摩诃婆罗多 · 章 2.65
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.65.1
स मे बहुमतो राजा जरासन्धो महाबलः ।
योऽनेन युद्धं नेयेष दाक्षोऽयमिति संयुगे ॥ २.६५.१ ॥
那位被我尊重的国王遮罗桑陀,力量强大,却不愿与此人交战,心想:“此人精明。”
2.65.2
केशवेन कृतं कर्म जरासन्धवधे तदा ।
भीमसेनार्जुनाभ्यां च कस्तत्साध्विति मन्यते ॥ २.६५.२ ॥
谁会认为克舍婆(黑天)当时在杀死遮罗桑陀时所做之事,以及婆罗多之子与阿周那所做之事,是善行呢?
2.65.3
उद्वारेण प्रविष्टेन छद्मना ब्रह्मवादिना ।
दृष्टः प्रभावः कृष्णेन जरासन्धस्य भूपतेः ॥ २.६५.३ ॥
黑天从门进入,假扮婆罗门辩者,以欺诈之术看到了国王遮罗桑陀的威力。
2.65.4
येन धर्मात्मनाऽऽत्मानं ब्रह्मण्यमभिजानता ।
प्रेषितं पाद्यमस्मै तद्दातुमग्रे दूरात्मने ॥ २.६५.४ ॥
那位自认敬重婆罗门的正直之人,派人送来洗足之水给这个卑劣之人,先行奉给他。
2.65.5
भुज्यतामिति तेनोक्ताः कृष्णबीमधनञ्जयाटः ।
जरासन्धेन कौरव्य कृष्णेन विकृतं कृतम् ॥ २.६५.५ ॥
他对黑天、比摩和财主(阿周那)说:“请用食。”啊,俱卢之裔!这桩颠倒之事,乃由遮罗桑陀与黑天所为。
2.65.6
यद्ययं जगतः कर्ता यथैनं मूर्ख मन्यसे ।
कस्मान्न ब्राह्मणं सम्यगात्मानमवगच्छति ॥ २.६५.६ ॥
如果此人是世界的创造者,而你却视他为愚人,那么他为何不能正确地认识自己是婆罗门呢?
2.65.7
इदं त्वाश्चर्यभूतं मे यदिभे पाण्डवास्त्वया ।
अपकृष्टाः सतां मार्गान्मन्यन्ते तच्च साध्विति ॥ २.६५.७ ॥
令我惊讶的是,这些般度之子被你引离善人之道,却仍以此为正当。
2.65.8
अथवा नैतदाश्चर्यं येषां त्वमसि भारत ।
स्त्रीसधर्मा च वृद्धश्च सर्वार्थानां प्रदर्शकः ॥ २.६५.८ ॥
或许这并不奇怪,婆罗多子孙啊,因为对于那些以你为一切事务指引者的人而言——你虽似女子又已年老。
2.65.9
तस्य तद्वचनं श्रुत्वा रूक्षं रूक्षाक्षरं बहु ।
चकोप बलिनां श्रेष्ठो भीमसेनः प्रतापवान् ॥ २.६५.९ ॥
听了他许多刺耳而粗暴的言辞,力量最强、威勇非凡的毗摩森那勃然大怒。
2.65.10
तथा पद्मप्रतीकाशे स्वभावायतविस्तृते ।
भूयः क्रोधाभिताम्राक्षे रक्ते नेत्रे बभूवतुः ॥ २.६५.१० ॥
他的眼睛如莲花瓣一般,天生细长而宽阔,因愤怒而更加通红。
2.65.11
त्रिशिखां भ्रकुटीं चास्य ददृशुः सर्वपार्थिवाः ।
ललाटस्थां त्रिकूटस्थां गङ्गां त्रिपथगामिव ॥ २.६५.११ ॥
众王都看见他额上三峰般的皱眉,如同三条河道在三峰山上流淌的恒河。
2.65.12
दन्तान्सन्दशतस्तस्य कोपाद्ददृशुराननम् ।
युगान्ते सर्वभूतानि कालस्येव जिघत्सतः ॥ २.६५.१२ ॥
他们看见他的脸因愤怒而咬牙切齿,如同劫末之时,时间欲吞噬一切众生。
2.65.13
उत्पतन्तं तु वेगेन जग्राहैनं मनस्विन् ।
भीष्म एव महाबाहुर्महासेनमिवेश्वरः ॥ २.६५.१३ ॥
他猛然跃起冲来,被智慧高深、臂力强大的毗湿摩抓住,如同君主制止大军一般。
2.65.14
तस्व भीमस्य भीष्मेण वार्यमाणस्य भारत ।
गुरुणा विविधैर्वाक्यैः क्रोधः प्रशममागतः ॥ २.६५.१४ ॥
婆罗多的后裔啊,毗摩的愤怒被毗湿摩所阻,经长者的种种劝言,终于平息下来。
2.65.15
नातिचक्राम भीष्मस्य स हि वाक्यमरिन्दमः ।
समुद्वृत्तो घनापाये वेलामिव महोदधिः ॥ २.६५.१५ ॥
那征服敌人者没有违背毗湿摩的话,正如大海在乌云散去后涌起,却不越过海岸。
2.65.16
शिशुपालस्तु सङ्क्रुद्धे भीमसेने जनाधिप ।
नाकम्पत तदा वीरः पौरुषे व्यवस्थितः ॥ २.६५.१६ ॥
然而,人主啊,毗摩森那极度愤怒,施舍罗不曾颤抖;那位英雄坚定地立于自己的勇力之中。
2.65.17
उत्पतन्तं तु वेगेन पुनः पुनररिन्दमः ।
न स तं चिन्तयामास सिंहः क्रुद्धो मृगं यथा ॥ २.६५.१७ ॥
他一次又一次猛然冲来,那征服敌人者却不把他放在心上,正如愤怒的狮子不理会一只鹿。
2.65.18
प्रहसंश्चाब्रवीद्वाक्यं चेदिराजः प्रतापवान् ।
भीमसेनमभिक्रुद्धं दृष्ट्वा भीमपराक्रमम् ॥ २.६५.१८ ॥
于是强大的切迪王施舍罗笑着对毗摩森那说了这些话,因为他看到了极度愤怒的毗摩那可怕的勇力。
2.65.19
मुञ्चैनं भीष्म पश्यन्तु यावदेनं नराधिपः ।
मत्प्रभावविनिर्दग्धं पतङ्गमिव वह्निना ॥ २.६५.१९ ॥
毗湿摩啊,放开他吧,让诸王看看他如何被我的威力焚烧,如同扑火的飞蛾。
2.65.20
ततश्चेदिपतेर्वाक्यं श्रुत्वा तत्कुरुसत्तमः ।
भीमसेनमुवाचेदं भीष्मे मतिमतां वरः ॥ २.६५.२० ॥
此时,听了文迪王的话语,俱卢族的至上者、智者中最优秀的人对怖军说了这些话。
2.65.21
नैषा चेदिपतेर्बुद्धिर्यत्त्वामाह्वयतेऽच्युतम् ।
भीमसेन महाबाहो कृष्णस्यैव विनिश्चयः ॥ २.६५.२१ ॥
怖军啊,大臂者,文迪王不会有这样的想法去挑战你,即那位不朽者。这正是克里希那自己的决定。