Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.70

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.70.1

ततो विष्फारयन्राजा महच्चैदिपतिर्धनुः ।
अभियास्यन्हृषीकेशमुवाच मधुसूदनम् ॥ २.७०.१ ॥

于是,至上之王(Caidya)拉开他的大弓,准备攻击Hṛṣīkeśa(克利须那),对Madhusūdana说道。

2.70.2

एकस्त्वमसि मे शत्रुस्तत्त्वां हत्वाऽद्य माधव ।
ततः सागरपर्यन्तां पालयिष्यामि मेदिनीम् ॥ २.७०.२ ॥

你是我唯一的敌人。摩达婆啊,今日杀了你之后,我将守护这被大海环绕的大地。

2.70.3

द्वैरथं काङ्क्षितं यद्वै तदिदं पर्युपस्थितम् ।
चिरस्य वत मे दिष्ट्या वासुदेव सह त्वया।
अद्य त्वां निहनिष्यामि भीष्मं च सह पाण्डवैः ॥ २.७०.३ ॥

我期盼已久的单独决战now来到了眼前。瓦苏提婆啊,幸运的是,今日我要杀死你,连同毗湿摩和般度诸子。

2.70.4

एवमुक्त्वा स तं बाणैर्निशितैरत्ततेजनैः ।
विव्याध युधि तीक्ष्णाग्रैश्चेदिराड्यपुङ्गवम् ॥ २.७०.४ ॥

说完这些话,他在战场上用锋利、磨快、尖端锐利的箭射穿了那位人中之最。

2.70.5

कङ्कपत्रच्छदा बाणाश्चेदिराजधनुश्च्युताः ।
विविशुस्ते तदा कृष्णं भुजङ्गा इव पर्वतम् ॥ २.७०.५ ॥

那些以鹭羽装饰、从至上之王的弓中射出的箭,那时便射入克利须那之中,犹如蛇钻入山岩。

2.70.6

नाददानस्य चैद्यस्य शरानत्यस्यतोपि वा ।
दधृशुर्विवरं केचिद्गतिं वायोरिवाम्बरे ॥ २.७०.६ ॥

那至上之王不断取箭射出,然而有些人竟看不出其中有任何空隙,正如风在天空中的行踪无法看见。

2.70.7

चेदिराजमहामेधः शरजालाम्बुमांस्तदा ।
अभ्यवर्षद्धृषीकेशं पयोद इव पर्वतम् ॥ २.७०.७ ॥

那时,遍势之王如大云,满载箭网之水,向感官之主克里希那倾泻,如雨云倾注于山岳。

2.70.8

ततः शार्ङ्गममित्रघ्नः कृत्वा सशरमच्युतः ।
आबभाषे महबाहुः सुनीथं परवीरहा ॥ २.७०.८ ॥

于是,灭敌者、大臂者、杀敌英雄的阿周那之主阿义秃拿起他的弓沙尔迦,搭上箭,对苏尼陀说话。

2.70.9

अयं त्वं भामकस्तीक्ष्णश्चेदिराज महाशरः ।
भेत्तुमर्हति वेगेन महाशनिरिवाचलम् ॥ २.७०.९ ॥

遍势之王啊,这是你的箭,锋利的大箭婆摩迦;它能以力量穿透,如大雷霆劈开山岳。

2.70.10

एवं ब्रुवति गोविन्दे ततश्चेदिपतिः पुनः ।
मुमोच निशितानन्यान्कृष्णं प्रति शरान्बहून् ॥ २.७०.१० ॥

当瞿毗陀如此说时,遍势之主又向克里希那射出许多其他锋利的箭。

2.70.11

अथ बाणार्दितः कृष्णः शार्ङ्गमायम्य दीप्तिमान् ।
मोच निशितान्बाणाञ्छतशोथ सहस्रशः ॥ २.७०.११ ॥

