Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.60

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.60.1

द्वारकायां ततः कृष्णः स्वदारेषु दिवानिशम् ।
सुखं लब्ध्वा महाराज प्रमुमोद महायशाः ॥ २.६०.१ ॥

大王,那时在德瓦拉卡,名声显赫的黑天在自己的妻子们之中日夜得享快乐,心中欢喜。

2.60.2

पौत्रस्य कारणाच्चक्रे विबुधानां प्रियं तदा ।
सावसवैः सुरैः सर्वैर्दुष्करं भरतर्षभ ॥ २.६०.२ ॥

婆罗多的雄杰啊,那时他为了孙子,做了令诸神欢喜之事,即使阿萨瓦和一切天神也难以做到。

2.60.3

बाणो नामाऽभवद्राजा बलेर्ज्येष्ठसुतो बली ।
वीर्यवान्भरतश्रेष्ठ स च बाहुसहस्रवान् ॥ २.६०.३ ॥

曾有一位名叫波那的国王,是钵利的长子,强大而勇猛;婆罗多的雄杰啊,他有一千只手臂。

2.60.4

ततस्तेपे तपस्तीव्रं सत्वेन मनसा नृप ।
रुद्रमाराधयामास स च बाणः समा बहु ॥ २.६०.४ ॥

大王啊,于是波那以坚定的心志和意念修持苦行,多年来崇拜楼陀罗。

2.60.5

तस्मै बहुवरा दत्ताः शङ्करेण महात्मना ।
तांश्च लब्ध्वा वरान्बाणो दुर्लभानसुरैर्भुवि ॥ २.६०.५ ॥

大魂的湿婆赐予他许多恩惠;波那获得了这些在大地上连阿修罗也难以得到的恩惠。

2.60.6

स शोणितपुरे राज्यं चकाराप्रतिमो बली ।
त्रासिताश्च सुराः सर्वे तेन बाणेन पाण्डव ॥ २.६०.६ ॥

他以无比的力量在首那城治理王国;帕尔塔啊,所有天神都被那个波那所震慑。

2.60.7

विजित्य विबुधान्सेन्द्रान्बाणः संवत्सरान्बहून् ।
अशासत महद्राज्यं कुबेर इव भारत ॥ २.६०.७ ॥

巴那战胜了包括因陀罗在内的诸神,如俱毗罗一般统治广大的王国多年,婆罗多啊。

2.60.8

ततो राजन्नुषा नाम बाणस्य दुहिता यथा ।
येनोपायेन कौन्तेय अनिरुद्धो महाद्युतिः ॥ २.६०.८ ॥

国王啊,巴那有一个女儿名叫乌莎;桀位的孔提之子啊,光辉的阿尼鲁陀是用何种方法(得到她)。

2.60.9

प्राद्युम्निस्तामुषां प्राप्य प्रच्छन्नः प्रमुमोद ह ।
अथ बाणो महातेजास्तदा तत्र युधिष्ठिर ॥ २.६०.९ ॥

普罗陀摩那之子(阿尼鲁陀)得到她后,暗中欢喜。随后,尤蒂希提拉啊,大力的巴那当时在那里(得知了此事)。

2.60.10

तं गृह्यनिलयं ज्ञात्वा प्राद्युम्निं सुतया तदा ।
गृहीत्वा कारयामास वस्तुं कारागृहे बलात् ॥ २.६०.१० ॥

得知他住在(乌莎的)家中,巴那便通过女儿擒住了普罗陀摩那之子,并强迫他留在监狱中。

2.60.11

स कुमारः सुखार्होऽथ तदा दुःखसमन्वितः ।
बामेन घातितो राजन्ननिरुद्धो मुमोह च ॥ २.६०.११ ॥

那位值得幸福的少年,此时充满了悲伤。国王啊,阿尼鲁陀被左手击中,昏厥过去。

2.60.12

एतस्मिन्नेव काले तु नारदो मुनिपुङ्गवः ।
द्वारकां प्राप्य कौन्तेय कृष्णं दृष्ट्वा वचोऽब्रवीत् ॥ २.६०.१२ ॥

正在那时,最优秀的仙人那罗陀抵达杜瓦拉卡;孔提之子啊,他见到奎师那后说了这些话。

2.60.13

कृष्ण कृष्ण महाबाहो यदूनां कीर्तिवर्धन ।
पौत्रस्ते बाध्यमानोऽत्र बाणेनामिततेजसा ॥ २.६०.१३ ॥

