विच्छन्रामो लङ्कां विवेश वै ॥ २.५०.२० ॥

与猴众在海上架起桥梁,他满怀渴望地寻找悉多的踪迹,罗摩果然进入了楼迦城。

2.50.21

देवोरगगणानां हि यक्षराक्षसपक्षिणाम् ।
तत्रावद्यं राक्षसेन्द्रं रावणं युधि दुर्जयम् ॥ २.५०.२१ ॥

对于诸天、龙蛇、夜叉、罗刹与飞禽的众类而言,那里有罗刹王罗波那,他可受谴责,在战斗中不可战胜。

2.50.22

युक्तं राक्षसकोटीभिर्भिन्नाञ्जनचयोपमम् ।
दुर्निरीक्ष्यं सुरगणैर्वरदानेन दर्पितम् ॥ २.५०.२२ ॥

与千万罗刹同行,如同碎裂的黑眼膏堆,诸天众难以直视,因恩赐而骄傲。

2.50.23

जघान सचिवैः सार्धं सान्वयं रावणं रणे ॥ २.५०.२३ ॥

在战斗中,连同他的大臣与整个宗族,罗摩杀死了罗波那。

2.50.24

त्रैलोक्यकण्टकं वीरं महाकायं महाबलम् ।
रावमं सगणं हत्वा रामो भूतपतिः पुरा ॥ २.५०.२४ ॥

罗摩,昔日的众生之主,杀死了罗波那——三界之刺,英雄,身躯庞大、力量强大,连同他的部众。

2.50.25

लङ्कायां तं महात्मानं राक्षसेन्द्रं विभीषणम् ।
अभिषिच्य ततो राम अमरत्वं ददौ तदा ॥ २.५०.२५ ॥

在楞伽,他为那位伟大的罗刹王毗భीषण行灌顶礼,罗摩啊,随即赐予他不死之身。

2.50.26

आरुह्य पुष्पकं रामः सीतामादाय पाण्डव ।
सबलं स्वपुरं गत्वा धर्मराज्यमपालयत् ॥ २.५०.२६ ॥

罗摩登上普什帕卡车,带着悉多,啊般度子,与军队一同回到自己的城邦,并以正法治理王国。

2.50.27

दानवो लवणो नाम मधोः पुत्रो महाबलः ।
शत्रुघ्नेन हतो राजंस्तदा रामस्य शासनात् ॥ २.५०.२७ ॥

摩图之子名叫楼婆那的大力檀那婆,啊王,当时在罗摩的命令下被舍睹卢祇那杀死。

2.50.28

एवं बहूनि कर्माणि कृत्वा लोकहिताय सः ।
राजं चकार विधिवद्रामो धर्मभृतां वरः ॥ २.५०.२८ ॥

罗摩如此为世界的福祉做了许多事,作为奉持正法者中的最优者,他依仪轨举行了王权灌顶祭。

2.50.29

शताश्वमेधानाजह्रे ज्योतिरुक्थ्यान्निरर्गलान् ।
नाश्रूयन्ताशुभा वाचो नात्ययः प्राणिनां तदा। ॥ २.५०.२९ ॥

他无阻碍地举行了百次马祭以及星光祭与赞颂祭,那时众人之间听不到不祥之言,也无人夭亡。

2.50.30

न दस्युजं भयं चासीद्रामे राज्यं प्रशसति ।
ऋषीणां देवतानां च मनुष्याणां तथैव च ॥ २.५०.३० ॥

在被颂扬的罗摩王国中,没有盗贼带来的恐惧;仙人、天神与人类也同样如此。

2.50.31

पृथिव्यां धार्मिकाः सर्वे रामे राज्यं प्रशासति ।
नाधर्मिष्ठो नरः कश्चिद्बभूव प्राणिनां क्वचित् ॥ २.५०.३१ ॥

罗摩治理王国之时,大地上的人都行法;众生之中从未有不法之人。

2.50.32

प्राणापानौ समौ ह्यास्तां रामे राज्यं प्रशासति ।
गाधामप्यत्र गायन्ति ये पुराणविदो जनाः ॥ २.५०.३२ ॥

罗摩治理王国之时,气息与下行之气平等;此事,通晓往古典籍的人也吟唱一首偈颂。

2.50.33

श्यामो युवा लोहिताक्षो मातङ्गानामिवर्षभः ।
आजानुबाहुः सुमुखः सिंहस्कन्धो महाबलः ॥ २.५०.३३ ॥

他肤色黝黑,年少,红眼,如象群中的公牛;手臂长至膝,面容俊美,肩如狮子,大力无比。

2.50.34

दशवर्षसहस्राणि दशवर्षशतानि च ।
राज्यं भोगं च सम्प्राप्य शशास पृथिवीमिमाम् ॥ २.५०.३४ ॥