于是,被箭所困扰的光辉的克里希那拉开沙尔迦弓,射出成百上千支锋利的箭。

2.70.12

ताञ्छरांस्तु स चिच्छेद शरवर्षैस्तु चेदिराट् ।
षड्भिश्चान्यैर्जघानाशु केशवं चेदिपुङ्गवः ॥ २.७०.१२ ॥

然而遍势之王以箭雨斩断了那些箭,而遍势中的勇士立即以六支及其他箭射中了克舍婆。

2.70.13

ततोऽस्रं सहसा कृष्णः प्रमुमोच जगद्गुरुः ।
अस्त्रेण तन्महाबाहुर्वारयामास चेदिराट् ॥ २.७०.१३ ॥

于是世界之师克里希那忽然射出一件武器,大臂的脏者之王以自己的武器将其挡下。

2.70.14

ततः शतसहस्रेण शराणां नतपर्वणाम् ।
सर्वतः समवाकीर्य शौरिं दामोदरं तदा ॥ २.७०.१४ ॥

于是他以十万支弯曲节部的箭从四面八方覆盖了肖里·达摩达罗。

2.70.15

ननाद बलवान्क्रुद्धः शिशुपालः प्रतापवान् ।
इदं चोवाच संरब्धः केशवं परवीरहा ॥ २.७०.१५ ॥

强大、愤怒而勇猛的希舒波罗大吼一声;怒火满胸的这位杀敌英雄对柯舍婆说道。

2.70.16

अद्याङ्गं मामका बाणा भेत्स्यन्ति तव संयुगे ।
हत्वा त्वां समुतामात्यं पाण्डवांश्च तरस्विनः ॥ २.७०.१६ ॥

今日我的箭将在战场上穿透你的每一肢体;我将杀死你和你的大臣,以及迅捷的般度子孙。

2.70.17

अनृण्यमद्यय यास्यामि जरासन्धस्य धीमतः ।
कंसस्य केशिनश्चैव नरकस्य तथैव ह ॥ २.७०.१७ ॥

今日我将还清对智者耆罗三达、羯沙、鸡舍因以及那罗迦的债务。

2.70.18

इत्युक्त्वा क्रोधताम्राक्षः शिशुपालो जनार्दनम् ।
अदृश्यं शरवर्षेण सर्वतः स चकार ह ॥ २.७०.१८ ॥

说完这些,怒目通红的希舒波罗以箭雨从四面八方使阇那达那隐没不见。

2.70.19

ततोऽस्त्रेणैव चान्योन्यं निकृत्य च शरान्बहून् ।
शरवर्षैस्तदा चैद्यमन्तर्धातुं प्रचक्रमे ॥ २.७०.१९ ॥

于是二人以兵器彼此斩断许多箭,那时,茶底(希舒柏罗)以箭雨开始隐匿自身。

2.70.20

अन्तर्धानगतौ वीरौ शुशुभाते महारथौ ।
तौ दृष्ट्वा सर्वभूतानि साधुसाध्वित्यपूजयन् ॥ २.७०.२० ॥

隐没而去的那两位英雄、大战车武士闪耀着光辉;众生见到他们,皆赞叹道:“善哉,善哉!”

2.70.21

न दृष्टपूर्वमस्माभिर्युद्धमीदृशकं पुरा ।
ततः कृष्णं जघानाशु शुशुपालस्त्रिभिः शरैः ॥ २.७०.२१ ॥

这样的战斗我们从未见过。于是希舒柏罗迅速以三支箭射中黑天。

2.70.22

कृष्णोऽपि बाणैर्विव्याध सुनीथं पञ्चभिर्युधि ।
ततः सुनीथं सप्तत्या नाराचैर्दयद्बली। ॥ २.७०.२२ ॥

黑天也在战斗中以五支箭射中了须尼陀。然后那强者以七十支铁箭刺穿了须尼陀。

2.70.23

ततोऽतिविद्धः कृष्णेन सुनीथः क्रोधमूर्छितः ।
विव्याध निशितैर्बाणैर्वासुदेवं स्तनान्तरे ॥ २.७०.२३ ॥

