摩诃婆罗多 · 章 2.55
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.55.1
शूरसेनपुरं त्यक्त्वा ततो यादवनन्दनः ।
द्वारकां भगवान्कृष्णः प्रत्यपद्यत भारत ॥ २.५५.१ ॥
婆罗多啊,离开首陀罗塞纳城之后,耶达瓦的喜悦、尊贵的克里希那返回了德瓦拉卡。
2.55.2
ततो महात्मा यानानि रत्नानि विविधानि च ।
यथार्हं पुण्डरीकाक्षो नैर्ऋतात्प्रत्यपद्यत ॥ २.५५.२ ॥
随后,这位大德的莲花眼者依其应得,从奈尔利塔处取回了各种车乘与宝石。
2.55.3
तत्र विघ्नं चरन्ति स्म दैतेयाः सहदानवैः ।
ताञ्जघान महाबाहुर्वरमत्तान्महासुरान् ॥ २.५५.३ ॥
那里,提迪亚与檀那婆共同制造阻碍;大臂者杀死了那些因恩赐而狂妄的大阿修罗。
2.55.4
स विघ्नमकरोत्तत्र नरको नाम नैर्ऋतः ।
अदितिं धर्षयामास कुण्डलार्थं युधिष्ठिर ॥ २.५५.४ ॥
他在那里制造了阻碍——名叫那罗迦的奈尔利塔,为了耳环,他侮辱了阿迪提,俱卢王啊。
2.55.5
न चासुरगणैः सर्वैः सहितैः कर्म तत्पुरा ।
कृतपूर्वं महाघोरं यदकार्षीन्महासुरः ॥ २.५५.५ ॥
往昔,即使所有阿修罗的部众合在一起,也未曾做过那件极为可怖之事,而那位大阿修罗做了。
2.55.6
यं मही सुषुवे देवी यस्य प्राग्ज्योतिषं पुरम् ।
विषयान्तपालाश्चत्वारो यस्यासन्युद्धदुर्मदाः ॥ २.५५.६ ॥
那位由大地女神所生者,其城名为普拉格迪优提沙,其四位王国边境守卫在战斗中骄狂不已。
2.55.7
आदेवयानमावृत्य पन्थानं पर्यवस्थिताः ।
त्रासनाः सुरसङ्घानां विरूपै राक्षसैः सह ॥ २.५५.७ ॥
他们包围了诸神之路而驻立,使众神之群恐惧,与丑陋的罗刹一起。
2.55.8
हयग्रीवो निकुम्भश्च घोरः पञ्चजनस्तदा ।
मुरः पुत्रसहस्रैश्च वरमत्तो महासुरः ॥ २.५५.८ ॥
马颈、尼昆陀,可怕的般遮阇那,还有带着千子的穆罗,那位因恩赐而狂妄的大阿修罗。
2.55.9
तद्वधार्थं महाबाहुरेष चक्रगदासिभृत् ।
जातो वृष्णिषु देवक्यां वासुदेवो जनार्दनः ॥ २.५५.९ ॥
为了消灭他们,这位手持轮、杵与剑的大臂者,在毗湿尼族中由提婆基所生,名为婆苏提婆·阇那陀那。
2.55.10
तस्यास्य पुरुषेन्द्रस्यलोकप्रथिततेजसः ।
निवासो द्वारकायां तु विदितो वः प्रधानतः ॥ २.५५.१० ॥
那位以光辉闻名于世界的人中之王的住所,在杜瓦拉卡,这对你们来说是众所周知的。
2.55.11
अतीव हि पुरी रम्या द्वारका वासवक्षयात् ।
अतिवैराजमप्यद्धा प्रत्यक्षस्ते युधिष्ठिर ॥ २.५५.११ ॥
杜瓦拉卡城确实极其美丽,仿佛从因陀罗之界的毁灭中而生;甚至胜过毗罗阇,它确实就在你眼前,哦,坚战。
2.55.12
तस्मिन्देवपुरप्रख्ये सा सभा वृष्ण्युपाश्रया ।
सुधर्मेति च विख्याता योजनायतविस्तृता ॥ २.५५.१२ ॥
在那座如天神之城的城中,有一座毗湿尼族常聚的议事堂,名为善法,长宽各一由旬。
2.55.13
तत्र वृष्ण्यन्दकाः सर्वे रामकृष्णपुरोगमाः ।
लोकयात्रामिमां कृत्स्नां परिरक्षन्त आसते ॥ २.५५.१३ ॥
在那里,以罗摩和黑天为首的所有毗湿尼与安陀迦人居住着,守护着这整个世间的运行。
2.55.14
तत्रासीनेषु सर्वेषु कदाचिद्भरतर्षभ ।