克里希那,克里希那,大臂者,增益耶度族荣光的人!你的孙子在此被拥有无量光辉的婆那所折磨。

2.60.14

कृच्छ्रं प्राप्तोऽनिरुद्धो वै शेते कारागृहे सदा ।
एतदुक्त्वा सुरर्षिर्वै बाणस्याथ पुरं ययौ ॥ २.६०.१४ ॥

阿尼鲁陀陷入苦难,常年卧于牢狱之中。天仙说完此话,便前往婆那的城市。

2.60.15

नारदस्य वचः श्रुत्वा ततो राजञ्जनार्दनः ।
जाहूय बलदेवं हि प्रद्युम्नं च महाद्युतिम् ॥ २.६०.१५ ॥

大王,克里希那听了那罗陀的话,便召来了大力罗摩和光辉极盛的普拉杜姆那。

2.60.16

आरुरोह गरुत्मन्तं ताभ्यां सह जनार्दनः ।
ततः सुपर्णमारुह्य जयाय भरतर्षभ ॥ २.६०.१६ ॥

克里希那与那二人一同骑上迦卢荼。然后,婆罗多族之雄牛啊,为了胜利,骑上这只有翼者,

2.60.17

जग्मुः क्रुधा महावीर्या बाणस्य नगरं प्रति ।
अथासाद्य महाराज तत्पुरं ददृशुश्च ते ॥ २.६०.१७ ॥

那些大勇者怀着愤怒向婆那的城市前进。大王啊,他们到达那座城市,便看见了它。

2.60.18

ताम्रप्राकारसङ्गुप्तां हेमप्रासादसङ्कुलाम् ।
दृष्ट्वा मुदा युताः सर्वे विस्मयं परमं ययुः ॥ २.६०.१८ ॥

他们看见那座城市,由铜墙良好守卫,遍布金色宫殿,人人都充满喜悦,并且极为惊叹。

2.60.19

तथा बाणपुरस्यासन्द्वारस्था देवताः सदा ।
महेश्वरो गुहश्चैव भद्रकाली विनायकः ॥ २.६०.१९ ॥

同样,在婆那补罗的门口常驻诸神:大自在天、室建、跋陀罗迦利与毗那夜迦。

2.60.20

अथ कृष्णो बलाज्जित्वा द्वारपालान्युधिष्ठिर ।
सुसङ्क्रुद्धो महातेजाः शङ्खचक्रगदासिभृत् ॥ २.६०.२० ॥

于是,坚战啊,黑天以力量战胜了守门者;他极为愤怒,光辉赫赫,手持法螺、轮、杵与剑。

2.60.21

आससादोत्तरद्वारं शङ्करेणाभिरक्षितम् ।
तत्र तस्थौ महातेजाः शूलपाणिर्महेश्वरः ॥ २.६०.२१ ॥

他来到北门,那里由湿婆守护;大自在天光辉赫赫,手持三叉戟,立于彼处。

2.60.22

पिनाकं सशरं गृह्य बाणस्य हितकाम्यया ।
ज्ञात्वा तमागतं कृष्णं व्यादितास्यमिवान्तकम् ॥ २.६०.२२ ॥

为了婆那的利益,他手持弓箭(毗那迦),得知黑天到来,宛如张口的死神。

2.60.23

ततस्तौ चक्रतुर्युद्धं वासुदेवमहेश्वरौ ।
तद्युद्धमभवद्घोरमचिन्त्यं रोमहर्षणम् ॥ २.६०.२३ ॥

于是婆薮提婆与大自在天展开了战斗;那场战斗变得可怕、不可思议,令人毛骨悚然。

2.60.24

अन्योन्यं तौ ततक्षाते अन्योन्यजयकाङ्क्षिणौ ।
दिव्यान्यस्त्राणि तौ देवौ क्रुद्धौ मुमुचतुस्तदा ॥ २.६०.२४ ॥

二人各欲战胜对方,彼此相互攻击;于是两位愤怒的神灵放出了神圣的武器。

2.60.25

ततः कृष्णो रणं कृत्वा मुहूर्तं शूलपाणिना ।
विजित्य तं महादेवं ततो युद्धे शूलपाणिना।
अन्यांश्च जित्वा द्वारस्थान्प्रविवेश पुरोत्तमम् ॥ २.६०.२५ ॥

于是克里希那与湿婆(持三叉戟者)short时间交战。战胜大神之后,又与持三叉戟者交战,并击败了守门的其他人,他进入了那座殊胜的城市。

2.60.26

प्रविश्य बाणमासाद्य स तत्राथ जनार्दनः ।
चक्रे युद्धं महाक्रुद्धस्तेन बाणेन भरतर्षभ। ॥ २.६०.२६ ॥

