摩诃婆罗多 · 章 2.73
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.73.1
अनुसंसार्य नृपतीन्पाण्डवाः पाण्डवाग्रजम् ।
अभिजग्मुर्महेष्वासा धर्मराजं युधिष्ठिरम् ॥ २.७३.१ ॥
般度之子们拜访了诸王之后,这些大弓箭手前往般度诸子的长兄、法王坚战那里。
2.73.2
सोऽनुमेने महाबाहुर्भातॄंश्च सुहृदस्तथा ।
शिष्यैः परिवृतो व्यासः पुरस्तात्समपद्यत ॥ २.७३.२ ॥
大臂者同意了兄弟和朋友们的意见;被弟子环绕的毗耶娑出现在他们面前。
2.73.3
सोऽभ्ययादासनात्तूर्णं भ्रातृभिः परिवारितः ।
पाद्येनासनदानेन पितामहमपूजयत् ॥ २.७३.३ ॥
他被兄弟们环绕,迅速从座位上起身走去,以洗足水和奉上座位礼敬祖父。
2.73.4
अथोपविश्य भगवान्काञ्चने परमासने ।
आस्यतामिति चोवाच धर्मराजं युधिष्ठिरम् ॥ २.७३.४ ॥
于是尊者坐在金制的最上座位上,对法王坚战说:“坐吧。”
2.73.5
अथोपविष्टं राजानं भ्रातृभिः परिवारितम् ।
उवाच भगवान्व्यासस्तत्तद्वाक्यविशारदः ॥ २.७३.५ ॥
于是精通各种言辞的尊者毗耶娑,对被兄弟们环绕而坐的国王说道。
2.73.6
दिष्ट्या वर्धसि कौन्तेय साम्राज्यं प्राप्य दुर्लभम् ।
वर्धिताः कुरवः सर्वे त्वया कुरुकुलोद्वह ॥ २.७३.६ ॥
“般度之子,你幸运地获得了难以获得的帝国而日益兴盛;库鲁族的支柱啊,所有库鲁人都因你而兴旺。”
2.73.7
आपृच्छे त्वां गमिष्यामि पूजितोऽस्मि विशाम्पते ।
एवमुक्तः स कृष्णेन धर्मराजो युधिष्ठिरः ॥ २.७३.७ ॥
“我向你告辞而去,我已受到尊敬,人民之主啊。”克里希纳如此说后,法王坚战……
2.73.8
अभिवाद्योपसङ्गृह्य पितामहमथाब्रवीत् ॥ २.७३.८ ॥
向祖父行礼并触其足后,他便说道。
2.73.9
संशयो द्विपदां श्रेष्ठ ममोत्पन्नः सुदुर्लभः ।
तस्य नान्योऽस्ति वक्ता वै त्वामृते द्विजपुङ्गव ॥ २.७३.९ ॥
“人中最优者啊,我心中生起了一个极难解决的疑惑。除你之外,无人能为我解说,再生者中的最优者啊。”
2.73.10
उत्पातांस्त्रिविधान्प्राह नारदो भगवानृषिः ।
दिव्यांश्चैवान्तरिक्षांश्च पार्थिवांश्च पितामह ॥ २.७३.१० ॥
“尊贵的仙人那罗陀说了三类凶兆:天上的、空中的和地上的,祖父啊。”
2.73.11
सुमहच्च फलं तेषां भवितेति न संशयः ।
अपि चैद्यस्य पतनाच्छान्तमौत्पातिकं महत् ॥ २.७३.११ ॥
“它们的结果无疑会非常巨大,这无可怀疑。然而,那大的凶兆已随着柴地耶(希舒补罗)的倒下而平息。”
2.73.12
राज्ञस्तु वचनं श्रुत्वा पराशरसुतः प्रभुः ।
कृष्णद्वैपायनो व्यास इदं वचनमब्रवीत् ॥ २.७३.१२ ॥
闻听国王之言,波罗奢之子、主者黑岛(毗耶娑)说出了这番话。
2.73.13
त्रयोदश समा राजन्नुत्पातानां फलं महत् ।
सर्वक्षत्रविनाशाय भविष्यति विशाम्पते ॥ २.७३.१३ ॥
大王啊,十三年间,这些凶兆的大果将会降临,人民之主啊,将导致所有刹帝利的毁灭。
2.73.14
त्वामेकं कारणं कृत्वा कालेन भरतर्षभ ।
समेतं पार्थिवं क्षत्रं क्षयं यास्यति भारत।
दुर्योधनापराधेन भीमार्जुनबलेन च ॥ २.७३.१४ ॥
婆罗多中的最优秀者啊,以你为唯一缘由,随着时间,婆罗多啊,聚集的王族刹帝利将因难敌之过,以及因怖军与阿周那之力而灭亡。
2.73.15
स्वप्नं द्रक्ष्यसि राजेन्द्र तस्मिन्काल उपस्थिते ।
