Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.63

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.63.1

ततः सागरसङ्काशं दृष्ट्वा नृपतिमण्डलम् ।
संवर्तवाताभिहतं भीमं क्षुब्धमिवार्णवम्। ॥ २.६३.१ ॥

此时,他看见那群王者如同大海,被劫末之风所击,如汹涌的海洋般可怖。

2.63.2

रोषात्प्रचलितं सर्वमिदमाह युधिष्ठिरः ।
भीष्मं मतिमतां मुख्यं वृद्धं कुरुपितामहम्।
बृहस्पतिं बृहत्तेजाः पुरुहूत इवारिहा। ॥ २.६३.२ ॥

看到众人因愤怒而骚动,坚战对智者中最杰出、年迈的俱卢祖父毗湿摩说了这番话,犹如光辉伟大的灭敌者因陀罗对brihaspati说话一样。

2.63.3

असौ रोषात्प्रचलितो महान्नृपतिसागरः ।
अत्र यत्प्रतिपत्तव्यं तन्मे ब्रूहि पितामह ॥ २.६३.३ ॥

这片因愤怒而翻涌的王者大海啊,祖父,请告诉我此时该如何应对。

2.63.4

यज्ञस्य च न विघ्नः स्यात्प्रजानां च हितं भवेत् ।
यथा सर्वत्र तत्सर्वं ब्रूहि मेऽद्य पितामह ॥ २.६३.४ ॥

愿祭祀不受阻碍,百姓得以安乐,四方皆然——祖父啊,今天请把这一切都告诉我。

2.63.5

इत्युक्तवति धर्मज्ञे धर्मराजे युधिष्ठिरे ।
उवाचेदं वचो भीष्मस्ततः कुरुपितामहः ॥ २.६३.५ ॥

当知法的法王坚战如此说完,俱卢祖父毗湿摩便说出了这些话。

2.63.6

मा भैस्त्वं कुरुशार्दूल श्वा सिंहं हन्तुमर्हति ।
शिवः पन्थाः सुनीतोऽत्र मया पूर्वतरं वृतः ॥ २.६३.६ ॥

勿惧,俱卢中的猛虎;狗不能杀死狮子。在此,我早已选定了吉祥而妥善的道路。

2.63.7

प्रसुप्ते हि यथा सिंहे श्वानस्तात समागताः ।
भषेयुः सहिताः सर्वे तथेमे वसुधाधिपाः ॥ २.६३.७ ॥

就像群狗聚在熟睡的狮子旁边吠叫,亲爱的,这些大地之主也这样聚在一起吠叫。

2.63.8

वृष्णिसिंहस्य सुप्तस्य तथाऽमी प्रमुके स्थिताः ।
भषन्ते तात सङ्क्रुद्धाः श्वानः सिंहस्य सन्निधौ ॥ २.६३.८ ॥

瓦尔什尼之狮沉睡时,站在他面前的这些人也如此吠叫;亲爱的,愤怒的狗在狮子面前吠叫。

2.63.9

न हि सम्बुध्यते यावत्सुप्तः सिंह इवाच्युतः ।
तदिदं ज्ञातपूर्वं हि तव संस्तोतुमिच्छसि।
तेन सिंहीकरोत्येतानसिंहश्चेदिपुङ्गवः ॥ २.६३.९ ॥

只要沉睡的那头狮子,那位不动摇者,不醒来,他们也不会醒来;这一点你早已知道,你还想赞美他们。若他不是狮子,那他便把这些人变成狮子,人中的至尊啊。

2.63.10

पार्थिवान्पार्थिवश्रेष्ठ शिशुपालोऽल्पचेतनः ।
सर्वान्सर्वात्मना तात नेतुकामो यमक्षयम् ॥ २.६३.१० ॥

诸王之最,愚钝的希苏帕拉一心想把这些国王全都送往阎摩的住所,亲爱的。

2.63.11

नूनमेतत्समादातुं पुनरिच्छत्यधोक्षजः ।
यदस्य शिशुपालस्य तेजस्तिष्ठति भारत ॥ २.६३.११ ॥

无疑,不可征服者想要再次收回它,因为,婆罗多的后裔啊,这希苏帕拉的光辉仍然存在。

2.63.12

विप्लुता चास्य भद्रं ते बुद्धिर्बुद्धिमतां वर ।
चेदिराजस्य कौन्तेय सर्वेषां च महीक्षितम् ॥ २.६३.१२ ॥

愿你吉祥,智者之最:他的智慧也已迷乱。昆蒂之子啊,车底国王的智慧以及大地上所有统治者的智慧也是如此。

2.63.13

आदातुं च नरव्याघ्रो यं यमिच्छत्ययं तदा ।
तस्य विप्लवते बुद्धिरेवं चेदिपतेर्यथा ॥ २.६३.१३ ॥

那时,人中之虎想要取走谁,谁的心智便迷乱,正如奇第王一样。

2.63.14

चतुर्विधानां भूतानां त्रिषु लोकेषु माधवः ।
प्रभवश्चैव सर्वेषां निधनं च युधिष्ठिर ॥ २.६३.१४ ॥

般度之子啊,在三界之中,摩陀婆是四类一切众生的起源,也是他们的终结。

2.63.15

इति तस्य वचः श्रुत्वा ततश्चेदिपतिर्नृपः ।
भीष्मं रूक्षाक्षरा वाचः श्रावयामास भारत ॥ २.६३.१५ ॥

聆听了他的这些话后,奇第之王便对毗湿摩说出了严厉的话,婆罗多啊。