Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.62

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.62.1

एवमुक्त्वा ततो भीष्णो विरराम महाबलः ।
व्याजहारोत्तरं तत्र सहदेवोऽर्थवद्वचः ॥ २.६२.१ ॥

毗湿摩如此说罢,大力者便沉默了。于是萨诃提婆在那里以有意义的话作了回答。

2.62.2

केशवं केशिहन्तारमप्रमेयपराक्रमम् ।
पूज्यमानं मया यो वः कृष्णं न सहते नृपाः ॥ २.६२.२ ॥

诸王啊,你们不能容忍我所敬奉的羯沙婆——杀死羯西的黑天,其威力不可限量。

2.62.3

सर्वेषां बलिनां मूर्ध्नि मयेदं निहितं पदम् ।
एवमुक्ते मया सम्यगुत्तरं प्रब्रवीतु सः ॥ २.६२.३ ॥

我已将此位置置于一切强者之首。我如此说了之后,愿他恰当地作答。

2.62.4

स एव हि मया वध्यो भविष्यति न संशयः ।
मतिमन्तश्च ये केचिदाचार्यं पितरं गुरुम् ॥ २.६२.४ ॥

他必定会被我杀死,毫无疑问。凡是有智慧之人,无论敬奉老师、父亲还是长辈……

2.62.5

अर्च्यमर्चितमर्घार्हमनुजानन्तु ते नृपाः ।
ततो न व्याजहारैषां कश्चिद्बुद्धिमतां सताम् ॥ २.६२.५ ॥

愿那些国王同意尊崇那值得尊崇、受敬、配得献供之人。于是这些有智慧的善人中无一人开口。

2.62.6

मानिनां बलिनां राज्ञां मध्ये वै दर्शिते पदे ।
ततोऽपतत्पुष्पवृष्टिः सहदेवस्य मूर्धनि ॥ २.६२.६ ॥

当那个位置在傲慢而强大的诸王之中被展示时,一阵花雨落在了萨诃提婆的头上。

2.62.7

अदृश्यरूपा वाचश्चाप्यब्रुवन्साधुसाध्विति ।
अविध्यदजिनं कृष्णं भविष्यद्भूतजल्पनः ॥ २.६२.७ ॥

无形之声也齐声说:“善哉,善哉!”通晓过去未来者以目光刺向身着鹿皮的克里希那。

2.62.8

सर्वसंशयनिर्मोक्ता नारदः सर्वलोकवित् ।
उवाचाखिलभूतानां मध्ये स्पष्टतरं वचः ॥ २.६२.८ ॥

摆脱一切疑惑、通晓一切世界的那罗陀,在一切众生之中说出了更加清晰的话语。

2.62.9

कृष्णं कमलपत्राक्षं नार्चयिष्यन्ति ये नराः ।
जीवन्मृतास्तु ते ज्ञेया न सभाष्याः कदाचना ॥ २.६२.९ ॥

那些不礼敬莲花瓣般眼睛的克里希那的人,应被视为活着的死人;绝不可与他们交谈。

2.62.10

पूजयित्वा च पूजार्हान्ब्रह्मक्षत्रविशेषवित् ।
सहदेवो नृणां देवः समापयत कर्म तत् ॥ २.६२.१० ॥

通晓婆罗门与刹帝利之别的偕天,礼敬了应受尊崇者,作为人间之神完成了那项事务。

2.62.11

तस्मिन्नभ्यर्चिते कृष्णे सुनीथः शत्रुकर्षणः ।
अतिताम्रेक्षणः कोपादुवाच मनुजाधिपान् ॥ २.६२.११ ॥

克里希那受到如此礼敬后,折磨敌人的苏尼陀双目通红,因愤怒而对众王说道。

2.62.12

स्थितः सेनापतिर्योऽहं मन्वध्वं किं तु साम्प्रतम् ।
युधि तिष्ठाम सन्नह्य समेतान्वृष्णिपाण्डवान् ॥ २.६२.१२ ॥

“我作为统帅站在此处;现在你们认为如何?让我们披甲在战场上站定,迎战聚集的毗湿尼族与般度之子们。”

2.62.13

इति सर्वान्समुत्साद्य राज्ञस्तांशअचेदिपुङ्गवः ।
यज्ञोपघाताय ततः सोऽमन्त्रतय राजभिः ॥ २.६२.१३ ॥

于是,煽动了所有国王之后,最优秀的希舒波罗便与诸王商议,以阻碍祭祀。

2.62.14

तत्राहूतागताः सर्वे सुनीथप्रमुखा गणाः ।
समदृश्यन्त सङ्क्रुद्धा विवर्णवदनास्तथा ॥ २.६२.१४ ॥

在那里,所有被召集而来的部众,以苏尼陀为首,都显得愤怒而面色苍白。

2.62.15

युधिष्ठिराभिषेकं च वासुदेवस्य चार्हणम् ।
न स्याद्यथा तथा कार्यमेवं सर्वे तदाऽब्रुवन् ॥ २.६२.१५ ॥

不让坚战受灌顶、不让婆苏提婆受敬礼,应当如此行事——当时众人都这样说。

2.62.16

निष्कर्षान्निश्चयात्सर्वे राजानः क्रोधमूर्छिताः ।
अब्रुवंस्तत्र राजानो निर्वेदादात्मनिश्चयात् ॥ २.६२.१६ ॥

众王因决议和坚定的决心,被愤怒所迷惑,在那里因绝望和自己的决心而发言。

2.62.17

सुहृद्भिर्वार्यमाणानां तेषां हि वपुराबभौ ।
आमिषादपकृष्टानां सिहानामिव गर्जताम् ॥ २.६२.१७ ॥

他们被朋友劝阻,身躯闪耀,如同从猎物旁被拖开的咆哮雄狮。

2.62.18

तं बलौघमपर्यन्तं राजसागारमक्षयम् ।
कुर्वाणं समयं कृष्णो युद्धाय बुबुधे तदा ॥ २.६२.१८ ॥

克里希那此时察觉,那无边的军队洪流、不竭的王者之海正在立约备战。