摩诃婆罗多 · 章 2.66
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.66.1
चेदिराजकुले जातख्यक्ष एष चतुर्भुजः ।
रासभारावसदृशं ररास च ननाद च ॥ २.६६.१ ॥
这个生于遮底国王王室的四臂婴儿像驴一样嘶叫,又大声吼叫。
2.66.2
तेनास्य मातापितरौ त्रेसतुस्तौ सबान्धवौ ।
वैकृतं तस्यत तौ दृष्ट्वा त्यागायाकुरुतां मतिम् ॥ २.६६.२ ॥
因为他,他的父母和亲属都感到恐惧;看到他的畸形,二人决定抛弃他。
2.66.3
ततः सभार्यं नृपतिं सामात्यं सपुरोहितम् ।
चिन्तासंमूढहृदयं वागुवाचाशरीरेणी ॥ २.६६.३ ॥
于是一个无形的声音对心被忧虑迷乱的国王说话,他身边有王后、大臣和祭司。
2.66.4
एष ते नृपते पुत्रः श्रीमाञ्जातो बलाधिकः ।
तस्मादस्मान्न भेतव्यमव्यग्रः पाहि वै शिशुम् ॥ २.६६.४ ॥
国王啊,你这位光辉且力量超群的儿子已经出生。所以不要害怕他,安心地保护这个孩子吧。
2.66.5
न च वै तस्य मृत्युस्त्वं न कालः प्रत्युपस्थितः ।
यश्च शस्त्रेण हन्ताऽस्य स चोत्पन्नो नराधिप ॥ २.६६.५ ॥
人主啊,他的死不在你手中,他的时辰也尚未到来。那个将以兵器杀死他的人,也已经出生了。
2.66.6
संश्रुत्योदाहृतं वाक्यं भूतमन्तर्हितं ततः ।
पुत्रस्नेहाभिसन्तप्ता जननी वाक्यमब्रवीत् ॥ २.६६.६ ॥
母亲听了那隐形之物所说的话,被对儿子的爱所煎熬,便说出了这番话。
2.66.7
येनेदमीरितं वाक्यं ममैतं तनयं प्रति ।
प्राञ्जलिस्तं नमस्यामि ब्रवीतु स पुनर्वचः ॥ २.६६.७ ॥
对于那位就我这个儿子说出这番话的人,我合掌向他致敬;愿他再把这些话说一遍。
2.66.8
याथातथ्येन भगवान्देवो वा यदि वेतरः ।
श्रोतुमिच्छामि पुत्रस्य कोऽस्य मृत्युर्भविष्यति ॥ २.६६.८ ॥
无论他是世尊、天神,还是别人,我都想如实听到这个儿子将会如何死去。
2.66.9
अन्तर्भूतं ततो भूतमुवाचेदं पुनर्वचः ।
यस्योत्सङ्गे गृहीतस्य भुजावभ्यधिकावुभौ ॥ २.६६.९ ॥
于是隐身的神灵又说了这番话:谁被抱在怀中时,他的双臂会变得极其修长。
2.66.10
पतिष्यतः क्षितितले पञ्चशीर्षाविवोरगौ ।
तृतीयमेतद्बालस्य ललाटस्थं तु लोचनम् ॥ २.६६.१० ॥
好像两条五头的蛇倒落在地上;而这只位于孩子额上的第三只眼睛。
2.66.11
निमज्जिष्यति यं दृष्ट्वा सोऽस्य मृत्युर्भविष्यति ।
त्र्यक्षं चतुर्भुजं श्रुत्वा तथा च समुदाहृतम् ॥ २.६६.११ ॥
他在见到谁时会沉没,那人便是他的死亡。听闻三眼者与四臂者,正如所说。
2.66.12
पृथिव्यां पार्थिवाः सर्वे अभ्यागच्छन्दिदृक्षवः ।
तान्पूजयित्वा सम्प्राप्तान्यथार्हं स महीपतिः ॥ २.६६.१२ ॥
大地上所有的国王都渴望一睹,纷纷前来;那位大地之主依礼厚待了所有到来的人。
2.66.13
एकैकस्य नृपस्याङ्के पुत्रमारोपयत्तदा ।
एवं राजसहस्राणा पृथक्त्वेन यथाक्रमम् ॥ २.६६.१३ ॥
