Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 2.58

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

2.58.1

एवमालोकयाञ्चक्रुर्द्वारकामृषभास्त्रयः ।
उपेन्द्रबलदेवौ च वासवश्च महायशाः ॥ २.५८.१ ॥

このように、ドヴァーラカーの人中の三頭の牡牛たちは見つめた。ウペーンドラ、バラデーヴァ、そして大いに名高いヴァーサヴァである。

2.58.2

ततस्तं पाण्डरं शौरिर्मूर्ध्नि तिष्ठन्गरुत्मतः ।
प्रीतः शङ्खमुपाध्मासीद्द्विषतां रोमहर्षणम् ॥ २.५८.२ ॥

そのとき、ガルダの頭上に立つシャウリは喜び、その白い法螺貝を吹いた。それは敵の身の毛をよだたせるものであった。

2.58.3

तस्य शङ्खस्य शब्देन सारश्चुक्षुभे भृशम् ।
ररास च नभः सर्वं तच्चित्रमभवत्तदा ॥ २.५८.३ ॥

その法螺貝の音に軍勢は大いに動揺し、空全体が響き渡った。そのときすべては驚異となった。

2.58.4

पाञ्चजन्यस्य निर्घोषं निशम्य कुकुरान्दकाः ।
प्रीयमाणाः समाजग्मुरालोक्य मधुसूदनम् ॥ २.५८.४ ॥

パーンチャジャニヤの法螺貝の轟きを聞き、喜んだククラとアンダカは、マドゥスーダナを見ようと集まった。

2.58.5

वसुदेवं पुरस्कृत्य वेणुशङ्खरवैः सह ।
उग्रसेनो ययौ राजा वासुदेवनिवेशनम् ॥ २.५८.५ ॥

ヴァスデーヴァを先頭に立て、笛と法螺貝の音と共に、王ウグラセーナはヴァースデーヴァの住まいへ向かった。

2.58.6

आनन्दितुं पर्यचन्स्वेषु वेश्मसु देवकी ।
रोहिणी च ययौ देशमाहुकस्य च याः स्त्रियः ॥ २.५८.६ ॥

デーヴァキーは喜びのために自分の住まいを歩き回り、ローヒニーとアーフカの地へ向かった女たちも行った。

2.58.7

हता ब्रह्मद्विषः सर्वे जयन्त्यन्धकवृष्णयटः ।
एवमुक्तः सह स्त्रीभिरक्षतैर्मधुसूदनः ॥ २.५८.७ ॥

バラモンの敵は皆殺された。アンダカとヴリシュニが勝利した。そう告げられて、女たちとともに無傷のマドゥスーダナは。

2.58.8

ततः शौरिः सुपर्णेन स्वं निवेशनमभ्ययात् ।
चकाराथ यथोद्देशमीश्वरो मणिपर्वतम् ॥ २.५८.८ ॥

その後、シャウリはガルダによって自らの住まいへ赴いた。主は意図どおりに宝石の山を形づくった。

2.58.9

ततो धनानि रत्नानि सभायां मधुसूदनः ।
निधाय पुण्डरीकाक्षः पितुर्दर्शनलालसः ॥ २.५८.९ ॥

その後、蓮華眼のマドゥスーダナは財宝と宝石を集会堂に置き、父に会いたい思いに駆られた。

2.58.10

ततः सान्दीपिनिं पूर्वं ब्राह्मणं चापि भारत ।
यथान्यायं वासुदेव उपस्पृष्ट्वा महायशाः ॥ २.५८.१० ॥

その後、バーラタよ、偉大な名声のヴァースデーヴァは規定どおり口を清めてから、バラモンのサーンディーパニにも。

2.58.11

ववन्दे पृथुताम्राक्षः प्रीयमाणो महायशाः ।
तथाऽश्रुपरिपूर्णाक्षमानन्दभृतचेतसम् ॥ २.५८.११ ॥

広く赤い目の、喜びに満ちた偉大な名声の者は礼拝した。同様に、目に涙を満たし、心を喜びで満たされた者にも。

2.58.12

ववन्दे सह रामेण पितरं वासवानुजः ।
ताभ्यां च मूर्ध्न्युपाघ्रातः केशवः परवीरहा ॥ २.५८.१२ ॥

