摩诃婆罗多 · 章 2.64
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.64.1
बिभीषिकाभिर्बह्वीभिर्भीषयन्भीष्म पार्थिवान् ।
न व्यपत्रपसे कस्माद्वृद्धः सन्कुलपांसनः ॥ २.६४.१ ॥
婆罗多啊,你以许多可怕之言恐吓诸王,身为老人为何不感羞愧,玷污家族之人?
2.64.2
युक्तमेतत्तृतीयायां प्रकृतौ वर्तता त्वया ।
वक्तुं धर्मादपेतार्थं त्वं हि सर्वकुरूत्तमः ॥ २.६४.२ ॥
你是诸库鲁中最杰出者,又具第三种姓的本性,说出远离法义的话,对你来说确实恰当。
2.64.3
नावि नौरिव सम्बद्धा यथान्धो वान्धमन्वियात् ।
तथाभूता हि कौरव्या येषां भीष्म त्वमग्रणीः ॥ २.६४.३ ॥
犹如船系于船,或盲人随盲人而行,婆罗多啊,以你为首的俱卢族人正是如此。
2.64.4
पूतनाघातपूर्वाणि कर्माण्यस्य विशेषतः ।
त्वया कीर्तयताऽस्माकं भूयः प्रव्यथितं मनः ॥ २.६४.४ ॥
你特别列举他的功绩,从杀死普多那开始,使我们的心再次深受困扰。
2.64.5
अवलिप्तस्य मूर्शस्य केशवं स्तोतुमिच्छतः ।
कथं भीष्म न ते जिह्वा शतधेयं विदीर्यते ॥ २.६४.५ ॥
婆罗多啊,骄傲的愚人,你想赞美克舍婆,你的舌头为何不裂成百片?
2.64.6
यत्र कुत्सा प्रयोक्तव्या भीष्म बालतरैर्नरैः ।
तमिमं ज्ञानवृद्धः सन्गोपं संस्तोतुमिच्छसि ॥ २.६४.६ ॥
婆罗多啊,本应责备之处,却是最幼稚的人在责备;你年长于智慧,却想赞美这位牧牛人。
2.64.7
यद्यनेन हता बाल्ये शकुनिश्चित्रमत्र किम् ।
तौ वाऽश्ववृषभौ भीष्ण यौ न युद्धविशारदौ ॥ २.६४.७ ॥
若他在童年杀了沙恭尼,又有什么奇怪?或者那两个不善战斗的马与公牛,啊,毗湿摩。
2.64.8
चेतनारहितं काष्ठं यद्यनेन निपातितम् ।
पादेन शकटं भीष्ण तत्र किं कृतमद्भुतम् ॥ २.६४.८ ॥
若他用脚推倒了无知觉的木头,或车子,啊毗湿摩,那又有什么奇妙之事可言?
2.64.9
अर्कप्रमाणौ तौ वृक्षौ यद्यनेन निपातितौ ।
नागश्च दमितोऽनेन तत्र को विस्मयः कृतः ॥ २.६४.९ ॥
若他推倒了那两棵如阿迦草般大的树,又驯服了大象,那么谁在那里感到惊讶?
2.64.10
वल्मीकमात्रः सप्ताहं यद्यनेन धृतोऽचलः ।
तदा गोवर्धनो भीष्म न तच्चित्रं मतं मम ॥ २.६४.१० ॥
若他把一座只如蚁丘大小的山举起七天,啊毗湿摩,那就是戈瓦尔丹山;在我看来,这并不奇妙。
2.64.11
भुक्तमेतेन बह्वन्नं क्रीडता नगमूर्धनि ।
इति ते भीष्ण शृण्वानाः परे विस्मयमागताः ॥ २.६४.११ ॥
据说他在山顶嬉戏时吃了许多食物;啊毗湿摩,听到这些的人们都感到惊讶。
2.64.12
यस्य चानेन धर्मज्ञ भुक्तमन्नं बलीयसः ।
स चानेन हतः कंस इत्येतत्तु बलीयसः। ॥ २.६४.१२ ॥
啊,知法者,他吃了那位强者的食物,又杀了那位强者——迦摩娑;这就是强者的行为。
2.64.13
स चानेन हतः कंस इत्येतत्तु महाद्भुतम् ।
न ते श्रुतमिदं भीष्म नूनं कथयतां सताम्। ॥ २.६४.१३ ॥
甘萨被他所杀,实在是极为奇异之事。婆罗门,毗湿摩啊,善人们确实说过此事,你难道没有听说吗?