于是他将儿子放在每位国王的膝上,如此依次对待成千上万的国王,逐一而行。
2.66.14
शिशुरङ्के समारूढो न तत्प्राय निदर्शनम् ।
एतदेव तु संश्रुत्य द्वारवत्यां महाबलौ ॥ २.६६.१४ ॥
坐在膝上的孩子大多并不是征兆。然而在德瓦拉瓦蒂听到此事后,这两位大力者——
2.66.15
ततश्चेदिपुरं प्राप्तौ सङ्कर्षणजनार्दनौ ।
यादवौ यादवीं द्रुष्टुं स्वसारं तौ पितुस्तदा ॥ २.६६.१५ ॥
于是这二位——桑卡尔沙纳与札纳尔达纳——抵达了奇迭城。这两位耶达瓦人,为了看望他们的妹妹——父亲之女,那时。
2.66.16
अभिवाद्य यथान्यायं यथाश्रेष्ठं नृपं च ताम् ।
कुशलानामयं पृष्ट्वा निषण्णौ रामकेशवौ ॥ २.६६.१६ ॥
按照礼仪与尊卑向国王和她致敬,问候安好之后,罗摩与刻沙婆坐下。
2.66.17
साऽभ्यर्च्य तौ तदा वीरौ प्रीत्या चाभ्यधिकं ततः ।
पुत्रं दामोदरोत्सङ्गे देवी संन्यदधात्स्वयम् ॥ २.६६.१७ ॥
那时王后以敬意接待二位英雄,充满深情,亲自把儿子放在达摩达罗的膝上。
2.66.18
न्यस्तमात्रस्य तस्याङ्के भुजावभ्यधिकावुभौ ।
पेततुस्तच्च नयनं न्यमज्जत ललाटजम् ॥ २.६६.१८ ॥
他刚被放入她的膝中,他那两条多余的手臂便垂落下去,生于额上的那只眼睛也隐没了。
2.66.19
तद्दृष्ट्वा व्यथिता त्रस्ता वरं कृष्णमयाचत ।
ददस्व मे वरं कृष्ण भयार्ताया महाभुज ॥ २.६६.१९ ॥
她见此情景,既痛苦又恐惧,便向克里希那求一个恩赐:“大臂的克里希那啊,请赐我一个恩典,我正被恐惧所困。”
2.66.20
त्वं ह्यार्तानां समाश्वासो भीतानामभयप्रदः ।
एवमुक्तस्ततः कृष्णः सोऽब्रवीद्यदुनन्दनः ॥ २.६६.२० ॥
你是受苦者的慰藉,是恐惧者的无畏施予者。如此被称呼后,犹陀族的喜悦克里希那便说道。
2.66.21
मा भैस्त्वं देवि धर्मज्ञे न मत्तोऽस्ति भयं तव ।
ददामि कं वरं किं च करवाणि पितृष्वसः ॥ २.६६.२१ ॥
女神啊,知法者,不要害怕;你不必怕我。姑母啊,我该赐你什么恩典,我又该做什么呢?
2.66.22
शक्यं वा यदि वाऽशक्यं करिष्याणि वचस्तव ।
एवमुक्ता ततः कृष्णमब्रवीद्यदुनन्दनम् ॥ २.६६.२२ ॥
无论可能与否,我都会履行你的话。她如此被称呼后,便对犹陀族的喜悦克里希那说道。
2.66.23
शिशुपालस्यापराधान्क्षमेथास्त्वं महाबल ।
मत्कृते यदुशार्दूल विद्ध्येनं मे वरं प्रभो ॥ २.६६.२३ ॥
大力者啊,犹陀族的雄虎啊,请宽恕失提浮罗的过错。主啊,为了我,请把他作为恩典赐给我。
2.66.24
अपराधशतं क्षाम्यं मया ह्यस्य पितृष्वसः ।
पुत्रस्य ते वधार्हस्य मा त्वं शोके मनः कृथाः ॥ २.६६.२४ ॥
姑母啊,他的一百次过错我都会宽恕。你的儿子该当受死;不要让心沉溺于悲伤。
2.66.25
स जानन्नात्मनो मृत्युं कृष्णं यदुसुखावहम् ।
एवमेष नृपः पापः शिशुपाः सुमन्दधीः।
त्वां समाह्वयते वीर गोविन्दवरदर्पितः ॥ २.६६.२५ ॥
这个罪孽深重、愚昧无知的国王奢苏跋罗,不知自己的死期,因戈文达的恩赐而骄傲,英雄啊,向你挑战;而黑天却是给耶度族带来喜乐的人。