摩诃婆罗多 · 章 2.51
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.51.1
एवमुक्ते तु कौन्तेयस्ततः कौरवनन्दनः ।
आबभाषे पुनर्भीष्णे धर्मराजो युधिष्ठिरः ॥ २.५१.१ ॥
听罢此言,贡蒂之子、俱卢之喜、法王坚战再次向毗湿摩开口。
2.51.2
भूय एव मनुष्येन्द्र उपेन्द्रस्य यशस्विनः ।
जन्म वृष्णिषु विज्ञातुमिच्छामि वदतां वर ॥ २.५१.२ ॥
人中之主,言者中最优者,我想再次了解光荣的优本陀罗(克里希那)在毗湿尼族中的诞生。
2.51.3
यथैव भगवाञ्जातः क्षिताविह जनार्दनः ।
माधवेषु महाबुद्धिस्तन्मे ब्रूहि पितामह ॥ २.५१.३ ॥
祖父啊,请告诉我,那位大智的薄伽梵生主(阎罗门)如何在大地上降生于摩陀婆族之中。
2.51.4
एवमुक्तस्ततो भीष्मः केशवस्य महात्मनः ।
माधवेषु तथा जन्म कथयामास वीर्यवान् ॥ २.५१.४ ॥
如此问后,有力的毗湿摩便讲述了伟大的凯沙婆在摩陀婆族中的诞生。
2.51.5
हन्त ते कथयिष्यामि युधिष्ठिर यथातथम् ।
यतो नारायणस्येह जन्म वृष्णिषु कौरव ॥ २.५१.५ ॥
好吧,坚战,我将如实告诉你,那那罗延如何在此降生于毗湿尼族中,俱卢之子啊。
2.51.6
पुरा लोके महाराज वर्तमाने कृते युगे ।
आसीत्रैलोक्यविख्यातः सङ्ग्रामस्तारकामयः ॥ २.५१.६ ॥
大王啊,往昔圆满时代正在进行之时,世间发生了一场名闻三界的战争,起因于塔拉卡。
2.51.7
विरोचनो मयस्तारो वराहः श्वेत एव च ।
विप्रचित्तिः प्रलम्बश्च वृत्रजम्भबलादयः ॥ २.५१.७ ॥
毗卢遮那、摩耶、陀罗、伐罗诃、白、毗缚质多、钵罗摩巴,以及弗栗多、遮婆、婆罗等。
2.51.8
नमुचिः कालनेमिश्च प्रह्लाद इति विश्रुतः ।
लम्बः किशोरः स्वर्भानुररिष्टो राक्षसेश्वरः ॥ २.५१.८ ॥
那牟赤、迦罗涅弥、著名的钵罗诃罗陀,以及楞婆、柯首罗、斯婆跋奴,和罗刹王阿里湿吒。
2.51.9
एते चान्ये च बहवो दैत्यसङ्घाः सहस्रशः ।
नानाशस्त्रधरा राजन्नानाभूषणवाहनाः ॥ २.५१.९ ॥
此等及其他众多的提提亚群,成千上万,大王啊,手持种种兵器,身饰种种装饰,乘坐种种坐骑。
2.51.10
देवतानामभिमुखास्तस्थुर्दैतेयदानवाः ।
देवास्तु युध्यमानास्ते दानवानभ्ययू रणे ॥ २.५१.१० ॥
提提亚与檀那婆面对诸神而立;诸神则奋战,在战场上向檀那婆冲去。
2.51.11
आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः ।
इन्द्रो यमश्च वरुणश्चन्द्रश्चैव धनेश्वरः ॥ २.५१.११ ॥
阿底提亚、婆苏、楼陀罗、萨陀耶、毗首提婆及众风神;因陀罗、阎摩、伐楼那、月神,以及财主俱毗罗。
2.51.12
अश्विनौ च महावीर्यौ ये चान्ये देवतागणाः ।
चक्रुर्युद्धं महाघोरं दानवैश्च यथाक्रमम् ॥ २.५१.१२ ॥
两位大力的阿输瓦,以及其余诸神群,依次与檀那婆展开了极为可怖的大战。
2.51.13
युध्यमानाः समेयुश्च देवा दैतेयदानवैः ।