2.64.14
यद्वक्ष्ये त्वामधर्मज्ञं वाक्यं कुरुकुलाधम ।
स्त्रीषु गोषु न शस्त्राणि पातयेद्ब्राह्मणेषु च। ॥ २.६४.१४ ॥
库鲁族中最卑劣的、不懂法的人啊,我要对你说的话是:不应该对妇女、牛和婆罗门动用兵器。
2.64.15
इति सन्तोऽनुशासन्ति सञ्जना धर्मिणः सदा ।
भीष्म लोके हि तत्सर्वं वितथं त्वयि दृश्यते ॥ २.६४.१५ ॥
善人与守法之人总是这样教导。毗湿摩啊,在世间,这一切在你身上都显得虚假。
2.64.16
ज्ञानवृद्धं च वृद्धं च भूयांसं केशवं मम ।
अजानत इवाख्यासि संस्तुवन्कौरवाधम ॥ २.६४.१६ ॥
你赞美在智慧与年岁上都年长、远胜于我的羯舍婆,说话仿佛不知情似的,库鲁族中最卑劣的人啊。
2.64.17
गोघ्रः स्त्रीघ्नश्च सन्भीष्म त्वद्वाक्याद्यदि पूज्यते ।
एवम्भूतश्च यो भीष्म कथं संस्तवमर्हति ॥ २.६४.१७ ॥
毗湿摩啊,若依你之言,杀牛者、杀妇人者亦受尊崇,那么这样的人怎么配受赞颂呢?
2.64.18
असौ मतिमतां श्रेष्ठो य एष जगतः प्रभुः ।
सम्भावयति चाप्येवं त्वद्वाक्याच्च जनार्दनः।
एवमेतत्सर्वमिति तत्सर्वं वितथं ध्रुवम् ॥ २.६४.१८ ॥
这位智者中最优秀、世界之主,也因你的话而这样受到尊崇,羯舍婆也是如此。'确实如此,一切皆如此'——这一切必定是虚妄的。
2.64.19
आत्मानमात्मनाऽऽधातुं यदि शक्तो जनार्दनः ।
अकामयन्तं तं भीष्म कथं साध्विव पश्यसि ॥ २.६४.१९ ॥
若檀那自己能够自主,那么婆罗门,毗湿摩啊,你为何把不愿他的人看作善人?
2.64.20
न गाथा गाथिनं शास्ति बहुचेदपि गायति ।
प्रकृतिं यान्ति भूतानि कुलिङ्गशकुनिर्यथा ॥ २.६४.२० ॥
诗歌不教导吟唱者,纵使他唱得再多;众生回归其本性,如同鸟名鸠灵伽。
2.64.21
नूनं प्रकृतिरेषा ते जघन्या नात्र संशयटः ।
नदीसुतत्वात्ते चित्तं चञ्चलं न स्थिरं स्मृतम् ॥ २.६४.२१ ॥
无疑,你的这种本性是卑劣的,此事毫无疑问;因为你是河之子,你的心被认为是动荡的,而非坚定的。
2.64.22
अतः पापीयसी चैषां पाण्डवानामपीष्यते ।
येषामर्च्यतमः कृष्णस्त्वं च येषां प्रदर्शकः ॥ २.६४.२२ ॥
因此,这些般度之子的本性也被认为更为邪恶——他们最尊敬的是黑天,而他们的引导者是你。
2.64.23
धर्मवांस्त्वमधर्मज्ञः सतां मार्गादवप्लुतः ।
को हि धर्मिणमात्मानं जानञ्ज्ञानविदां वरः ॥ २.६४.२३ ॥
你虽有德,却知不义,已偏离善人的道路。作为智者中最优秀的人,谁会知道自己是有德之人呢?
2.64.24
कुर्याद्यथा त्वया भीषम कृतं धर्ममवेक्षता ।
चेत्त्वं धर्मं विजानासि यदि प्राज्ञा मतिस्तव ॥ २.६४.२४ ॥
你若真知法,你的智慧若真是明智的,那么除了你,谁还会像你那样依照法而行呢?
2.64.25
अन्यकामा हि धर्मज्ञा कन्यका प्राज्ञमानिना ।
अम्बा नामेति भद्रं ते कथं साऽपहृता त्वया ॥ २.६४.२५ ॥
愿你吉祥!那位知法的少女心中另有所爱;你自以为聪明,又怎能掳走名叫安芭的那位少女?