进入并到达钵那处,克里希那(Janārdana)大怒,在那里与钵那交战,婆罗多中的雄牛啊。

2.60.27

बाणोऽपि सर्वशस्त्राणि शितानि भरतर्षभ ।
सुसङ्क्रुद्धस्तदा युद्धे पातयामास केशवे ॥ २.६०.२७ ॥

钵那也在婆罗多中的雄牛啊,极度愤怒,当时在战斗中将所有锋利的武器射向了克沙瓦。

2.60.28

पुनरुद्यम्य शस्त्राणि सहस्रं सर्वबाहुभिः ।
मुमोच बाणः सङ्क्रुद्धः कृष्णं प्रति रणाजिरे ॥ २.६०.२८ ॥

钵那再次以所有手臂举起千件武器,愤怒地在战场上向克里希那投掷而去。

2.60.29

ततः कृष्णस्तदा कृत्त्वा तानि सर्वाणि भारत ।
कृत्त्वा मुहूर्तं बाणेन युद्धं राजन्नगोक्षजः ॥ २.६०.२९ ॥

于是克里希那斩断了所有那些,婆罗多的后裔啊,与钵那交战片刻,国王啊,阿贡沙阇(克里希那)。

2.60.30

चक्रमुद्यम्य रोषाद्वै दिव्यं शस्त्रोत्तमं ततः ।
सहस्रबाहूंश्चिच्छेद बाणस्यामिततेजसः ॥ २.६०.३० ॥

然后,他愤怒地举起神圣的至上武器——轮盘,斩断了无量光辉的钵那的千臂。

2.60.31

ततो बाणो महाराज कृष्णेन भृशपीडितः ।
भिन्नबाहुः पपाताशु विशाख इव पादपः ॥ २.६०.३१ ॥

大王啊,巴那被黑天重创,双臂折断,如毗舍迦树般迅速倒下。

2.60.32

स पातयित्वा बाणैस्तं बाणं कृष्णस्त्वरान्वितः ।
प्राद्युम्निं मोचयामास क्षिप्रं राजगृहात्तदा ॥ २.६०.३२ ॥

黑天以箭射倒巴那,急忙从王宫中救出了普拉迪尤姆纳之子。

2.60.33

मोक्षयित्वाऽथ गोविन्दः प्राद्युम्निं सह भार्यया ।
बाणस्य सर्वरत्नानि असङ्ख्यानि जहार सः ॥ २.६०.३३ ॥

随后,哥文达将普拉迪尤姆纳之子与其妻一同救出,并夺走了巴那无数的一切珍宝。

2.60.34

गोधनानि च सर्वस्वं स बाणस्यालये बलात् ।
जहार च हृषीकेशो यदूनां कुलवर्धनः ॥ २.६०.३४ ॥

毗湿奴的化身希利史基舍从巴那的宅邸中强行夺取了牛群和全部财物;他是增益雅度家族的人。

2.60.35

ततः स सर्वरत्नानि चाहृत्य मधुसूदनः ।
क्षिप्रमारोपयाञ्चक्रे सर्वस्वं गरुडोपरि ॥ २.६०.३५ ॥

随后,摩图苏达那取走所有宝物,迅速将全部财富装载到迦鲁达背上。

2.60.36

त्वरयाऽथ स कौन्तेय बलदेवं महाबलम् ।
प्रादुम्निं च महावीर्यमनिरुद्धं महाद्युतिम् ॥ २.६०.३६ ॥

随后,昆提之子急忙带上大力的郁摩罗摩、勇武的普拉迪尤姆纳之子,以及光辉的阿尼鲁达。

2.60.37

उषां च सुन्दरीं राजन्भृत्यदारगणैः सह ।
सर्वानेतान्समारोप्य गरुडोपरि वीर्यवान् ॥ २.६०.३७ ॥

大王啊,那位有威力的(克里希那)把美丽的乌莎连同仆从与妃嫔的众人,将他们全部安放在迦鲁达之上,

2.60.38

मुदा युक्तो महातेजाः पीताम्बरधरो बली ।
दिव्याभरमचित्राङ्गः शङ्कचक्रगदासिभृत्।
आरुरोह गरुत्मन्तमुदयं भास्करो यथा ॥ २.६०.३८ ॥

喜悦充盈、大放光辉、身穿黄衣、强健的他,身体饰以神圣的装饰,持螺、轮、杵与剑,登上迦鲁达,如同太阳升上东方之山。