于是须尼陀被黑天重创,怒火攻心而昏乱,以锐利的箭射中婆苏提婆(黑天)的胸膛中央。

2.70.24

पुनः कृष्णं त्रिभिर्विद्ध्वा ननादावसरे नृपः ।
तोऽतिदारुणं युद्धं सहसा चक्रतुस्तदा ॥ २.७०.२४ ॥

国王又在恰当的时机以三支箭射中黑天,并发出吼声;于是二人忽然展开了极为可怖的战斗。

2.70.25

नौ नखैरिव शार्दूलौ दन्तैरिव महागजौ ।
दंष्ट्राभिरिव पञ्चास्यौ चरणैरिव कुक्कुटौ ॥ २.७०.२५ ॥

如同两只老虎以爪相搏,两头大象以牙相斗,两头狮子以齿相咬,两只公鸡以足相战,

2.70.26

दारयेतां शरैस्तीक्ष्णैरन्योन्यं युधि तावुभौ ।
ततो मुमुचतुः क्रुद्धौ शरवर्षमनुत्तमम् ॥ २.७०.२६ ॥

二人在战中以利箭相互穿刺,继而怒火中烧,同时射出无与伦比的箭雨。

2.70.27

शरैरेव शराञ्छित्वा तावुभौ पुरुषर्षभौ ।
चक्रातेऽस्त्रमयं युद्धं घोरं तदतिमानुषम् ॥ २.७०.२७ ॥

二位人中雄牛以箭斩箭,展开了充满神兵的、可怖的、超凡的战斗。

2.70.28

आग्नेयमस्त्रं मुमुचे शिशुपालः प्रतापवान् ।
वारुणास्त्रेण तच्छ्रीघ्रं नाशयामास केशवः ॥ २.७०.२८ ॥

威猛的始舒波罗放出火神之箭,克舍婆立即以水神之箭将其摧毁。

2.70.29

कौबेरमस्त्रं सहसा चेदिराट् प्रमुमोच ह ।
रणैव सहसाऽनाशयत्तं जगत्प्रभुः ॥ २.७०.२९ ॥

车底王突然放出俱毗罗之箭,世界之主当即在战中将其摧毁。

2.70.30

याम्यमस्त्रं ततः क्रुद्धो मुमुचे कालमोहितः ।
याम्येनैवास्त्रयोगेन याम्यमस्त्रं व्यनाशयत् ॥ २.७०.३० ॥

于是,他愤怒且为时间所迷,放出阎摩之箭;而以阎摩之箭的运用,将那阎摩之箭摧毁。

2.70.31

गान्धर्वेण च गान्धर्वं मानवं मानवेन च ।
वायव्येन च वायव्यं रौद्रं रौद्रेण चाभिभूः ॥ २.७०.३१ ॥

他以乾闥婆之箭对乾闥婆之箭,以摩奴之箭对摩奴之箭,以风神之箭对风神之箭,以猛烈之箭对猛烈之箭——那征服者。

2.70.32

ऐन्द्रमैन्द्रेण भगवान्वैष्णवेन च वैष्णवम् ।
एवमस्त्राणि कुर्वाणौ युयुधाते महाबलौ ॥ २.७०.३२ ॥

世尊以因陀罗之箭对因陀罗之箭,以毗湿奴之箭对毗湿奴之箭;如此二位大力者施展神箭而战。

2.70.33

ततो मायां विकुर्वाणो दमगोषसुतो बली ।
गदामुसलसंयुक्ताञ्छक्तितोमरसायकान् ॥ २.७०.३३ ॥

此时,施展幻术的达摩豁沙之强子,射出了棍棒与铁杵、长矛、投枪与箭矢。

2.70.34

परश्वथमुसण्डीश्च ववर्ष युधि केशवम् ।
अमोघास्त्रेण भगवान्नाशयामास केशिहा ॥ २.७०.३४ ॥