2.64.26
तां त्वयाऽपहृतां भीष्म कन्यां नैषितवान्नृपः ।
भ्राता विचित्रवीर्यस्ते सतां मार्गमनुस्मरन् ॥ २.६४.२६ ॥
婆罗摩,你所掳来的那位少女,你的兄长国王毗흐特拉维利耶并未接受,而他本应记住善人之道。
2.64.27
भार्ययोर्यस्य चान्येन मिषतः प्राज्ञमानिनः ।
तव जातान्यपत्यानि सज्जनाचरिते पथि ॥ २.६४.२७ ॥
你自以为聪明,明明有两位妻子,却在他人眼前,在善人所行之道上,生下了这些子嗣。
2.64.28
को हि धर्मोऽस्ति ते भीषम ब्रह्मचर्यमिदं वृथा ।
यद्धारयसि मोहाद्वा क्लीबत्वाद्वा न संशयः ॥ २.६४.२८ ॥
婆罗摩,你有什么法?你所持守的这梵行是徒劳的;无论出于迷惑还是出于无能,你持守它,这毫无疑问。
2.64.29
न त्वं तव धर्मज्ञ पश्याम्युपचरं क्वचित् ।
न हि ते सेविता वृद्धा य एवं धर्ममब्रवीः ॥ २.६४.२९ ॥
精通法的人啊,我在你身上看不到任何礼节;你从未侍奉过长者,却这样谈论法。
2.64.30
इष्टं दत्तमधीतं च यज्ञाश्च बहुदक्षिणाः ।
सर्वमेतदपत्यस्य कलां नार्हन्ति षोडशीम् ॥ २.६४.३० ॥
祭祀已行,布施已施,吠陀已习,大德施之祭祀已成——然而这一切,连子嗣的十六分之一也抵不上。
2.64.31
व्रतोपवासैर्बहुभिः कृतं भवति भीष्म यत् ।
सर्वं तदनपत्यस्य मोघं भवति निश्चयात् ॥ २.६४.३१ ॥
婆罗多啊,凭借誓愿与斋戒所做的种种善行,对于无子嗣之人必定归于徒劳。
2.64.32
सोऽनपत्यश्च वृद्धश्च मिथ्याधर्मानुशासनात् ।
हंसवत्त्वमपीदानीं ज्ञातिभ्यः प्राप्नुया वधम् ॥ २.६४.३२ ॥
那个无子嗣的老者,因教授虚假的法,如同天鹅一般;如今你也将被自己的亲族所杀。
2.64.33
एवं हि कथयन्त्यन्ये नरा ज्ञानविदः पुरा ।
भीष्म यत्तदहं सम्यग्वक्ष्यामि तव शृण्वतः ॥ २.६४.३३ ॥
古时其他通晓智慧的人如此说。婆罗多啊,你听着,我将把它准确地告诉你。
2.64.34
वृद्धः किल समुद्रान्ते कश्चिद्धंसोऽभवत्पुरा ।
धर्मवागन्यथावृत्तः पक्षिणः सोऽनुशास्ति च ॥ २.६४.३४ ॥
据说古时海边有一只老天鹅,口说法义而行为不同,它教导众鸟。
2.64.35
धर्म चरत माऽधर्ममिति तस्य वचः किल ।
पक्षिणः शुश्रुवुर्भीष्म सततं धर्मवादिनः ॥ २.६४.३५ ॥
他说:“行法,莫行非法”,群鸟确实听到了。婆罗多啊,那些常说法义的鸟儿,时常听闻此言。
2.64.36
हंसस्य तु वचः श्रुत्वा मुदिताः सर्वपक्षिणः ।
ऊचुश्चैव स्वगा हंसं परिवार्य च सर्वशः ॥ २.६४.३६ ॥
众鸟听到天鹅的话都很欢喜,于是从各方将天鹅围住,对它说话。
2.64.37
कथयस्व भवान्सर्वं पक्षिणां तु समासतः ।
को हि नाम द्विजश्रेष्ठ ब्रूहि नो धर्म उत्तमः ॥ २.६४.३७ ॥
请简要地为我们讲述一切,二生者中最杰出者啊,告诉我们至高的法是什么。
2.64.38
प्रजास्वहिंसा धर्मो वै हिंसाऽधर्मः खगव्रजाः ।
एतदेवानुबोद्धव्यं धर्माधर्मः समासतः ॥ २.६४.३८ ॥
对众生不伤害即是法,伤害即是非法,诸鸟群啊。简而言之,法与非法应当这样理解。
2.64.39
वृद्धहंसवचः श्रुत्वा पक्षिणस्ते सुसंहिताः ।
ऊचुश्च धर्मलुब्धास्ते स्मयमाना इवाण्डजाः ॥ २.६४.३९ ॥