तद्युद्धमभवद्घोरं देवदानवसङ्कुलम् ॥ २.५१.१३ ॥
众神与提婆与达那婆交战,那场战斗变得可怕,充满了神与达那婆。
2.51.14
ताभ्यां बलाभ्यां सञ्जज्ञे तुमुलो विग्रहस्तदा ।
तीक्ष्णशस्त्रैः किरन्तोऽथ अभ्ययुर्देवदानवाः ॥ २.५१.१४ ॥
于是两军之间爆发了激烈的冲突,众神与达那婆挥洒利刃,向前推进。
2.51.15
घ्रन्ति देवान्सगन्धर्वान्सयक्षोरगचारणान् ।
ते वध्यमाना दैतेयैर्देवसङ्घास्तदा रणे ॥ २.५१.१५ ॥
提婆正杀害众神,连同乾闼婆、夜叉、龙蛇与持明。那时,在战场上,诸神之众被提婆所杀。
2.51.16
त्रातारं मनसा जग्मुर्देवं नारायमं प्रभुम् ।
एतस्मिन्नन्तरे तत्र जगाम हरिरीश्वरः ॥ २.५१.१६ ॥
他们心中投奔护佑之神、主宰那罗延。与此同时,自在者哈里来到了那里。
2.51.17
दीपयञ्ज्योतिषा भूमिं शङ्खचक्रगदाधरः ।
तमागतं सुपर्णस्थं विष्णुं लोकनमस्कृतम् ॥ २.५१.१७ ॥
以光耀照亮大地,手持法螺、轮盘与重杵,乘坐金翅鸟而来的,受世间礼敬的毗湿奴。
2.51.18
दृष्ट्वा मुदा युताः सर्वे भयं त्यक्त्वा रमे सुराः ।
चक्रुर्युद्धं पुनः सर्वे देवा दैतेयदानवैः ॥ २.५१.१८ ॥
众神见之,心生欢喜,弃去恐惧,啊罗摩,他们再度与提婆和达那婆交战。
2.51.19
तद्युद्धमभवद्घोरमचिन्त्यं रोमहर्षणम् ।
जघ्रुर्दैत्यान्त्रणे घोराः सर्वे शक्रपुरोगमाः ॥ २.५१.१९ ॥
那场战斗可怕、难以想象、令人毛骨悚然。以帝释为首的所有猛烈天神在战场上击打了达提亚。
2.51.20
ते बाध्यमाना बिबुधैर्दुद्रुवुदैत्यदानवाः ॥ २.५१.२० ॥
那些达提亚与达那婆被天神逼迫,四散奔逃。
2.51.21
विद्रुतान्दानवान्दृष्ट्वा तदा भारत संयुगे ।
कालनेमिरिति ख्यातो दानवः प्रत्यदृश्यता ॥ २.५१.२१ ॥
婆罗多之子啊,见到达那婆在战中逃散,那时名为迦罗涅弥的达那婆现身了。
2.51.22
शत्रुप्रहरणे घोरः शतबाहुः शताननः ।
शतशीर्षः स्थितः श्रीमाञ्छतशृङ्गं इवाचलः ॥ २.५१.२२ ॥
他在击杀敌人时极为可怖,百臂、百面、百首,这位威仪的巨人如同百峰之山般屹立。
2.51.23
भास्कराकारमुकुटः शिञ्जिताभरणाङ्गदः ।
धूम्रकेतुर्हरिश्मश्रुर्निर्दष्टोष्ठपुटाननः ॥ २.५१.२३ ॥
头戴如日般的冠冕,佩戴叮当作响的饰物与臂钏,旗帜如烟,胡须赤黄,嘴唇与口被牙齿咬得紧紧的。
2.51.24
त्रैलोक्यान्तरविस्तारं धारयन्विपुलं वपुः ।
तर्जयन्वै रणे देवाञ्छादयन्वै दिशो दश ॥ २.५१.२४ ॥
他身躯庞大,横贯三界之间,在战中威吓诸神,遮蔽十方。
2.51.25
अभ्यधावत्सुसङ्क्रुद्धो व्यादितास्य इवान्तकः ।
तत्र शस्त्रप्रतानैश्च देवान्धर्षितवान्त्रणे ॥ २.५१.२५ ॥
他极为愤怒,如张口的死神般冲上前去,在战场上以密集的武器攻击诸神。
2.51.26
अभ्याययुः सुरान्सर्वान्पुनस्ते दैत्यदानवाः ।
आपीडयन्त्रणे क्रुद्धास्ततो देवान्युधिष्ठिर ॥ २.५१.२६ ॥
