Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.68

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.68.1

वचः श्रुत्वैव भीष्मस्य चेदिराडुरुविक्रमः ।
युयुत्सुर्वासुदेवेन वासुदेवमुवाच ह ॥ २.६८.१ ॥

闻听毗湿摩之言,勇武非凡的奇迪王渴望战斗,便对婆苏提婆说道。

2.68.2

आह्वये त्वां रणं गच्छ मया सार्धं जनार्दन ।
यावदद्य निहन्मि त्वां सहितं सर्वपाण्डवैः ॥ २.६८.२ ॥

生主啊,我向你挑战,随我前来。今日我必将你与所有般度之子一并杀死。

2.68.3

सह त्वया हि मे वध्याः सर्वथा कृष्ण पाण्डवाः ।
नृपतीन्समतिक्रम्य यैरराजा त्वमर्चितः ॥ २.६८.३ ॥

克里希那啊,你与般度诸子都必定为我所杀,因为他们越过众王,尊崇了你这个并非国王的人。

2.68.4

ये त्वां दासमराजानं बाल्यादर्चन्ति दुर्मतिम् ।
अनर्हमर्हवत्कृष्ण वध्यास्त इति मे मतिः ॥ २.६८.४ ॥

那些出于幼稚愚昧而尊崇你——你是仆从而非国王,克里希那啊——把不配的人当作配得的人来崇敬;依我之见,这些人都该被杀。

2.68.5

इत्युक्त्वा राजशार्दूल शार्दूल इव नादयन् ।
पश्यतां सर्वभूतानां शिशुपालः प्रतापवान् ॥ २.६८.५ ॥

说罢,那位王中之虎、威力强大的希舒帕拉,如虎般吼叫,众生皆在旁观看。

2.68.6

स रणायैव सङ्क्रुद्धः सन्नद्धः सर्वराजभिः ।
सुनीथः प्रययौ क्षिप्रं पार्थयज्ञजिघांसया ॥ २.६८.६ ॥

他满怀愤怒,与众王一同备战,名为苏尼他的希舒帕拉急速出发,欲毁灭般度之子(阿周那)的祭祀。

2.68.7

ततश्चक्रगदापाणिः केशवः केशिहा हरिः ।
सध्वजं रथमास्थाय दारुकेण सुसत्कृतम्।
भीष्मेण दत्तहस्तोऽसावारुहोह रथोत्तमम् ॥ २.६८.७ ॥

于是手持轮与槌的克沙婆、杀死羯悉的哈利,在达鲁迦的恭敬侍奉下登上了有旗幡的战车;毗湿摩伸手将他扶上了最好的战车。

2.68.8

तेन पापस्वभावेन कोपितान्सर्वपार्थिवान् ।
आससाद रणे कृष्णः सज्जितैकरथः स्थितः ॥ २.६८.८ ॥

克里希那独自站在一辆已备好的战车上,在战场上迎战那些因这个邪恶之人而愤怒的诸王。

2.68.9

ततः पुष्करपत्राक्षं तार्क्ष्यध्वजरथे स्थितम् ।
दिवाकरमिवोद्यन्तं ददृशुः सर्वपार्थिवाः ॥ २.६८.९ ॥

于是诸王看见莲花瓣般眼睛的他,站在带有金翅鸟旗的战车上,宛如升起的太阳。

2.68.10

आरोपयन्तं ज्यां कृष्णं प्रतपन्तमिवौजसा ।
स्थितं पुष्परथे दिव्ये पुष्पकेतुमिवापरम् ॥ २.६८.१० ॥

克里希那以力量炽烈地上弦,站在神圣的花车上,宛如另一位花旗之神。

2.68.11

दृष्ट्वा कृष्णं तथा यान्तं प्रतपन्तमिवौजसा ।
यथार्हं केशवे वृत्तिमवशाः प्रतिपेदिरे ॥ २.६८.११ ॥

见克里希那如此以力量炽烈而来,无可奈何的诸王便对克沙婆采取了应有的态度。

2.68.12

तानुवाच महाबाहुर्महाऽसुरनिबर्हणः ।
वृष्णिवीरस्तदा राजन्सान्त्वयन्परवीरहा ॥ २.६८.१२ ॥

于是这位大臂者、大阿修罗的摧毁者、伐栗尼英雄、敌方英雄的杀者,对他们说话,王啊,安抚着他们。

2.68.13

अपेत सबलाः सर्व आस्वस्ता मम शासनात् ।
मा दृष्टो दूषयेत्पाप एष वः सर्वपार्थिपाः ॥ २.६८.१३ ॥