ヴァーサヴァの弟はラーマとともに父に礼拝した。二人はともに、敵の勇士を倒す者ケーシャヴァの頭に口づけした。

2.58.13

यथाश्रेष्ठमुपागम्य सात्वतान्यदुनन्दनः ।
सर्वेषां नाम जग्राह दाशार्हाणामधोक्षजः ॥ २.५८.१३ ॥

ヤドゥの喜びアドホークシャジャは、序列に従ってサートヴァタの人々のもとへ行き、ダーシャールハの者すべてを名で呼んだ。

2.58.14

ततः सर्वाणि वित्तानि सर्वरत्नमयानि च ।
व्यभजत्तानि तेभ्योऽथ सर्वेभ्यो यदुनन्दनः ॥ २.५८.१४ ॥

そしてヤドゥの喜びは、あらゆる宝石に満ちたすべての財宝を、彼ら全員に分配した。

2.58.15

सा केशवमहामात्रैर्महेन्द्रप्रतिमैः सभा ।
शुशुभे वृष्णिशार्दूलैः सिंहैरिव गिरेर्गुहा ॥ २.५८.१५ ॥

その集会は、インドラに等しい大象ケーシャヴァとヴリシュニの虎たちによって、山の洞窟が獅子によって輝くように輝いた。

2.58.16

अथासनगतान्सर्वानुवाच विबुधाधिपः ।
शुभया हर्षयन्वाचा महेन्द्रस्तान्महायशाः।
कुकुरान्धकमुख्यांश्च तं च राजानमाहुकम् ॥ २.५८.१६ ॥

すると、座についた全員を吉祥の言葉で喜ばせながら、神々の主、大いに名高いマヘーンドラは、ククラ族、アンダカ族の長たち、そして王アーフカに語りかけた。

2.58.17

यदर्थं जन्म कृष्णस्य मानुषेषु महात्मनः ।
यत्कृतं वासुदेवेन तद्वक्ष्यामि समासतः ॥ २.५८.१७ ॥

偉大な魂のクリシュナが人間の間に生まれた目的と、ヴァスデーヴァが行ったことを、私は簡潔に語ろう。

2.58.18

अयं शतसहस्राणि दानवानामरिन्दमः ।
निहय् पुण्डरीकाक्षः पातालविवरं ययौ ॥ २.५८.१८ ॥

この敵を征服する蓮華眼の者は、幾十万ものダーナヴァを殺して、パーターラの洞窟に入った。

2.58.19

यच्च नाधिगतं पूर्वैः प्रह्लादबलिशम्बरैः ।
तदिदं शौरिणा वित्तं प्रापितं भवतामिह ॥ २.५८.१९ ॥

先祖のプラフラーダ、バリ、シャンバラでさえ得られなかった富を、シャウリ(クリシュナ)がここであなたがたにもたらしました。

2.58.20

सपाशं मुरमाक्रमय् पाञ्चजन्यं च धीमता ।
शिलासङ्घानतिक्रम्य निशुम्भः सगणो हतः ॥ २.५८.२० ॥

縄でムラを制圧し、その賢者はパーンチャジャンヤの法螺貝を(得た)。岩の山々を越え、ニシュンバはその従者とともに殺された。

2.58.21

हयग्रीवश्च विक्रान्तो दानवो निहतो बली ।
मथितश्च मृधे भौमः कुण्डले चाहृते पुनः ॥ २.५८.२१ ॥

勇猛で強力なダーナヴァ、ハヤグリーヴァは殺され、戦いでバウマは打ち砕かれ、耳環は再び奪い去られた。

2.58.22

पुनर्बाणवधे शौरिमादित्या वसुभिः सह ।
मन्मुखा आगमिष्यन्ति साध्याश्च मधुसूदनम् ॥ २.५८.२२ ॥

バーナが殺されるとき再び、アーディティヤ神群はヴァス神群とともに私の前に来るであろう。またサーディヤ神群もマドゥスーダナのもとに来るであろう。

2.58.23

एवमुक्त्वा ततः सर्वानामन्त्र्य कुकुरान्धकान् ।
सस्वजे रामकृष्णौ च वसुदेवं च वासवः ॥ २.५८.२३ ॥

