摩诃婆罗多 · 章 2.7
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.7.1
नारद उवाच ।
शक्रस्य तु सभा दिव्या भास्वरा कर्मनिर्मिता।
स्वयं शक्रेण कौरव्य निर्जितार्कसमप्रभा ॥ २.७.१ ॥
那罗陀说:因陀罗的那座神圣而光辉的大殿是以业力所造。考羅婆啊,因陀罗亲自建造了它;其光辉可与太阳相媲美。
2.7.2
विस्तीर्णा योजनशतं शतमध्यर्धमायता ।
वैहायसी कामगमा पञ्चयोजनमुच्छ्रिता। ॥ २.७.२ ॥
它宽一百由旬,长一百五十由旬。它在空中飞行,随意前往,高五由旬。
2.7.3
जराशोकक्लमापेता निरातङ्का शिवा शुभा ।
वेश्मासनवती रम्या दिव्यपादपशोभिता ॥ २.७.३ ॥
远离衰老、忧愁与疲倦,无所惧怕,吉祥美好,备有居所与座位,令人喜悦,以神树为饰。
2.7.4
तस्यां देवेश्वरः पार्थ सभायां परमासने ।
आस्ते शच्या महेन्द्राण्या श्रिया लक्ष्म्या च भारत। ॥ २.७.४ ॥
在那个集会中,阿周那啊,诸神之主坐于至尊的座位上,与因陀罗之妻舍知、吉祥天(室利)和拉克什米同在,婆罗多啊。
2.7.5
बिभ्रद्वपुरनिर्देश्यं किरीटी लोहिताङ्गदः ।
विरजोम्बरश्चित्रमाल्यो ह्रीकीर्तिद्युतिभिः सह ॥ २.७.५ ॥
身具不可名状之形,戴冠,臂饰赤色,衣着纯净,佩戴繁多花鬘,与羞、名声与光辉同在。
2.7.6
तस्यामुपासते नित्यं महात्मानं शतक्रतुम् ।
मरुतः सर्वशो राजन्सर्वे च गृहमेधिनः ॥ २.७.६ ॥
在那个集会中,大王啊,诸位摩如多与所有居家祭祀者,常常侍奉那位大德的百祭主(因陀罗)。
2.7.7
सिद्धा देवर्षयश्चैव साध्या देवगणास्तथा ।
मरुत्त्वन्तश्च सहिता भास्वन्तो हेममालिनः ॥ २.७.७ ॥
成就者与天界仙人,萨提亚神众与诸神群,与摩录多神众共聚,光辉灿烂、佩戴金色花环者。
2.7.8
एते सानुचराः सर्वे दिव्यरूपाः स्वलङ्कृताः ।
उपासते महात्मान देवराजमरिन्दमम् ॥ २.७.८ ॥
这些随从者皆具天神之形、饰以华美,恭敬侍奉大德的诸神之王、降伏敌人的因陀罗。
2.7.9
तथा देवर्षयः सर्वे पार्ते शक्रमुपासते ।
अमला धूतपाप्मानो दीप्यमाना इवाग्नयः ॥ २.७.९ ॥
同样,诸天仙人皆……侍奉帝释,清净无染,抖落罪业,如火般光明。
2.7.10
तेजस्विनः सोमसुतो विशोका विगतज्वराः ।
पराशरः पर्वतश्च तथा सावर्णिगालवौ ॥ २.७.१० ॥
光辉的月神之子,无忧无热;波罗舍罗、波尔瓦塔、萨瓦尔尼与伽罗婆。
2.7.11
एकतश्च द्वितश्चैव त्रितश्चैव महामतिः ।
शङ्खश्च लिखितश्चैव तथा गौरशिरा मुनिः।
दुर्वासाः क्रोधनः श्येनस्तथा दीर्घतमा मुनिः ॥ २.७.११ ॥
一嚫、二嚫,大智的三嚫;螺、书写者,及牟尼高头;易怒的杜尔婆沙、鹰(Śyena),及牟尼长暗。
2.7.12
पवित्रपाणिः सावर्णिर्याज्ञवल्क्योऽथ भालुकिः ।
उद्दालकः श्वेतकेतुस्ताण्डो भाण्डायनिस्तथा ॥ २.७.१२ ॥
手持清净的萨瓦尔尼、耶若婆佉、跋卢枳;优陀迦、白优陀迦、檀多与婆檀陀耶尼亦在其中。
2.7.13
हविष्मांश्च गरिष्ठश्च हरिश्चन्द्रश्च पार्थिवः ।
हृद्यश्चोदरशाण्डिल्यः पाराशर्यः कृषीवलः ॥ २.७.१३ ॥
哈维什曼、伽里什塔、国王诃利施昌陀罗、赫利底耶、乌达罗尚陀利耶、波罗奢罗之子以及克里湿伐罗,
2.7.14
वातस्कन्धो विशाखश्च विधाता काल एव च ।
करालदन्तस्त्वष्टा च विश्वकर्मा च तुम्बुरुः ॥ २.७.१४ ॥
风肩、毗舍佉、毗陀多、时、迦罗陀陀、特瓦湿多、毗首羯摩与坦布鲁,
2.7.15
अयोनिजा योनिजाश्च वायुभक्षा हुताशिनः ।
ईशानं सर्वलोकस्य वज्रिणं समुपासते ॥ २.७.१५ ॥
无胎而生者与胎生者,食风者与献火者,都崇拜统领一切世界、执金刚杵的主宰。
2.7.16
सहदेवः सुनीथश्च वाल्मीकिश्च महातपाः ।