诸位国王,带着你们的军队离去,依我的命令而安心吧。愿这个罪人不要在你们面前出现,玷污你们。

2.68.14

एष नः शत्रुरत्यन्तमेष वृष्णिविमर्दनः ।
सात्वतां सात्वतीपुत्रो वैरं चरति शाश्वतम् ॥ २.६८.१४ ॥

这是我们的死敌,毁灭婆利什尼族的人。萨特瓦塔之中萨特瓦蒂之子,怀着永恒的仇恨。

2.68.15

प्राग्ज्योतिषपुरं यातानस्माञ्ज्ञात्वा नृशंसकृत् ।
अदहद्द्वारकामेष स्वस्त्रीयः सन्नराधिपाः ॥ २.६८.१५ ॥

诸位人主,他知道我们前往普拉格约提沙城,这个残忍之人——我姐妹之子——焚毁了德瓦拉卡。

2.68.16

क्रीडतो भोजराजस्य एव रैवतके गिरौ ।
हत्वा बध्वा च तान्सार्वानुपायात्स्वपुरं पुरा ॥ २.६८.१६ ॥

当博阇王在莱瓦塔卡山上嬉戏之时,他杀死并捆绑了他们所有人,然后先行返回自己的城市。

2.68.17

अश्वमेधे हयं मेध्यमुत्सृष्टं रक्षिभिर्वृतम् ।
पितुर्मे यज्ञविघ्नार्थमहरत्पापनिश्चयः ॥ २.६८.१७ ॥

在马祭中放出的神圣马匹,虽有守卫环绕,这个心怀恶意之人仍将其劫走,以阻碍我父亲的祭祀。

2.68.18

सौवीरान्प्रतियातां च बभ्रोरेष तपस्विनः ।
भार्यामभ्यहरन्मोहादकामां तामितो गताम् ॥ २.६८.१८ ॥

苦行者婆布鲁返回苏维罗人之地时,其妻被此人因迷惑而夺走——她并不愿意,已经离开了这里。

2.68.19

एष मायाप्रतिच्छन्नः कारूशार्थे तपस्विनीम् ।
जहार भद्रां वैशालीं मातुलस्य नृशंसकृत् ॥ २.६८.१९ ॥

此人以幻术隐身,为迦卢沙而掳走苦行女、善良的毗舍利,对其舅舅行残酷之事。

2.68.20

वृष्णिदारान्विलाप्यैव हत्वा च कुकुरान्धकान् ।
पापाबुद्धिरुपातिष्ठत्स प्रविश्य ससम्भ्रमम् ॥ २.६८.२० ॥

使minh婦人悲泣,杀死库库罗与安陀迦之后,那心怀恶念者慌乱地闯入而前来。

2.68.21

विशालराज्ञो दुहितां मम पित्रा वृतां सतीम् ।
अनेन कृत्वा सन्धानं करूशेन जिगीषया ॥ २.६८.२१ ॥

毗舍罗王的贞洁之女,为我父亲所选,此人为求胜利,与迦卢沙结盟后将其掳走。

2.68.22

जरासन्धं समाश्रित्य कृतवान्विप्रियाणि मे ।
तानि सर्वाणि सङ्ख्यातुं न शक्नोमि नराधिपाः ॥ २.६८.२२ ॥

此人依附于补罗桑陀,对我做了许多不快之事。众王啊,我无法将它们一一数尽。

2.68.23

एवमेतदपर्यन्तमेष वृष्णिषु किल्बिषी ।
अस्माकमयमारम्भांश्चकार परभानृजुः ॥ २.६८.२३ ॥

如此,此人在毗利瑟尼族中是无尽的罪人。他对我们发动了这些行动,对敌人径直无疑。

2.68.24

शतं क्षन्तव्यमस्माभिर्वधार्हाणां किलागसाम् ।
बद्धोऽस्मि समयैर्घोरैर्मातुरस्यैव सङ्गरे ॥ २.६८.२४ ॥

对于应当处死的一百种过错,我们也应当宽恕。我在舅舅的战斗中受可怕誓言所约束。

2.68.25

तत्तथा शतमस्माकं क्षान्तं क्षयकरं मया ।
द्वौ तु मे वधकालेऽस्मिन्न क्षन्तव्यौ कथञ्चन ॥ २.६८.२५ ॥

我已宽恕了那一百项招致毁灭的过错。但在此杀戮之时,有两项过错我无论如何也不能宽恕。

2.68.26

यज्ञविघ्नकरं हन्यां पाण्डवानां च दुर्हृदम् ।
इति मे वर्तते भावस्तमतीयां कथं न्वहम् ॥ २.६८.२६ ॥

我心中所想是:应当杀死那妨碍祭祀、又是般度之子仇敌的人。那么我怎能放过他呢?