दिव्यगन्धा ववुर्वाताः कुसुमानां च वृष्टयः ॥ २.५५.१४ ॥
当众人都坐在那里时,有一次,婆罗多中的雄牛啊,神圣香气的风吹起,花雨纷纷落下。
2.55.15
ततः सूर्यसहस्राभस्तेजोराशिर्महाद्भुतः ।
मध्ये तु तेजसस्तस्य पाण्डरं गजमास्थितः। ॥ २.५५.१५ ॥
随后出现一团光辉,明亮如千日,极其奇妙;在那光芒之中,有一人骑在白象之上。
2.55.16
वृतो देवगणैः सर्वैर्वासवः प्रत्यदृश्यत ।
रामकृष्णौ च राजा च वृष्ण्यन्धकगणैः सह। ॥ २.५५.१६ ॥
被诸天众环绕的婆薮(因陀罗)显现了;罗摩、黑天与国王也与毗湿尼和安陀迦诸众一同出现。
2.55.17
उत्पत्य सहसा देवे नमस्कारमकुर्वत ।
सोऽवतीर्य गजात्तूर्णं परिष्वज्य जनार्दनम्। ॥ २.५५.१७ ॥
他们突然起身向天神致敬;他迅速从象上下来,拥抱了生主(黑天)。
2.55.18
सस्वजे बलदेवं च राजानं च तमाहुकम् ।
वासुदेवोद्धवौ चैव विकद्रुं च महामतिम्। ॥ २.५५.१८ ॥
他也拥抱了大力(罗摩)与国王阿呼迦;又拥抱了婆苏提婆、乌ddhava与大智的毗迦度。
2.55.19
प्रद्युम्नसाम्बनिशठाननिरुद्धं च सात्यकिम् ।
गदं सारणमक्रूरं भानुझल्लिविडूरथान्। ॥ २.५५.१९ ॥
普拉杨那、三婆、尼沙陀、阿尼卢陀,萨蒂亚基、伽陀、萨罗那、阿克鲁罗、跋奴、贾利和毗度罗陀。
2.55.20
तथैव कृतवर्णाणां चारुदेष्णं महाबलम् ।
देवकल्पान्महाराज तान्दाशार्हपुरोगमान्। ॥ २.५५.२० ॥
同样,还有戒行王、大力的遮录提舍那,以及大王啊,那些如天神般的达沙尔诃领袖。
2.55.21
पिरिष्वज्य च दृष्ट्वा च भगवान्भूतभावनः ।
वृष्ण्यन्धकमहामात्रान्परिष्वज्याथ वासवः। ॥ २.५५.२१ ॥
慈尊众生之主既见且拥抱,又拥抱了毗湿尼与安陀迦的大臣们;此后,伐沙婆。
2.55.22
प्रगृह्य पूजां तैर्दत्तां भगवान्पाकशासनः ।
सोऽदितेर्वचनात्तात कुण्डलार्थे जनार्दनम्। ॥ २.५५.२२ ॥
接受他们所献的敬礼后,慈尊帝释天,遵从阿底提的话,孩儿啊,为了耳环而对janārdana说道。
2.55.23
उवाच परमप्रीतो जहि भौमं नरेश्व ।
निहत्य नरकं भौममाहरिष्यामि कुण्डले। ॥ २.५५.२३ ॥
极其欢喜地说道:「人主啊,杀掉婆摩;我杀掉地之子那罗迦后,将把耳环带回来。」
2.55.24
एवमुक्त्वाऽथ गोविन्दो राममेवाभ्यभाषत ।
प्रद्युम्नमनिरुद्धं च साम्बं चाप्रतिमं बले। ॥ २.५५.२४ ॥
说了这些之后,戈文达便直接对罗摩说话,又对普罗迪尤摩那、阿尼卢陀,以及力量无与伦比的三婆说话。
2.55.25
एतांश्चोच्त्का तथा तत्र वासुदेवो महायशाः ।
अथारुह्य सुपर्णं वै शङ्खचक्रगदासिभृत्। ॥ २.५५.२५ ॥
对他们说完这些话后,大名鼎鼎的婆苏提婆(毗湿奴)便骑上金翅鸟(迦卢荼),手持螺号、轮盘、鬼棒与利剑。
2.55.26
ययौ तदा हृषीकेशो देवानां हितकाम्यया ।
तं प्रयान्तममित्रघ्नं देवाः सहपुरन्दराः। ॥ २.५५.२६ ॥
为了诸神的利益,希利史鸡舍(毗湿奴)随即启程;当这位摧毁敌人者前行之时,诸神与因陀罗一同(跟随他)。
2.55.27
पृष्ठतोऽनुययुः प्रीत्या स्तुवन्तो विष्णुमच्युतम् ।
उग्रान्त्रक्षोगणान्हत्वा नरकस्य महासुरान्। ॥ २.५५.२७ ॥
怀着爱意赞颂不朽的毗湿奴,他们在后随行;他们杀死了那些凶猛的食人罗刹群与那罗迦的大阿修罗,
2.55.28
