マハーバーラタ · 章 2.57
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.57.1
तां पुरी द्वारकीं दृष्ट्वा विभुर्नारायणो हरिः ।
हृष्टः सर्वार्थसम्पन्नः प्रवेष्टुमुपचक्रमे ॥ २.५७.१ ॥
そのドヴァーラカー城を見て、遍在するナーラーヤナ・ハリは喜び、あらゆる富に恵まれて、そこへ入り始めた。
2.57.2
सोऽपश्यद्वृक्षषण्डांश्च रम्यान्नानाजनान्वहून् ।
समन्ततो द्वारवत्यां नानापुष्पफलान्वितान् ॥ २.५७.२ ॥
彼はドヴァーラヴァティーの四方に、美しい木立と多くの人々を見た。それらは様々な花と果実に恵まれていた。
2.57.3
अर्कचन्द्रप्रतीकाशैर्मेरुकूटनिभैर्गृहैः ।
द्वारकामावृतां रम्यां सुकृतां विश्वकर्मणा ॥ २.५७.३ ॥
太陽と月のように輝き、メール山の峰のような家々に囲まれた、ヴィシュヴァカルマンが見事に造った美しいドヴァーラカー。
2.57.4
पद्मषण्डाकुलाभिश्च हंससेवितवारिभिः ।
गङ्गासिन्धुप्रकाशाभिः परिघाभिरलङ्कृताम् ॥ २.५७.४ ॥
ガンガーとシンドゥのように輝く堀に飾られ、蓮の群れに満ち、白鳥が集う水をたたえていた。
2.57.5
प्राकारेणार्कवर्णेन पाण्डरेण विराजिताम् ।
वियन्मूर्ध्नि निविष्टेन द्यामिवाभ्रपरिच्छदाम् ॥ २.५७.५ ॥
空の頂に据えられた太陽色の白い城壁に輝き、雲をまとった天界のように見えた。
2.57.6
नन्दनप्रतिमैश्वापि मिश्रकप्रतिमैर्वनैः ।
तत्र सा विहिता साक्षान्नगरी विश्वकर्मणा ॥ २.५७.६ ॥
ナンダナやミシュラカの園に似た林を持つその都市は、まさにヴィシュヴァカルマンによってそこに造られたのである。
2.57.7
काञ्चनैर्मणिसोपानैरुपेता जनहर्षिणी ।
गीतघोषमहाघोषैः प्रसादप्रवरैः शुभा ॥ २.५७.७ ॥
黄金と宝玉の階段を備え、人々を喜ばせ、歌声の大きな響きと優れた宮殿によって輝く。
2.57.8
तस्मिन्पुरवारश्रेष्ठे दाशार्हाणां यशस्विनाम् ।
नेश्मानि जहृषे दृष्ट्वा भगवान्पाकशासनः ॥ २.५७.८ ॥
その最も優れた都で、名高いダーシャールハの館を見て、尊き帝釈天(パーカ殺しのインドラ)は喜んだ。
2.57.9
समुच्छ्रितपताकानि पारिप्लवनिभानि च ।
काञ्चनाभानि भाखन्ति मेरुकूटनिभानि च ॥ २.५७.९ ॥
高く掲げられた旗を持ち、パーリプラヴァに似て、黄金の輝きを放ち、メール山の峰のように輝いていた。
2.57.10
सुधापाण्डरशृङ्गैश्च शातकुम्भपरिच्छदैः ।
रत्नसानुमहाशृङ्गैः सर्वरत्नसमन्वितैः ॥ २.५७.१० ॥
甘露のように白い峰を持ち、純金の覆いを備え、宝石の尾根と大いなる頂を具え、あらゆる宝玉に満ちている。
2.57.11
सहर्म्यैः सार्धचन्द्रैश्च सनिर्यूहैः सपञ्ज्अरैः ।