战中他向毗湿奴(Keśava)如雨般射出斧与铁锤;然而杀死鬼王Keśin的世尊以不败之箭将其摧毁。

2.70.35

शिलावर्षं महाघोरं ववर्ष युधि चेदिराट् ।
वज्रास्त्रेणाभिसङ्क्रुद्धश्चूर्णं तदकरोत्प्रभुः ॥ २.७०.३५ ॥

战中,遮提国王降下极其可怖的石雨;主怒不可遏,以金刚之箭将其碾为齑粉。

2.70.36

जलवर्षं ततो घोरं व्यस़जच्चेदिपुङ्गवः ।
वायव्यास्त्रेण भगवान्व्याक्षिपच्छतशो हि तत् ॥ २.७०.३६ ॥

此时,遮提人中之最强者降下可怖的水雨;世尊以风神之箭将其吹散成百道。

2.70.37

निहत्य सर्वमायां वै सुनीतस्य जनार्दनः ।
स मुहूर्तं चकाराशु द्वन्द्वयुद्धं महारथः ॥ २.७०.३७ ॥

耶罗摩那 (Janārdana) 毁灭了苏尼塔的全部幻术,立刻以大战车武士的身份与之单打独斗片刻。

2.70.38

स बाणयुद्धं कुर्वाणो भर्त्सयामास चेदिराट् ।
दमघोषसुतो धृष्टमुवाच यदुपुङ्गवम् ॥ २.७०.३८ ॥

正在进行箭战的遮底王(达摩多舍之子)辱骂雅度族的最优者,并无礼地说道。

2.70.39

अद्य कृष्णमकृष्णं तु कुर्वन्तु मम सायकाः ।
इत्येवमुक्त्वा दुष्टात्मा शरवर्षं जनार्दने ॥ २.७०.३९ ॥

他说:“愿我的箭今天让黑天不再是黑天。”说完,这恶念之人向耶罗摩那倾泻了箭雨。

2.70.40

मुमोच पुरुषव्याघ्रो घोरं वै चेदिपुङ्गवः ।
शरसंङ्कृत्तगात्रस्तु क्षणेन यदुनन्दनः ॥ २.७०.४० ॥

那位人中猛虎、遮底族的最优者射出猛烈的箭;然而雅度族之喜的身体瞬间便被箭矢穿透。

2.70.41

रुधिरं परिसुस्राव मदं मत्त इव द्विपः ।
न यन्ता न रथो वापि न चाश्वाः पर्वतोपमाः ॥ २.७०.४१ ॥

鲜血如同发狂的发情大象一般涌出;既不见御者,也不见战车,更不见如山的骏马。

2.70.42

दृश्यन्ते शरसञ्छन्नाः केशवस्य महात्मनः ।
केशवं तदवस्थं तु दृष्ट्वा भूतानि चक्रुशुः ॥ २.७०.४२ ॥

可见大心的克沙婆被箭矢覆盖;众生见到克沙婆处于那种状态,都发出哀号。

2.70.43

दारुकस्तु तदा प्राह कृष्णं यादवनन्दनम् ।
नेदृशो दृष्टपूर्वो हि सङ्ग्रामो वै पुरा मया ॥ २.७०.४३ ॥

于是达鲁迦对克里希那(耶达瓦之喜)说:"我以前从未见过如此的战斗。"

2.70.44

स्थातव्यमिति तिष्ठामि त्वत्प्रभावेण माधव ।
अन्यथा न च मे प्राणा धरायेयुर्जनार्दन ॥ २.७०.४४ ॥

"我必须坚定站立,凭借你的威力,哦摩陀婆;否则,哦遮那陀那,我的生命之气不会留在体内。"

2.70.45

अतः सञ्चिन्त्य गोविन्द क्षिप्रमस्य वधं कुरु ।
एवमुक्तस्तु सूतेन केशवो वाक्यमब्रवीत् ॥ २.७०.४५ ॥