क्षुरान्तान्मौरवान्पाशान्षट्सहस्रं ददर्श सः ।
स़ञ्छिद्य पाशाच्छस्त्रेण मुरं हत्वा सहान्वयम्। ॥ २.५५.२८ ॥
他看见六千条由穆尔瓦纤维制成、尖端如剃刀般锋利的绳索;他用兵器斩断绳索,连同其部众杀死了穆罗,
2.55.29
शैलसङ्घानतिक्रम्य निशुम्भं च व्यपोथयत् ॥ २.५५.२९ ॥
越过群山,他也碾碎了尼输婆。
2.55.30
यः सहस्रसहस्त्वेकः सर्वान्देवानपोथयत् ।
तं जघान महावीर्यं हयग्रीवं महाबलम् ॥ २.५५.३० ॥
他杀死了马颈(哈亚格利瓦),那位大威力、大力量者,他独自率领成千上万的部众,曾碾碎了所有诸神。
2.55.31
अपारतेजा दुर्धर्षः सर्वयादवनन्दनः ।
मध्ये लोहितगङ्गायां भगवान्देवकीसुतः ॥ २.५५.३१ ॥
光芒无边、不可战胜、为众耶达瓦人所喜悦的世尊德瓦吉之子,在洛希塔恒河之中。
2.55.32
औदकायां विरूपाक्षं जघान मधुसूदनः ।
ततः प्राग्ज्योतिषं नाम दीप्यमानमिव श्रिया।
पुरमासादयामास तत्र युद्धमवर्तत ॥ २.५५.३२ ॥
摩图苏陀那杀死了住在水中的毗卢波叉。随后他抵达名为普拉格耶提沙的城市,它仿佛因吉祥而光辉闪耀,战斗在那里展开。
2.55.33
तद्युद्धमभवद्घोरं तेन भौमेन भारत ।
कुण्डलार्थे सुरेशस्य नरकेण महात्मना ॥ २.५५.३३ ॥
婆罗多啊,那场战斗变得极为可怕,是与大心者婆摩(那罗迦)为了众神之主因陀罗的耳环而进行的。
2.55.34
मुहूर्तं लालयित्वा तु नरकं मधूसूदनः ।
प्रवृत्तचक्रं चक्रेण प्रममाथ बलाद्बली ॥ २.५५.३४ ॥
摩图苏陀那戏弄那罗迦片刻之后,这位强大者让他的轮盘旋转起来,以力量用轮盘将他碾碎。
2.55.35
चक्रप्रमथितं तस्य पपात सहसा भुवि ।
उत्तमाङ्गं हताङ्गस्य वृत्रे वज्रहते यथा ॥ २.५५.३५ ॥
被轮盘碾碎的他的头颅忽然坠落于地,犹如被金刚杵击中的弗栗多倒下。
2.55.36
भूमिस्तु पतितं दृष्ट्वा प्रायच्छत्कुण्डले सुतम् ।
प्रदाय च महाबाहुमिदं वचनमब्रवीत् ॥ २.५५.३६ ॥
大地见儿子倒下,便将耳环交出,交出后向这位大臂者说了这些话。
2.55.37
सृष्टस्त्वयैव मधुहंस्त्वयैव विनिपातितः ।
यथेच्छसि तथा क्रीडा प्रजास्तस्यानुपालय ॥ २.५५.३७ ॥
是你创造了他,也是你将他击倒。随你的意愿去玩耍吧,并护佑他的臣民。
2.55.38
देवानां च मुनीनां च पितॄणां च महात्मनाम् ।
उद्वेजनीयो भूतानां ब्रह्मद्विद् पुरुषाधमः ॥ २.५५.३८ ॥
他令诸天神、仙人、祖先和大德者以及一切众生都感到恐惧;这个人中最卑劣的,憎恶婆罗门。
2.55.39
लोकद्विष्टः सुतस्ते तु देवारिर्लोककण्टकः ।
सर्वलोकनमस्कार्यामदितं बाधयद्वली ॥ २.५५.३९ ॥
你的儿子为世界所憎恨,是诸神的敌人,是世间的荆棘。虽然他本应受到所有世界的礼敬,他却仗着力量,折磨阿迪提。
2.55.40
कुण्डले हृतवान्दर्पात्ततस्ते निहतः सुतः ।
नैव मन्युस्त्वया कार्यो यत्कृतं मयि भामिनि ॥ २.५५.४० ॥
他因骄傲夺走了耳环,因此你的儿子被杀。啊,婆米尼,对于我所做的,你不该对我生气。
2.55.41
त्वत्प्रभावाच्च ते पुत्रो लब्धवान्गतिमुत्तमाम् ।
तस्माद्गच्छ महाभागे भारावतरणं कृतम् ॥ २.५५.४१ ॥
凭你的威力,你的儿子得到了至高的归宿。所以,啊大福德的女士,去吧;大地的重担已经卸下。