सयन्त्रगृहसंबाधैः सधातुभिरिवाद्रिभिः ॥ २.५७.११ ॥
高殿、半月形のアーチ、張り出した露台と格子窓を備え、機械の館が密集し、鉱脈を持つ山々のようである。
2.57.12
मणिकाञ्चनभ्ॐऐश्च सुधामृष्टतलैस्तथा ।
जाम्बूनदमयद्वारैर्वैडूर्यविकृतार्गलैः ॥ २.५७.१२ ॥
宝石と黄金の床、石灰のように磨かれた床面、ジャンブーナダ金の門、ヴァイドゥーリヤ宝石の閂を備える。
2.57.13
सर्वर्तुसुखसंस्यर्शैर्महाधनपरिच्छदैः ।
रम्यसानुगृहैः शृङ्गैर्विचित्रैरिव पर्वतैः ॥ २.५७.१३ ॥
その都市は四季を通じて心地よい感触があり、莫大な富と調度に満ち、美しい山の斜面の邸宅と峰々を持ち、さまざまな山々のようであった。
2.57.14
पञ्चवर्णसवर्णैश्च पुष्पवृष्टिसमप्रभैः ।
तुल्यैः पर्जन्यनिर्घोषैर्ह्रादैर्भोगवती यथा ॥ २.५७.१४ ॥
五色とそれに調和する色を持ち、花の雨のような輝きがあり、雷雲の轟きに等しい響きと木霊に満ちていた。まるでバோーガヴァティーのようであった。
2.57.15
कृष्णध्वजोपवाह्यैश्च दाशार्हायुधरोहितैः ।
वृष्णिवीरमयूरैश्च स्त्रीसहस्रप्रजाकुलैः ॥ २.५७.१५ ॥
黒い旗とそれを運ぶ戦車、ダーシャールハの武器と赤い旗、孔雀のようなヴリシュニの英雄たち、そして幾千もの女性と民衆で溢れていた。
2.57.16
वासुदेवैन्द्रपर्जन्यैर्गृहमेघैरलङ्कृता ।
ददृशे द्वारकाऽतीव मेघैर्द्यैरिव संवृता ॥ २.५७.१६ ॥
ヴァーサデーヴァ、インドラ、パルジャニヤの雲と家々の雲で飾られたドヴァーラカーは、天の雲に包まれたかのようにきわめて美しく見えた。
2.57.17
साक्षाद्भगवतो वेश्म विहितं विश्वकर्मणा ।
ददृशुर्वासुदेवस्य चतुर्योजनमायतम् ॥ २.५७.१७ ॥
ヴィシュヴァカルマンが造った主の住まいそのもの、ヴァーサデーヴァの宮殿は四ヨージャナの広さであった。
2.57.18
तावदेव सुविस्तीर्णं सुसम्पूर्णं महाधनैः ।
प्रासादवरसम्पन्नं युक्तं जगति पर्वतैः ॥ २.५७.१८ ॥
同じく広大で、莫大な富に満ち、優れた宮殿を備え、世界の山々と連なっているかのようであった。
2.57.19
यं चकार महाभागस्त्वष्टा वासवचोदितः ।
प्रासादं हेमनाभस्य सर्वतो योजनायतम् ॥ २.५७.१९ ॥
ヴァーサヴァ(インドラ)に促され、大福徳のトヴァシュトリが造った、ヘーマナーバの宮殿——それは四方へ一ヨージャナにわたって広がっていた。
2.57.20
मेरोरिव गिरेः शृङ्गमुच्छ्रितं काञ्चनालयम् ।
रुक्मिण्याः प्रवरो वासो निर्मितः सुमहात्मना ॥ २.५७.२० ॥
メール山の頂のように高くそびえる黄金の館——ルクミニーの最上の住まい、それは大いなる精神の持ち主が建てたものである。
2.57.21
सत्यभामा पुनर्वेश्म सदा वसति पाण्डरम् ।
विचित्रमणिसोपानं यं विदुः शीतवानिति ॥ २.५७.२१ ॥