"因此,哦哥文达,考虑之后,迅速让他死去吧。" 御者这样说后,克沙娃说出了这些话。

2.70.46

एष ह्यतिबलो दैत्यो हिरण्यकशिपुः पुरा ।
रिपुः सुराणामभवद्वरदानेन गर्वितः ॥ २.७०.४६ ॥

"这位极其强大的阿修罗希兰亚迦希普,昔日因得到恩赐而骄傲,成为众神的敌人。"

2.70.47

तथाऽऽसीद्रावणो नाम राक्षसो ह्यतिवीर्यवान् ।
तेनैव बलवीर्येण बलं नागणयन्मम ॥ २.७०.४७ ॥

"同样有一位名叫罗波那的罗刹,极其勇猛,他凭借自己的力量与勇气,不把我的力量放在眼里。"

2.70.48

अहं मृत्युश्च भविता काले काले दुरात्मनः ।
न भेतव्यं तथा सूत नैष कश्चिन्मयि स्थिते ॥ २.७०.४८ ॥

"我将在各个时代成为恶人的死亡。所以,哦御者,不要害怕;只要我在此,无人能伤害你。"

2.70.49

इत्येवमुक्त्वा भगवान्ननर्द गरुडध्वजः ।
पाञ्चजन्यं महाशङ्खं पूरयामास केशवः ॥ २.७०.४९ ॥

言毕,持迦楼罗旗的世尊怒吼;克沙婆吹响大螺“般遮迦尼亚”。

2.70.50

संमोहयित्वा भगवांश्चक्रं दिव्यं समाददे ।
चिच्छेद च सुनीथस्य शिरश्चक्रेण संयुगे ॥ २.७०.५० ॥

世尊迷惑了他,持起神圣的轮宝,在战斗中以轮宝斩下了苏尼塔的头颅。

2.70.51

स पपात महाबाहुर्वज्राहत इवाचलः ।
ततश्चेदिपतेर्देहात्तेजोऽग्र्यं ददृशुर्नृपाः ॥ २.७०.५१ ॥

这位大臂者如被雷霆击中的山峰般倒下;随后诸王看见切狄之主的身体中升起至上的光辉。

2.70.52

उत्पतन्तं महाराज गगनादिव भास्करम् ।
ततः कमलपत्राक्षं कृष्णं लोकनमस्कृतम्।
ववन्दे तत्तदा तेजो विवेश च नराधिप ॥ २.७०.५२ ॥

大王啊,那光辉如同从天空升起的太阳般升腾而起;然后它向拥有莲花瓣般眼睛、为世界所敬礼的克里希那致敬,进入了他的体内,人主啊。

2.70.53

तदद्भुतममन्यन्त दृष्ट्वा सर्वे महीक्षितः ।
यद्विवेश महाबाहुं तत्तेजः पुरुषोत्तमम् ॥ २.७०.५३ ॥

众王看见那光辉进入大臂的人中至尊之身,都认为这是奇异之事。

2.70.54

अनभ्रे प्रववर्ष द्यौः पपात ज्वलिताशनिः ।
कृष्णेन निहते चैद्ये चचाल न वसुन्धरा ॥ २.७०.५४ ॥

无云的天空降下雨来,燃烧的雷电坠落;然而当赤迪被克里希那杀死时,大地却没有震动。

2.70.55

ततः केचिन्महीपाला नाब्रुवंस्तत्र किञ्चन ।
अतीतवाक्पथे काले प्रेक्षमाणा जनार्दनम् ॥ २.७०.५५ ॥

那时,一些国王在那里一句话也没说,时机已超出言语所及,他们只是注视着遮那陀那(Janārdana)。

2.70.56

हस्तैर्हस्ताग्रमपरे प्रत्यपिंषन्नमर्षिताः ।
अपरे दशनैरोष्ठानदशन्क्रोधमूर्छिताः ॥ २.७०.५६ ॥

