Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.59

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.59.1

ततः सर्वदशार्हाणामाहुकस्य च याः स्त्रियः ।
नन्दगोपस्य महिषी यशोदा लोकविश्रुता ॥ २.५९.१ ॥

随后,众达莎尔哈与阿呼伽的妇女,以及牧牛人难陀的正妃、闻名于世的耶舍达,

2.59.2

रेवती च महाभागा रुक्मिणी च पत्रिव्रता ।
सत्या जाम्बवती चोभे गान्धारी शिंशुमापि च ॥ २.५९.२ ॥

大福的瑞瓦蒂,忠于丈夫的鲁克弥尼,萨蒂雅与贾姆巴瓦蒂二人,还有甘陀利与新舒摩,

2.59.3

विशोका लक्षणा चापि सुमित्रा केतुमा तथा ।
वासुदेवमहिष्योऽन्याः श्रिया सार्धं ययुस्तदा ॥ २.५९.३ ॥

维舍迦、罗克沙纳、苏弥特拉与凯图玛,以及婆苏提婆的其他正妃,当时都随同吉祥天女前往。

2.59.4

विभूतिं द्रष्टुमनसः केशवस्य महात्मनः ।
प्रीयमाणाः सभां जग्मुरालोकयितुमच्युतम् ॥ २.५९.४ ॥

她们渴望目睹大我克沙瓦的威严光辉,心中欢喜,前往议事厅瞻仰那不朽者。

2.59.5

देवकी सर्वदेवीनां रोहिणी च पुरस्कृता ।
ददृशुर्देवमासीनं कृष्णं हलभृता सह ॥ २.५९.५ ॥

提婆吉与被尊为众女神之首的罗希尼,看见神主克利希那与持犁者同坐。

2.59.6

तौ तु पूर्वमतिक्रम्य रोहिणीमभिवाद्य च ।
अभ्यवादयतां देवौ देवकीं रामकेशवौ ॥ २.५९.६ ॥

那二神,罗摩与克沙瓦,先越过罗希尼并向她致敬,然后向提婆吉致敬。

2.59.7

सा ताभ्यामृषभाक्षाभ्यां पुत्राभ्यां शुशुभेऽधिकम् ।
देवकी देवमातेव मित्रेण वरुणेन च ॥ २.५९.७ ॥

与那两个牛眼般的儿子在一起,她比以往更加光彩照人,犹如诸神之母提婆基与弥陀罗、伐楼那同在。

2.59.8

ततः प्राप्ता यशोदाया दुहिता वै क्षणेन हि ।
जाज्वल्यमाना वपुषा प्रभयाऽतीव भारत ॥ २.५९.८ ॥

于是耶首达之女刹那间来到那里,婆罗多啊,身体光辉灼灼,光芒极其耀眼。

2.59.9

एकानङ्गेति यामाहुः कन्यां वै कामरूपिणीम् ।
यत्कृते सगणं कंसं जघान पुरुषोत्तमः ॥ २.५९.९ ॥

人们称之为一伽南伽的少女,能随意变化形貌;正是为了她,至上人与其眷属一同诛杀了迦摩沙。

2.59.10

ततः स भगवान्रामस्तामुपाक्रम्य भामिनाम् ।
मूर्ध्न्युपाघ्राय सव्येन परिजग्राह पाणिना ॥ २.५९.१० ॥

于是世尊罗摩走近那位美丽的女子,嗅了嗅她的头顶,用左手握住了她。

2.59.11

तां च तत्रोपसम्प्राप्य प्रियामिव सखीमिमाम् ।
दक्षिणेन कराग्रेण पिरजग्राह माधवः ॥ २.५९.११ ॥

摩陀婆走近她,如同对待心爱的朋友一般,用右手指尖握住了她。

2.59.12

ददृशुस्तां सभामध्ये भगिनीं रामकृष्णयोः ।
रुक्मपद्मशां पद्मश्रीमिवोत्तमनाभयोः ॥ २.५९.१२ ॥

在集会中央,他们看见了罗摩与黑天的那位妹妹,她肤色如金色莲花,犹如在两位美脐者之间的莲花吉祥天女。

2.59.13

अथाक्षतमहावष्ट्या लाजपुष्पघृतैरपि ।
वृष्णयोऽवाकिरन्प्रीताः सङ्कर्षणजनार्दनौ ॥ २.५९.१३ ॥

于是欢喜的毗湿尼族人向僧伽尔沙那与遮那陀那洒下完整的谷粒、爆米、花朵和酥油。

2.59.14

सबालाः सहवृद्धाश्च ये ज्ञातिकुलबान्धवाः ।
उपोपविविशुः प्रीता वृष्णयो मधुसूदनम् ॥ २.५९.१४ ॥

包括孩童与长者在内的毗湿尼族亲属、族人与宗亲,欢喜地在摩图苏陀那身旁落座。

2.59.15

पूज्यमानो महाबाहुः पौराणां रतिवर्धनः ।
विवेश पुरुषव्याघ्रः स्ववेश्म मधुसूदनः ॥ २.५९.१५ ॥

摩图苏陀那是大臂者、人中虎,受城中居民敬重,增添他们的欢乐,走进了自己的宫殿。

2.59.16

रुक्मिण्या सहितो देव्या प्रमुमोद सुखी सुखम् ।
अनन्तरं च सत्याया जाम्बवत्याश्च भारत ॥ २.५९.१६ ॥

他与王后鲁格米尼同在,快乐地大为欢喜;之后,婆罗多啊,也与萨提亚和阇母跋提同在。

2.59.17

सर्वासां च यदुश्रेष्ठो गेहे गेहे विहारवान् ।
जगाम च हृषीकेशो रुक्मिण्याः सदनं पुनः ॥ २.५९.१७ ॥

这位尊贵的耶度族首领希利瑟伽冶在每位王后的宫中游乐,之后又回到了鲁格米尼的住所。

2.59.18

एष तात महाबाहो विजयः शार्ङ्गधन्वनः ।
एतदर्थं च जन्माहुर्मानुषेषु महात्मनः ॥ २.५९.१८ ॥

亲爱的,大臂者啊,这是持沙尔伽弓者的胜利;据说正是为此,这位大德者才降生于人间。