サティヤバーマーの住まいもまた常にそこにある——様々な宝石の階段をもつ白い館、人々はそれを「シータヴァーン」と呼ぶ。
2.57.22
विमलादित्यवर्णाभिः पताकाभिरलङ्कृतम् ।
व्यक्तबद्धं यथोद्देशे चतुर्दशमहाध्वजम् ॥ २.५७.२२ ॥
汚れなき太陽の色の旗で飾られ、定められた所に明らかに結ばれた十四の大旗を備えて。
2.57.23
सर्वप्रासादमुख्योऽत्र जाम्बवत्या विभूषितः ।
प्रभाया जृम्भणैश्चित्रैस्त्रैलोक्यमिव भासयन् ॥ २.५७.२३ ॥
すべての宮殿の中で第一のもの、ここにあるのはジャーンバヴァティーの館であり、プラバーの見事な輝きに飾られ、三界を照らしているかのようである。
2.57.24
यस्तु पाण्डरवर्णाभस्तयोरन्तरमाश्रितः ।
विश्वकर्माकरोदेनं कैलासशिखरोपमम् ॥ २.५७.२४ ॥
しかしその二つの間に位置する白い館は、ヴィシュヴァカルマンが造ったものである。それはカイラーサの頂のようである。
2.57.25
जाम्बूनदप्रदीप्ताग्रः प्रदीप्तज्वलनोपमः ।
सागरप्रतिमोऽतिष्ठन्मेरुरित्यभिविश्रुतः ॥ २.५७.२५ ॥
ジャーンブーナダの金に輝く頂をもち、燃え盛る火のようで、海に似て、「メール」として名高く立っていた。
2.57.26
तस्मिन्गान्धारराजस्य दुहिता कुलशालिनी ।
सुकेशी नाम विख्याता केशवेन निवेशिता ॥ २.५७.२६ ॥
そこには、一族の誇りであるガーンダーラ王の娘がいた。「スケーシー」の名で知られ、ケーシャヴァによってそこに住まわされていた。
2.57.27
पद्मकूट इति ख्यातः पद्मवर्णो महाप्रभः ।
सुप्रभाया महाबाहो वासः स परमोच्छ्रितः ॥ २.५७.२७ ॥
「パドマクータ」として知られ、蓮の色、大いなる輝きをもつ。おお大腕の者よ、これはスプラバーの住まいであり、きわめて高い。
2.57.28
यस्तु सूर्यप्रभो नाम प्रासादवर उच्यते ।
लक्षणायाः कुरुश्रेष्ठ स दत्तः शार्ङ्गधन्वना ॥ २.५७.२८ ॥
「スーリヤプラバ」と呼ばれる優れた宮殿は、おおクルの最良者よ、弓の使い手(クリシュナ)がラクシャナーに与えたものである。
2.57.29
वैडूर्यवरवर्णाभः प्रासादो हरितप्रभः ।
श्वेतजाला हि यत्रैव यत्रैव च निवेशिता ॥ २.५७.२९ ॥
ラピスラズリの見事な色合いの宮殿で、緑に輝き、白い格子をもつ。それが建てられたところならどこにでも。
2.57.30
यं विदुः सर्वभूतानि हरिरित्येव भारत ।
सुमित्रविजयावासो देवर्षिगणपूजितः ॥ २.५७.३० ॥
あらゆる生き物が単に「ハリ」と知るもの、おお、バーラタよ。スミトラとヴィジャヤの住まいであり、神々と聖仙の群れに崇拝されるもの。
2.57.31
महिष्या वासुदेवस्य भूषणं सर्ववेश्मनाम् ।
यस्तु प्रासादमुख्योऽत्र विहितः सर्वशिल्पिभिः ॥ २.५७.३१ ॥
ヴァースデーヴァの第一王妃のこの住まいは、すべての館の飾りであった。ここの主要な宮殿は、すべての工匠が造ったものである。
2.57.32
महिष्या वासुदेवस्य केतुमानिति विश्रुतः ।