2.68.27

पितृष्वसुः कृते दुःखं सुमहन्मर्षयाम्यहम् ।
दिष्ट्या हीदं सर्वराज्ञां सन्निधावद्य वर्तते ॥ २.६८.२७ ॥

为了父亲的姐妹,我忍受着这极大的痛苦。幸运的是,今天这一切正在所有国王的面前发生。

2.68.28

पश्यन्ति हि भवन्तोऽद्य मय्यतीव व्यतिक्रमम् ।
कृतानि तु परोक्षं मे यानि तानि निबोधत ॥ २.६८.२८ ॥

你们今天看到我有极大的过失。但也请知道那些在我背后对我所做的过错。

2.68.29

इमं त्वस्य न शक्ष्यामि क्षन्तुमद्य व्यतिक्रमम् ।
अवलेपाद्वधार्हस्य समग्रे राजमण्डले ॥ २.६८.२९ ॥

但他这因傲慢而犯、理应处死的过错,我今天在整个王众面前无法宽恕。

2.68.30

रुक्मिण्यामस्य मूढस्य प्रार्थनाऽऽसीन्मुमूर्षतः ।
न च तां प्राप्तवान्मूढः शूद्रो वेदश्रुतीमिव ॥ २.६८.३० ॥

这个愚人曾为鲁克弥尼而请求,那时他已临近死亡。但这愚人未能得到她,正如首陀罗不能得到吠陀的启示。

2.68.31

एवमादि ततः सर्वे सहितास्ते नराधिपाः ।
गर्हणं शिशुपालस्य वासुदेवेन विश्रुतः ॥ २.६८.३१ ॥

当婆苏提婆宣布了对湿舍波罗的谴责之后,聚集在此的所有国王也都开始这样议论起来。

2.68.32

वासुदेववचः श्रुत्वा चेदिराजं व्यगर्हयन् ।
रथोपस्थे धनुष्मन्तं शरान्सन्दधतं रुषा ॥ २.६८.३२ ॥

众人听了婆苏提婆的话,便责备那位车奇国王;他坐在战车上,手持弓,愤怒地搭箭。

2.68.33

श्रुत्वाऽपि च विलोक्याशु दुद्रुवुः सर्वपार्थिवाः ।
विहाय परमोद्विग्नाश्चेदिराजं चमूमुखे ॥ २.६८.३३ ॥

众王听到并看到此事,极为惊恐,纷纷丢下车奇国王,在军阵前列之处迅速逃散。

2.68.34

तस्य तद्वचनं श्रुत्वा शिशुपालः प्रतापवान् ।
जहास स्वनवद्धासं वाक्यं चेदमुवाच ह ॥ २.६८.३४ ॥

湿舍波罗听到他的话,发出响亮的笑声,于是说出了这番话。

2.68.35

मत्पूर्वां रुक्मिणीं कृष्ण संसत्सु परिकीर्तयन् ।
विशेषतः पार्थिवेषु व्रीडां न कुरुषे कथम् ॥ २.६८.३५ ॥

克里希那啊,你在集会中、尤其是在诸王面前,赞颂原本属于我的罗克弥尼,怎么竟不感到羞耻?

2.68.36

मन्यमानो हि कः सत्सु पुरुषः परिकीर्तयेत् ।
अन्यपूर्वा स्त्रियं जातु त्वदन्यो मधूसूदन ॥ २.६८.३६ ॥

摩图苏陀那啊,除了你,还有哪个男子会在善人的集会上,赞颂一个曾属于别人的女子?

2.68.37

क्षमा वा यदि ते श्रद्धा मा वा कृष्ण मम क्षम ।
क्रुद्धाद्वापि प्रसन्नाद्वा किं मे त्वत्तो भविष्यते ॥ २.६८.३७ ॥

克里希那啊,你若有宽恕或信心,便饶恕我;若无,便不要饶恕。无论是出于愤怒还是欢喜,我从你那里又能得到什么呢?

2.68.38

स तांस्तु विद्रुतान्सर्वान्साश्वपत्तिरथद्विपान् ।
कृष्णतेजोहतान्सर्वान्समीक्ष्य वसुधाधिपान् ॥ २.६८.३८ ॥

他看见那些逃散的诸王,连同骑兵、步兵、战车与象军,都被克里希那的光辉击倒。

2.68.39

शिशुपालो रथेनैकः प्रत्युपायात्स केशवम् ।
रुषा ताम्रेक्षणो राजञ्छलभः पावकं यथा ॥ २.६८.३९ ॥

大王啊,失主,独自乘车,怒目通红,向羯舍婆(克里希那)前进,如飞蛾扑火。