समीकः सत्यवाक्चैव प्रचेताः सत्यसङ्गरः ॥ २.७.१६ ॥
萨诃提婆、苏尼陀、大苦行者蚁垤、三弥迦、诚语者、普拉车塔斯与守诚者,
2.7.17
मेधातिथिर्वामदेवः पुलस्त्यः पुलहः क्रतुः ।
मरुत्तश्च मरीचिश्च स्थाणुश्चात्र महातपाः ॥ २.७.१७ ॥
梅达提提、伐摩提婆、补罗斯提耶、补罗诃、羯都、摩录多、摩利制,以及此处的大苦行者斯塔奴,
2.7.18
कक्षीवान्गौतमस्तार्क्ष्यस्तथा वैश्वानरो मुनिः ।
मुनिः कालकवृक्षीय आश्राव्योऽथ हिरण्मयः ॥ २.७.१८ ॥
迦刹瓦、乔达摩、塔尔刹、圣者毗首婆那罗、圣者迦罗迦伐利叉耶、阿室罗婆耶与金色者,
2.7.19
संवर्तो देवहव्यश्च विष्वक्सेनश्च वीर्यवान् ।
दिव्या आपस्तथौषध्यः श्रद्धा मेधा सरस्वती ॥ २.७.१९ ॥
娑姆婆多、天祭、大力的毗什瓦克色纳、神圣之水、草药、信、慧与萨罗室伐底。
2.7.20
अर्थो धर्मश्च कामश्च विद्युतश्चैव पाण्डव ।
जलवाहास्तथा मेघा वायवः स्तनयित्नवः ॥ २.७.२० ॥
财、法与欲,以及闪电,啊般度子;载水之云、风,以及雷鸣之云。
2.7.21
प्राचीदिग्यज्ञवाहाश्च पावकाः सप्तविंशतिः ।
अग्नीषोमौ तथेन्द्राग्नी मित्रश्च सविताऽर्यमा ॥ २.७.२१ ॥
东方的祭祀承载者与二十七火;阿耆尼-苏摩、因陀罗-阿耆尼、密多罗、萨维特里与阿利耶曼。
2.7.22
भगो विश्वे साध्याश्च गुरुः शुक्रस्तथैव च ।
विश्वावसुश्चित्रसेनः सुमनस्तरुणस्तथा ॥ २.७.२२ ॥
薄伽、诸大神与萨陀耶、伽噜与轮达罗,以及毗首婆苏、质多罗犀那、苏摩那与多罗那。
2.7.23
यज्ञाश्च दक्षिणाश्चैवं ग्रहास्तोभाश्च भारत ।
यज्ञवाहाश्च ये मन्त्राः सर्वे तत्र समासते ॥ २.७.२३ ॥
祭祀与祭礼布施,同样还有星辰与赞歌,啊婆罗多;所有承载祭祀的咒语都居于那里。
2.7.24
तथैवाप्सरसो राजन् रम्भोर्वश्यथ मेनका ।
घृताची पञ्चचूडा च विप्रचित्तिपुरोगमाः ॥ २.७.२४ ॥
同样还有天女,啊王:兰跋、优哩婆湿、梅那伽、乔利陀奇、般遮owā,以及以毗婆质多为首者。
2.7.25
विद्याधराश्च राजेन्द्र गन्धर्वाश्च मनोरमाः ।
नृत्यवादित्रगीतैश्च हास्यैश्च विविधैरपि ॥ २.७.२५ ॥
王中之王啊!持明者与迷人的乾闼婆,以舞蹈、乐器、歌唱,也以种种笑语,
2.7.26
रमयन्ति स्म नृपते देवराजं शतक्रतुम् ।
स्तुतिभिर्मङ्गलैश्चैव वस्तुवन्तः कर्मभिस्तथा ॥ २.७.२६ ॥
君王啊,他们以赞颂与吉祥之语,以及称颂他的功业,使百祭之主、众神之王因陀罗欢喜。
2.7.27
विक्रमैश्च महात्मानं बलवृत्रनिषूदनम् ।
ब्रह्मराजर्षयश्चैव सर्वे देवर्षयस्तथा ॥ २.७.२७ ॥
以英勇之功,他们也使伟大的因陀罗欢喜——他是击败波罗与弗栗多的主宰;婆罗门仙人、王仙与诸天仙亦然。
2.7.28
विमानैर्विविधैर्दिव्यैर्दीप्यमाना इवाग्नयः ।
स्रग्विणो भूषिताः सर्वे यान्ति चायान्ति चापरे ॥ २.७.२८ ॥
他们乘坐种种天界神车,光耀如火,佩戴花鬘,装饰庄严,有的前往,有的来到,其他人亦然。
2.7.29
बृहस्पतिश्च शुक्रश्च नित्यमास्तां हि तत्र वै ।
एते चान्ये च बहवो महात्मानो यतव्रताः ॥ २.७.२९ ॥
木星仙人与金星仙人常驻于彼;他们与其他许多持守誓愿的伟大灵魂也在那里。
2.7.30
विमानैश्चन्द्रसङ्काशैः सोमवत्प्रियदर्शनाः ।
ब्रह्मणो वचनाद्राजन्भृगुः सप्तर्षयस्तथा ॥ २.७.३० ॥
乘坐如月般的天车,容貌如苏摩般可爱。王啊,应梵天之命,婆利古与七仙人亦然。
2.7.31
एषा सभा मया राजन्दृष्टा पुष्करमालिनी ।
शतक्रतोर्महाबाहो याम्यामपि सभां शृणु ॥ २.७.३१ ॥
国王啊,我已见过这座名为普什卡拉马利尼的议会大厅。大臂者啊,现在也请听听阎摩的议会大厅。