प्रसादो विरजो नाम विरजस्को महात्मनः ॥ २.५७.३२ ॥
ヴァースデーヴァの第一王妃には「ケトゥマーン」と名高い住まいがあった。それは偉大な御方のヴィラジャの宮殿で、ヴィラジャスカと呼ばれた。
2.57.33
उपस्थानगृहं तात केशवस्य महात्मनः ।
यस्तु प्रासादमुख्योऽत्र यं त्वष्टा व्यदधात्स्वयम् ॥ २.५७.३३ ॥
親しき者よ、これは偉大な御方ケーシャヴァの謁見の間である。ここの主要な宮殿は、トヴァシュトリ自らが造ったものである。
2.57.34
योजनायतविष्कम्भं सर्वरत्नमयं विभोः ।
तेषां तु विहिताः सर्वे रुक्मदण्डाः पताकिनः ॥ २.५७.३४ ॥
それは主の住まいで、長さ幅とも一ヨージャナ、すべて宝玉で造られていた。そのすべてに、旗を掲げた金の柱が立てられていた。
2.57.35
सदने वासुदेवस्य मार्गसञ्जनना ध्वजाः ।
घण्टाजालानि तत्रैव सर्वेषां निवेशने ॥ २.५७.३५ ॥
ヴァースデーヴァの住まいには道しるべの旗があった。そして同じく、すべての人の住まいには鈴の網があった。
2.57.36
आहृत्य यदुसिंहेन वैजयन्तच्छलो महात् ।
हंसकूटस्य यच्छ्रङ्गमिन्द्रद्युम्नसरो महत् ॥ २.५७.३६ ॥
ヤドゥ族の獅子(クリシュナ)がもたらした、大いなるヴァイジャヤンタの似姿;ハンサクータの峰、そして大いなるインドラドュムナの湖。
2.57.37
षष्टितालसमुत्सेधमर्धयोजनविस्तृतम् ।
सकिन्नरमहानादं तदप्यमिततेजसः ॥ २.५७.३७ ॥
高さは六十本の棕櫚の木に等しく、幅は半ヨージャナ、キンナラたちの大きな声が響く――それも無量の威光を持つ者のものであった。
2.57.38
पश्यतां सर्वभूतानां त्रिषु लोकेषु विश्रुतम् ।
आदित्यपथगं यत्तन्मेरोः शिखरमुत्तमम् ॥ २.५७.३८ ॥
三界に名高く、太陽の道に達する、メール山の最上の頂も、あらゆる生き物の目の前にあった。
2.57.39
जाम्बूनदमयं दिव्यं त्रिषु लोकेषु विश्रुतम् ।
तदप्युत्पाट्य कुच्छ्रेण स्वं निवेशनमाहृतम् ॥ २.५७.३९ ॥
ジャーンブーナダ金で造られた神聖な、三界に名高いそれさえも、彼は苦労して引き抜き、自らの住まいへ運んだ。
2.57.40
भ्राजमानं पुरा तत्र सर्वौषधिविदीपितम् ।
यमिन्द्रभवनाच्छौरिराजहार परन्तपः ॥ २.५७.४० ॥
かつてそこで輝き、あらゆる薬草に照らされたもの――敵を焼く者シャウリ(クリシュナ)がインドラの宮殿から奪い去ったものである。
2.57.41
पारिजातः स तत्रैव केशवेन निवेशितः ।
लेपहस्तशतैर्जुष्टो विमानैश्च हिरण्मयैः ॥ २.५७.४१ ॥
そのパーリジャータの木は、ケーシャヴァ自らがまさにそこに植えたものであり、漆喰の手を持つ数百の職人が世話をし、黄金の天上の宮殿に囲まれていた。
2.57.42
विहिता वासुदेवेन तत्रैव च महाद्रुमाः ।
पद्माकुलजलोपेता रक्तसौगन्धिकोत्पलाः ॥ २.५७.४२ ॥