那些提提耶与檀那婆再度愤怒地扑向诸神;于是,在战斗中,尊者般的坚战啊,他们压迫了众神。
2.51.27
ते वध्यमाना विबुधाः समरे कालनेमिना ।
दैत्यैश्चैव महाराज दुद्रुवुस्ते दिशो दश ॥ २.५१.२७ ॥
那些在战斗中被迦罗奈彌与提提耶所杀的诸神,大王啊,向十方逃散了。
2.51.28
विबुधान्विद्रुतान्दृष्ट्वा कालनेमिर्महा।ञसुरः ।
इन्द्रं यमं च वरुणं वायुं च धनदं रविम् ॥ २.५१.२८ ॥
大阿修罗迦罗奈彌见诸神逃散,便看见了因陀罗、阎摩、伐楼那、风神、财神俱毗罗与太阳。
2.51.29
एतांश्चान्यान्बलाञ्जित्वा तेषां कार्याण्यवाप सः ।
तान्सर्वान्सहसा जित्वा कालनेमिर्महासुरः ॥ २.५१.२९ ॥
他以武力征服了这些神与其他诸神,接管了他们的职责;大阿修罗迦罗奈彌突然征服了他们所有人。
2.51.30
ददर्श गगने विष्णुं सुपर्णस्थं महाद्युतिम् ।
तं दृष्ट्वा क्रोधताम्राक्षस्तर्जयन्नभ्ययात्तदा ॥ २.५१.३० ॥
他在空中看见了站在迦楼罗上的大光明毗湿奴;看见他后,眼中因愤怒而泛红的他,当即一边威胁一边上前。
2.51.31
स बाहुशतमुद्यम्य सर्वास्त्रग्रहणं रणे ।
रोषाद्भारत दैत्येन्द्रो विष्णोरुरसि पातयत् ॥ २.५१.३१ ॥
在战场上举起持握一切武器的一百只手臂,婆罗多啊,阿修罗之主怒气冲冲地击中了毗湿奴的胸膛。
2.51.32
दैत्याश्च दानवाश्चैव सर्वे मयपुरोगमाः ।
स्वान्यायुधानि सङ्गृह्य सर्वे विष्णुमुपाद्रवन् ॥ २.५१.३२ ॥
阿修罗与檀那婆,皆以摩耶为首,各自拿起武器,全都冲向毗湿奴。
2.51.33
स ताड्यमानो।ञतिबलैर्दैत्यैः सर्वायुघोद्यतैः ।
न चचाल हरिर्युद्धेऽकम्पमान इवाचलः ॥ २.५१.३३ ॥
虽然被所有举起武器的强大阿修罗击打,哈里在战斗中未动分毫,如同不动的山岳。
2.51.34
पुनरुद्यम्य सङ्क्रुद्धः कालनेमिर्दृढां गदाम् ।
जघान गदया राजंस्तं विष्णुं गरुडं च वै ॥ २.५१.३४ ॥
愤怒的迦罗涅弥再次举起坚固的狼牙棒,国王啊,他用那狼牙棒击打了毗湿奴,也击打了迦鲁达。
2.51.35
तं दृष्ट्वा गुरडं श्रान्तं चक्रमुद्यस्य वै हरिः ।
शतं शिरांसि बाहूंश्च सोच्छिनत्कालनेमिनः ॥ २.५१.३५ ॥
哈里看到迦鲁达疲惫,便举起轮宝,斩断了迦罗涅弥的一百个头颅和手臂。
2.51.36
जघानान्यांस्च तान्सर्वान्समरे दैत्यदानवान् ।
विबुधानामृषीणां च स्वानि स्थानानि वै ददौ ॥ २.५१.३६ ॥
他在战斗中杀死了所有其余的阿修罗与檀那婆,并将诸神与仙人的居所归还给他们。
2.51.37
दत्त्वा सुराणां सुग्रीतो योग्यकर्माणि भारत ।
जगाम ब्रह्मणा सार्धं ब्रह्मलोकं तदा हरिः ॥ २.५१.३७ ॥
婆罗多啊,哈里向诸神授予了相称的位置,心中十分欢喜,随即与梵天一同前往梵天界。
2.51.38
ब्रह्मलोकं प्रविश्याश्च प्राप्य नारायणः प्रभुः ।
पौराणं ब्रह्मसदनं दिव्यं नारायणाश्रयम् ॥ २.५१.३८ ॥