こう言って、ヴァーサヴァ(インドラ)はククラとアンダカの全員に呼びかけ、ラーマとクリシュナ、そしてヴァスデーヴァを抱擁した。

2.58.24

प्रद्युम्नसाम्बप्रमुखाननिरूद्धं च सारणम् ।
बभ्रुं झल्लिं गदं भानुं चारुदेष्णं च वृत्रहा ॥ २.५८.२४ ॥

プラデュムナとサーンバを筆頭に、アニルッダとサーラナ、バブル、ジャッリ、ガダ、バーヌ、チャールデーシュナに、ヴリトラを殺す者(インドラ)が呼びかけた。

2.58.25

सत्कृत्य सारणाक्रूरौ पुनराभाष्य सात्यकिम् ।
सस्वजे वृष्णिराजानमाहुकं कुकुराधिपम्।
भोजं च कृतवर्णाणमन्यांश्चान्दकवृष्णिषु ॥ २.५८.२५ ॥

サーラナとアクルーラを敬い、再びサーティヤキに語りかけてから、ヴリシュニ族の王にしてククラ族の主であるアーフカ、ボージャ、クリタヴァルマンそしてアンダカとヴリシュニの他の者たちを抱擁した。

2.58.26

आमन्त्र्य देवप्रवरैर्वासवो वासवानुजम् ।
ततः श्वेताचलप्रख्यं गजमैरावतं प्रभुः ॥ २.५८.२६ ॥

神々の中の最上の者たちとヴァーサヴァの弟に別れを告げ、白い山のようなアイラーヴァタという象に、主は乗った。

2.58.27

पश्यतां सर्वभातानामारुरोह शचीपतिः ।
पृथिवीं चान्तरिक्षं च दिवं च वरवारणम् ॥ २.५८.२७ ॥

あらゆる生き物が見守る中、シャチーの夫は、大地と虚空と天界を満たすその優れた象に乗った。

2.58.28

मुखाडम्बरनिर्घोषैः पूरयन्तमिवासकृत् ।
हैमयन्त्रमहाकक्ष्यं हिरण्मयविषाणिनम् ॥ २.५८.२८ ॥

口からの轟音で幾度も世界を満たすかのような、金の大きな腹帯と金の牙を持つその象。

2.58.29

मनोहरकुथास्तीर्णं सर्वरत्नविभूषितम् ।
नित्यस्रुतमदस्रावं क्षरन्तमिव तोयदम् ॥ २.५८.२९ ॥

美しい覆いを敷かれ、あらゆる宝石で飾られ、絶えず発情の液を流し、雨を滴らす雲のようなその象。

2.58.30

दिशागजं महामात्रं काञ्चनस्रजमास्थितः ।
प्रबभौ मन्दराग्रस्थः प्रतपन्भानुमानिव ॥ २.५८.३० ॥

方位の象のような偉大な象に座り、金の花環を身につけた彼は、マンダラ山の頂に立つかのように、太陽のように輝いた。

2.58.31

ततो वज्मयं भीमं प्रगृह्य परामाङ्कुशम् ।
ययौ बलवता सार्धं पावकेन शचीपतिः ॥ २.५८.३१ ॥

そこでシャチーの主インドラは、雷霆から成る恐ろしい最上の象鉤を取り、強力なパーヴァカとともに進んだ。

2.58.32

तं करेणुगजव्रातैर्विमानैश्च मरुद्गणाः ।
पृष्ठतोऽनुययुः प्रीताः कुबेरवरुणग्रहाः ॥ २.५८.३२ ॥

喜んだマルトの群れは、雌象と雄象の群れ、天上の車と共に、彼の後ろに従った。クベーラとヴァルナも惑星として従った。

2.58.33

स वायुपक्षमास्थाय वैश्वानरपथं गतः ।
प्राप्य सूर्यपथं देवस्तत्रैवान्तरधीयत ॥ २.५८.३३ ॥

その神はヴァーユの翼に乗り、ヴァイシュヴァーナラの道を行き、太陽の道に至ると、そこで姿を消した。