ヴァースデーヴァは、そこに大きな木々も植えさせた。蓮に満ちた水があり、赤いサウガンディカと青い睡蓮が咲いていた。
2.57.43
मणिमौक्तिकवालूकाः पुष्करिण्यः सरांसि च ।
तासां परमकूलि शोभयन्ति महाद्रुमाः ॥ २.५७.४३ ॥
宝玉や真珠のような砂を持つ蓮の池や湖があり、大樹がその高い岸辺を飾っていた。
2.57.44
सालतालाश्वकर्णाश्च शतशाखाश्च रोहिणः ।
भल्लातककपित्थाश्च इन्द्रवृक्षाश्च चम्पकाः ॥ २.५७.४४ ॥
沙羅、多羅、馬耳、百枝の羅希那、ベーラ、木苹果、インドラ樹、チャンパカの木があった。
2.57.45
खादिरा मृतकाश्चैव समन्तात्परिरोपिताः ।
ये च हैमवता वृक्षा ये च नन्दनजास्तथा ॥ २.५७.४५ ॥
四方にはカディラとムリタカの木が植えられ、ヒマラヤの木々とナンダナに生まれた木々も同様であった。
2.57.46
आहृत्य यदुसिंहेन तेऽपि तत्र निवेशिताः ।
रत्नपीतारुणप्रख्याः सितपुष्पाश्च पादपाः ॥ २.५७.४६ ॥
ヤドゥの獅子によって運ばれ、そこに植えられたものもあった。宝石のように黄と赤に輝き、白い花を咲かせる木々であった。
2.57.47
सर्वर्तुफलपूर्णोस्ते ते च काननसिन्धुषु ।
सहस्रपत्रपद्माश्च मन्दराश्च सहस्रशः ॥ २.५७.४७ ॥
それらはすべての季節に果実で満ちていた。森と川には千弁の蓮があり、無数のマンダラ山もあった。
2.57.48
अशोकाः कर्णिकाराश्च तिलका नाग मल्लिकाः ।
कुरका नागपुष्पाश्च चम्पकास्तृणपुल्लिकाः ॥ २.५७.४८ ॥
無憂樹、カルニカーラ、ティラカ、ナーガとマッリカー、クラカ、ナーガ花、チャンパカ、草花のトリナプッリカーがあった。
2.57.49
सप्तवर्णाः कबन्धाश्च नीपाः कुरवकास्तथा ।
केतकाः केसराश्चैव हिनतालतलताटकाः ॥ २.५७.४९ ॥
サプタヴァルナ、カバンダ、ニーパ、クラヴァカの木々、またケータカ、ケーサラ、ヒンターラ、ターラ、ターターカの木々。
2.57.50
तालाः प्रलम्बा वकुलाः पिण्डिका बीजपूरकाः ।
द्रुतामलकखर्जूरा महिता जम्बुकास्तथा ॥ २.५७.५० ॥
ターラ、プララムバ、ヴァクラ、ピンディカ、ビージャプーラカ、ドルターマラカとナツメヤシ、マヒタとジャンブの木々も同様に。
2.57.51
आम्राः पनसवृक्षाश्च चम्पकास्तिलतिन्दुकाः ।
लिकुचामृताश्चैव क्षीरिका कर्णिका तथा ॥ २.५७.५१ ॥
マンゴーとパラミツ、チャンパカ、ゴマとティンドゥカ、リクチャとアムリタ、そしてクシーリカーとカルニカーの木々も。
2.57.52
नालिकेरेङ्गुदाश्चैव उत्क्रोशकवनानि च ।
कदली जातमल्ली च पाटली कुमुदोत्पलाः ॥ २.५७.५२ ॥
ココヤシとインthe グディ、ウトクロシャカの林、バナナ、ジャーティ・マッリー、パータリー、白と青の蓮。
2.57.53
नीलोत्पलकपूर्णाश्च वाप्यः कूपाः सहस्रशः ।
फुल्लाशाककपित्थाश्च तैस्तीर्त्वा बन्धुजीवकाः ॥ २.५७.५३ ॥