诸鸟听了老天鹅的话,聚集在一起,热衷于法,仿佛微笑着说道。
2.64.40
धर्मं यः कुरुते नित्यं लोके धीरतरोऽण्डजः ।
स यत्र गच्छेद्धर्मात्मा तन्मे ब्रूहीह तत्त्वतः ॥ २.६४.४० ॥
在世间常行法、最为坚定的那只飞禽——那位法魂将往何处去?请在此如实告诉我。
2.64.41
बाला यूयं न जानीध्वं धर्मसूक्ष्मं विहङ्गमाः ।
धर्मं यः कुरुते लोके सततं शुभबुद्धिना।
न चायुषोऽन्ते स्वं देहं त्यक्त्वा स्वर्गं स गच्छति ॥ २.६४.४१ ॥
诸鸟啊,你们还是孩子,不懂法的精微。在世间以善心恒常行法的人,寿命终结时舍弃自己的身体,便升往天界。
2.64.42
तथाऽहमपि च त्यक्त्वा काले देहमिमं द्विजाः ।
स्वर्गलोकं गमिष्यामि इयं धर्मस्य वै गतिः ॥ २.६४.४२ ॥
同样,我也会在适当的时候舍弃这个身体,前往天界。这就是法的归宿。
2.64.43
एवं धर्मकथां चक्रे स हंसः पक्षिणां भृशम् ।
पक्षिणः शुश्रुवुर्भीष्म सततं धर्ममेव ते ॥ २.६४.४३ ॥
如是,天鹅向众鸟多讲说法(dharma);婆罗门啊,诸鸟常听的只是法。
2.64.44
अथास्य भक्ष्यमाजह्रुः समुद्रजलचारिणः ।
अण्डजा भीष्म तस्यान्ये धर्मार्थमिति शुश्रुम ॥ २.६४.४४ ॥
于是栖居海水中的卵生诸类为它带来食物;婆罗门啊,我们听说其他鸟也为法而带来。
2.64.45
ते च तस्य समभ्याशे निक्षिप्याण्डानि सर्वशः ।
समुद्राम्भस्यमोदन्त चरन्तो भीष्म पक्षिणः ॥ २.६४.४५ ॥
它们把所有的卵都放在它附近,在海水中游动并欢喜;婆罗门啊。
2.64.46
तेषामण्डानि सर्वेषां भक्षयामास पापकृत् ।
स हंसः सम्प्रमत्तानामप्रमत्तः स्वकर्मणि ॥ २.६४.४६ ॥
那作恶者把它们所有的卵都吃光了;那只天鹅在疏忽的众鸟中,却在自己的本分上保持警觉。
2.64.47
ततः प्रक्षीयमाणेषु तेषु तेष्वण्डजोऽपरः ।
अशङ्कत महाप्राज्ञः स कदाचिद्ददर्श ह ॥ २.६४.४७ ॥
此后,随着它们的卵一个个减少,另一只极有智慧的卵生鸟起了疑心;有一次它果然看见了。
2.64.48
ततः सङ्कथयामास दृष्ट्वा हंसस्य किल्बिषम् ।
तेषां परमदुःखार्तः स पक्षी सर्वपक्षिणाम् ॥ २.६४.४८ ॥
于是,它看见了天鹅的过失,因他们的极大悲苦而痛苦,便开始把此事告诉所有的鸟。
2.64.49
ततः प्रत्यक्षतो दृष्ट्वा पक्षिणस्ते समीपगाः ।
निजघ्नस्तं तदा हंसं मिथ्यावृत्तं कुरूद्वह ॥ २.६४.४९ ॥
于是附近的那些鸟亲眼看见,便当场杀死了那只行为虚伪的天鹅,俱卢中的英杰啊。
2.64.50
एवं त्वां हंसधर्माणमपीमे वसुधाधिपाः ।
निहन्युर्भीष्म सङ्क्रुद्धाः पक्षिणस्तं यथाण्डजम् ॥ २.६४.५० ॥
同样,对于你这具有天鹅本性的人,这些大地之主在极度愤怒之下,也会像鸟类杀死卵生之物那样杀死你,婆罗门之子毗湿摩啊。
2.64.51
गाथामप्यत्र गायन्ति ये पुराणविदो जनाः ।
भीष्म यां तां च ते सम्यक्वथयिष्यामि भारत ॥ २.६४.५१ ॥
此处精通往世书的人所吟唱的那首偈颂,我也将为你完整讲述,毗湿摩啊,婆罗多之后裔。
2.64.52
अन्तरात्मन्यभिहते रौषि पत्ररथाशुचि ।
अण्डभक्षणकर्मैतत्तव वाचमतीयते ॥ २.६४.५२ ॥
当内在自我受到打击时,你这鸟车啊,却不净地咆哮;这吃卵之行,竟超出了你自己所说的话。