有人愤懑不平,以手指尖相互摩擦;另有人因愤怒而失神,用牙齿咬住自己的嘴唇。

2.70.57

रहश्च केचिद्वार्ष्णेयं प्रशशंसुर्नराधिपाः ।
केचिदेव सुसंरब्धा मध्यस्थास्त्वपरेऽभवन् ॥ २.७०.५७ ॥

有些国王私下赞扬了毗湿尼后裔克里希纳;有些人极为愤怒;另一些人则保持中立。

2.70.58

प्रहृष्टाः केशवं जग्मुः संस्तुवन्तो महर्षयः ।
ब्राह्मणाश्च महात्मानः पार्थिवाश्च महाबलाः।
शशंसुर्निर्वृताः सर्वे दृष्ट्वा कृष्णस्य विक्रमम् ॥ २.७०.५८ ॥

欢喜的大仙们前往遮那陀那,颂扬他;婆罗门、高尚之士与大力的国王,见到克里希纳的英勇,都心满意足地赞美他。

2.70.59

सदेवगन्धर्वगणा राजानो भुवि विश्रुताः ।
प्रणामं हि हृषीकेशे प्राकुर्वत महात्मनि ॥ २.७०.५९ ॥

与诸天神和乾闼婆众一道,大地上闻名的国王们向这位大德的希里喜凯莎致敬。

2.70.60

ये त्वासुरगणाः पक्षाः सम्भूताः क्षत्रिया इह ।
ते निन्दन्ति हृषीकेशं दुरात्मानो गतायुषः ॥ २.७०.६० ॥

然而,生于此地、站在阿修罗众一边的刹帝利们,心怀恶意且寿命将尽,正在诽谤希里喜凯莎。

2.70.61

प्रजापतिगणा ये तु मध्यस्थाश्च महात्मनि ।
ब्रह्मर्षयश्च सिद्धाश्च गन्धर्वोरगचारणाः ॥ २.७०.६१ ॥

那些生主的众神、近侍于大德者的梵仙、悉陀、乾闼婆、龙与持明。

2.70.62

ते वै स्तुवन्ति गोविन्दं दिव्यैर्मङ्गलसंयुतैः ।
परस्परं च नृत्यन्ति गीतेन विविधेन च।
उपतिष्ठन्ति गोविन्दं प्रीतियुक्ता महात्मनि ॥ २.७०.६२ ॥

他们以神圣吉祥之言赞颂哥频陀,彼此起舞,以种种歌声满怀喜悦地侍奉大德哥频陀。

2.70.63

प्रहृष्टाः केशवं जग्मुः संस्तुवन्तो महर्षयः ।
ब्राह्मणाश्चापि सुप्रीताः पाण्डवाश्च महाबलाः ॥ २.७०.६३ ॥

欢喜的大仙前往羯舍婆,赞颂不止;婆罗门也极其欢喜,威力强大的般度五子亦然。

2.70.64

पाण्डवस्त्वब्रवीद्भातॄन्सत्कारेण महीपतिम् ।
दमघोषात्मजं शूरं संस्कारयत मा चिरम् ॥ २.७०.६४ ॥

般度子(坚战)对兄弟们说:“以礼尊敬这位大地之主、达摩ghosha的英勇之子,立即为他举行灌顶礼,不要拖延。”

2.70.65

कुरुराजवचः श्रुत्वा भ्रातरस्ते त्वरान्विताः ।
तथा च कृतवन्तस्ते भ्रातुर्वै शासनं तदा ॥ २.७०.६५ ॥

诸弟听闻俱卢王之言,急忙行动,随即遵从兄长的命令而行。

2.70.66

चेदीनामाधिपत्ये च पुत्रं तस्याज्ञया हरेः ।
अभ्यषिञ्चत तं पार्थः सहितैर्वसुधाधिपैः ॥ २.७०.६६ ॥

依哈利(黑天)之命,帕尔塔(阿周那)与其他大地之主一道,为其子在遮提国的统治权举行灌顶。