他获得王国与享受,统治此大地达一万年零一千年。

2.50.35

रामो रामो राम इति प्राजानामभवन्कथाः ।
रामभूतं जगदिदं रामे राज्यं प्रशासति ॥ २.५०.३५ ॥

“罗摩、罗摩、罗摩”成了民众的话语;罗摩治理王国之时,这整个世界充满了罗摩。

2.50.36

ऋग्यजुः सामहीनाश्च न तदाऽसन्द्विजायः ।
उषित्वा दण्डके कार्यं त्रिदशानां चकार सः ॥ २.५०.३६ ॥

那时没有缺失《梨俱》《夜柔》《娑摩》的再生族;他居于檀特迦森林,完成了诸神之事。

2.50.37

पूर्वापकारिणं तं तु पौलस्त्यं मनुजर्षभम् ।
देवगन्धर्वनागानामरिं स निजघानह ॥ २.५०.३७ ॥

那位曾经伤害过他、为天神、乾闼婆和龙蛇之敌的补罗斯底之子,被那位人中之牛杀死了。

2.50.38

सत्ववान्गुणसम्पन्नो दीप्यमानः स्वतेजसा ।
एवमेव महाबाहुरिक्ष्वाकुकुलवर्धनः ॥ २.५०.३८ ॥

具有善性、德行圆满、以自身光辉闪耀;同样,那大臂者,是甘蔗王族的增益者。

2.50.39

रावणं सगणं हत्वा दिवमाक्रमताभिभूः ।
ति दाशरथेः ख्यातः प्रादुर्भावो महात्मनः ॥ २.५०.३९ ॥

杀死罗波那及其随从之后,那征服者升上天界;如此,十车王之子这位大德的降世便广为人知。

2.50.40

ततः कृष्णो महाबाहुर्भीतानामभयङ्करः ।
अष्टाविंशे युगे राजञ्जज्ञे श्रीवत्सलक्षणः ॥ २.५०.४० ॥

此后,大臂的克里希那——给予惊恐者无畏者——,大王啊,在第二十八个时代诞生,身带吉祥卍(室利瓦特萨)之相。

2.50.41

पेशलश्च वदान्यश्चलोके बहुमतो नृषु ।
स्मृतिमान्देशकालज्ञः शङ्खचक्रगदासिभृत् ॥ २.५०.४१ ॥

他温和而慷慨,在世间人群中备受推崇,记忆力强,通晓时地,执持法螺、轮盘、棒与剑。

2.50.42

वासुदेव इति ख्यातो लोकानां हितकृत्सदा ।
वृष्णीनां च कुले जातो भूमेः प्रियचिकीर्षया ॥ २.५०.४२ ॥

以婆苏提婆之名闻名,常为诸世界行利益,因愿使大地欢喜而降生于伐栗尼族中。

2.50.43

शत्रूणां भयकृद्दाता मधुहेति स विश्रुतः ।
शकटार्जुनरामाणां कीलस्थानान्यसूदयत् ॥ २.५०.४३ ॥

他使敌人恐惧,以杀死摩图而闻名,他摧毁了沙卡塔、阿周那们和罗摩的木桩之地。

2.50.44

कंसादीन्निजघानाजौ दैत्यान्मानुषविग्रहान् ।
अयं लोकहितार्थाय प्रादुर्भावो महात्मनः ॥ २.५०.४४ ॥

他在战场上杀死了卡姆萨及其他化为人形的檀那婆。这位大灵的显现是为了世界的福祉。

2.50.45

कल्की विष्णुयशा नाम भूयश्चोत्पत्स्यते हरिः ।
लेर्युगान्ते सम्प्राप्ते धर्मे शिथिलतां गते ॥ २.५०.४५ ॥

名为毗湿奴耶舍的迦尔吉,哈里将再次降生;那时在时代的终结,法已松弛。

2.50.46

पाषण्डिनां गणानां हि वधार्थं भरतर्षभ ।
धर्मस्य च विवृद्ध्यर्थं विप्राणां हितकाम्यया ॥ २.५०.४६ ॥

婆罗多中的雄牛啊,为了消灭异端之众,为了法的增长,并出于对婆罗门福祉的愿望。

2.50.47

एते चान्ये च बहवो विष्णोर्देवगणैर्युताः ।
प्रादुर्भावाः पुराणेषु गीयन्ते ब्रह्मवादिभिः ॥ २.५०.४७ ॥

这些以及许多其他毗湿奴的显现,与诸神之众相伴,在往世书中被梵之宣说者所歌颂。