青蓮とカプールナに満ちた階段井戸、そして数千の井戸;花咲くシャーカとカピッタの木;それらを渡ると、バンドゥジーヴァカの木々。
2.57.54
प्रियालाशोकवादिर्याः प्राचीनाश्चापि सर्वशः ।
प्रियङ्गुबदरीभिश्च यवैः स्यन्दनचन्दनैः ॥ २.५७.५४ ॥
プリヤーラ、アショーカ、ヴァーディリヤの木々;至る所の古木;プリヤンガとバダリー、大麦、スヤンダナとサンダルの木々とともに。
2.57.55
शचीपीलुपलाश्चैश्च पलाशवधपिप्लैः ।
उदुम्बरैश्च बिल्वैश्च पालाशैः पारिभद्रकैः ॥ २.५७.५५ ॥
シャチー、ピールー、パラーシャ、アシュヴァ、パラーシャ・ヴァダ、ピッパラの樹々、ウドゥンバラとビルヴァの樹々、パーラーシャとパーリバドラカの樹々で。
2.57.56
इन्द्रवृक्षार्जुनैश्चैव अश्वत्थैश्चिरबिल्वकैः ।
भौमगञ्जनवृक्षैश्च भल्लाभैरश्वसाह्वयैः ॥ २.५७.५६ ॥
インドラ樹とアルジュナ樹で、アシュヴァッタ樹と長ビルヴァカ樹で、バウマ樹とガンジャナ樹で、バッラータ樹とアシュヴァサーヴヤ樹で。
2.57.57
सज्जैस्ताम्बूलवल्लीभिर्लवङ्गैः क्रमुकैस्तथा ।
वंशैश्च विविधैस्तत्र समन्तात्परिरोपितैः ॥ २.५७.५७ ॥
サッジャの樹々、ビンロウの蔓、丁子の樹々とビンロウジュで、そしてそこの四方に植えられた様々な竹で。
2.57.58
ये च नन्दनजा वृक्षा ये च चैत्ररथे वने ।
सर्वे ते यदुनाथेन समन्तात्परिरोपिताः ॥ २.५७.५८ ॥
ナンダナに生まれた樹々と、チャイトララタの森の樹々——それらはすべて、ヤドゥの主によって四方に植えられた。
2.57.59
समाहिता महानद्यः पीतलोहितवालुकाः ।
तस्मिन्गृहवरे रम्ये मणिशक्रसवालुकाः ॥ २.५७.५९ ॥
その美しく優れた館には、大河が整然と流れ、その砂は黄色と赤色で、宝石のような砂とインドラのような砂があった。
2.57.60
मत्तबर्हिणनादाश्च कोकिलाश्च मदावहाः ।
बभूवुः परमोपेताः सर्वे जगति पर्वताः ॥ २.५७.६० ॥
酔った孔雀の鳴き声と喜びをもたらす郭公の声によって、世界のすべての山々は極めて見事なものとなった。
2.57.61
तत्रैव गजयूथानि तत्र गोमहिषास्तथा ।
निवासाश्च कृतास्तत्र वराहा मृगपक्षिणाम् ॥ २.५७.६१ ॥
そこには象の群れがあり、牛や水牛もいた。そして鹿や鳥、猪のための住処が設けられていた。
2.57.62
विश्वकर्मकृतः शैलः प्राकारस्तत्र वेश्मनि ।
व्यक्तकिष्कुशतोद्यामः सुधारससमप्रभः ॥ २.५७.६२ ॥
そこには、館の周囲にヴィシュヴァカルマンが造った山のような城壁があった。百キシュクの高さで明瞭に見え、甘露の流れのように輝いていた。
2.57.63
तेन ते च महाशैलाः सरितश्च सरांसि च ।
परिक्षिप्तानि वै तस्य वनान्युपवनानि च ॥ २.५७.६३ ॥
その城壁によって、あの大山、河川、湖沼、そしてその森林や園林が、実に囲まれていた。