进入梵天界后,主尊那罗延抵达梵天古老神圣的居所,那里是那罗延的归依之处。
2.51.39
स प्रविश्य तदा देवः स्तूयमानो महर्षिभिः ।
सहस्रशीर्षा भूत्वा च शयनायोपचक्रमे ॥ २.५१.३९ ॥
这位神进入那里,受到大仙人们的赞颂,化作千头之身,准备躺卧安歇。
2.51.40
आदिदेवः पुराणात्मा निद्रावशमुपागतः ।
शेते सुखं सदा विष्णुर्मोहयञ्जगदव्ययः ॥ २.५१.४० ॥
原初之神、古老的自性,陷入睡眠的掌控,安然入睡——不朽的毗湿奴,始终迷惑着世界。
2.51.41
जग्मुस्तस्याथ वर्षाणि शयानस्य महात्मनः ।
षट्त्रिंशच्छतसाहस्रं मानुषेणेह सङ्ख्यया ॥ २.५१.४१ ॥
对于那位沉睡的大德者,此处的岁月流逝——以人间计算,为三十六万乘以百。
2.51.42
जग्मुः कृतयुगत्रेताद्वापरान्ते बुबोध ह ।
ब्रह्मादिभिः स्तूयमानः सुरैश्चापि सहर्षिभिः ॥ २.५१.४२ ॥
在圆满、三界、二界诸时代的末尾,他醒来了,受到梵天等神、诸天神及大仙人的赞颂。
2.51.43
उत्पत्य शयनाद्विष्णुर्ब्रह्मणा विबुधैः सह ।
देवानां च हितार्थाय ययौ देवसभां प्रति ॥ २.५१.४३ ॥
毗湿奴从床榻起身,与梵天及诸天一同为诸天的利益前往天神会堂。
2.51.44
मेरोः शिरसि विन्यस्तां ज्वलन्तीं तां शुभां सभाम् ।
विविशुस्ते सुराः सर्वे ब्रह्मणा सह भारत ॥ २.५१.४४ ॥
婆罗多啊,诸天与梵天一同进入了那座安放在弥卢山顶、光辉灿烂的殊胜会堂。
2.51.45
जग्मुस्तत्र निषेदुस्ते सा निःशब्दा ह्यभूत्तदा ।
तत्र भूमिरुवाचाथ खेदात्करुणभाषिणी ॥ २.५१.४५ ॥
他们到达那里并坐下;那时会场变得寂静无声。大地由于忧苦,以悲悯的声音在那里开口说道。
2.51.46
राज्ञां बलैर्बलवतां खिन्नास्मि भृशपीडिता ।
नित्यं भारपरिश्रान्ता दुःखं जीवाम्यहं सुराः ॥ २.५१.४६ ॥
我被众多强大国王的军队折磨得疲惫不堪,深受压迫。常年被重负压得精疲力竭,诸天啊,我在苦难中度日。
2.51.47
पुरे पुरे च नृपतिः कोटिसङ्ख्यैर्बलैर्वृतः ।
राष्ट्रे राष्ट्रे च शतशो ग्रामाः कुलसहस्रिणः ॥ २.५१.४७ ॥
每座城市都有一位国王,被以千万计的军队所包围;每个国家都有数百个村庄,每个村庄有数千户人家。
2.51.48
भूमिपानां सहस्रैश्च तेषां च बिलनां बलैः ।
ग्रामायुतैः पुरै राष्ट्रैरहं निर्विवरीकृता ॥ २.५१.४८ ॥
我被成千上万的地上君主及其军队,以及成万的村庄、城市和国家所充塞,以致我身上已不剩任何空隙。
2.51.49
तस्माद्धारयितुं शक्त्या न क्षमासि जनानहम् ।
दैत्यैश्च बाध्यमानास्ताः प्राज नित्यं दुरात्मभिः ॥ २.५१.४९ ॥
因此你无力以你的力量承载我。我常被那些恶毒的提婆之敌所压迫……
2.51.50
भूमेस्तु वचनं श्रुत्वा देवो नारायणस्तदा ।
व्यादिश्य तान्सुरान्सर्वान्क्षितौ वस्तुं मनो दधे ॥ २.५१.५० ॥
聞地母之言後,於是天神那罗延向众天神发出指令,心中决意降临大地居住。