तत्तेऽहं सम्प्रवक्ष्यामि तन्निबोध युधिष्ठिर ॥ २.७३.१५ ॥
王中之王啊,当那时到来,你将看到一个梦;我将完整地告诉你,坚战啊,请听。
2.73.16
यान्तं द्रक्ष्यसि राजेन्द्र क्षपान्ते त्वं वृषध्वजम् ।
नीलकण्ठं भवं स्थाणुं कपालिं त्रिपुरान्तकम् ॥ २.७३.१६ ॥
王中之王啊,夜尽之时你将看到那以牛为旗者离去——蓝喉者、婆婆、不动者、持颅者、三城毁灭者。
2.73.17
उग्रं रुद्रं पशुपतिं महादेवमुमापतिम् ।
हरं शर्वं वृषं शूलं पिनाकिं कृत्तिवाससम् ॥ २.७३.१७ ॥
猛烈的楼陀罗,众生之主,大天神,乌玛之主,夺取者,湿婆,公牛,持三叉戟者,持毗那迦弓者,身着象皮者。
2.73.18
कैलासकूडप्रतिमे वृषभेऽवस्थितं शिवम् ।
निरीक्षमाणं सततं पितृराजाश्रितां दिशम् ॥ २.७३.१८ ॥
湿婆坐在如同凯拉萨山峰的公牛之上,不断凝望由祖灵之王(南方)所庇护的方向。
2.73.19
एवमीदृशकं स्वप्नं द्रक्ष्यसि त्वं विशाम्पते ।
मा तत्कृते ह्यनुध्याहि कालो हि दुरतिक्रमः ॥ २.७३.१९ ॥
owl
2.73.20
स्वस्ति तेऽस्तु गमिष्यामि कैलासं पर्वतं प्रति ।
अप्रमत्तः स्थितो दान्तः पृथिवीं परिपालय ॥ २.७३.२० ॥
愿你平安。我将前往吉罗山。保持警觉、克制自己,守护大地。
2.73.21
एवमुक्त्वा स भगवान्कैलासं पर्वतं ययौ ।
कृष्णद्वैपायनो व्यासः सह शिष्यैः सहानुगैः ॥ २.७३.२१ ॥
说罢,尊贵的黑特·二岛生·毗耶娑与弟子和随从一同前往吉罗山。
2.73.22
गते पितामहे राजा चिन्ताशोकसमन्वितः ।
निः श्वसन्नुष्णमसकृत्तमेवार्थं विचिन्तयन् ॥ २.७३.२२ ॥
祖父离去后,国王充满忧虑与悲伤,屡屡发出灼热的叹息,反复思量此事。
2.73.23
कथं तु दैवं शक्येत पौरुषेण प्रबाधितुम् ।
अवश्यमेव भविता यदुक्तं परमर्षिणा ॥ २.७३.२३ ॥
命运岂能以人力阻挡?大仙所说的,必定会应验。
2.73.24
ततोऽब्रवीन्महातेजाः सर्वान्भ्रातॄन्युधिष्ठिरः ।
श्रुतं वै पुरुषव्याघ्रा यन्मां द्वैपायनोऽब्रवीत् ॥ २.७३.२४ ॥
于是,大光明的坚战对所有兄弟说:人中之虎啊,你们已经听到黑特·二岛生对我所说的话了。
2.73.25
तदा तद्वचनं श्रुत्वा मरणे निश्चिता मतिः ।
सर्वक्षत्रस्य निधने यद्यहं हेतुरीप्सितः ॥ २.७३.२५ ॥
闻此言后,他的心决意赴死:若我竟是使整个刹帝利种姓毁灭的所求之因。
2.73.26
कालेन निर्मितस्तात को ममार्थोऽस्ति जीवतः ।
एवं ब्रुवन्तं राजानं फाल्गुनः प्रत्यभाषत ॥ २.७३.२६ ॥
"亲爱的,我是被时间所造,活着又有何益?"国王如此说时,法尔古那(阿周那)回答道。
2.73.27
मा राजन्कश्मलं घोरं प्रविशो बुद्धिनाशनम् ।
सम्प्रधार्य महाराज यत्क्षमं तत्समाचर ॥ २.७३.२७ ॥
"国王啊,不要陷入这毁灭智慧的可怕迷惑。大王,请仔细思量,做该做的事。"
2.73.28
ततोऽब्रवीत्सत्यधृतिर्भ्रातॄन्सर्वान्युधिष्ठिरः ।
द्वैपायनस्य वचनं तत्रैव समचिन्तयत् ॥ २.७३.२८ ॥
于是,恪守真实的坚战对所有兄弟说道,并在那里思量了二岛仙(毗耶娑)的话。
2.73.29
अद्यप्रभृति भद्रं वः प्रतिज्ञां मे निबोधत ।
त्रयोदश समास्तात को ममार्थो ऽस्ति जीवतः ॥ २.७३.२९ ॥
"从今日起愿你们吉祥,请听我的誓言。亲爱的,活满十三年又有何益?"
2.73.30
न प्रवक्ष्यामि परुषं भ्रातॄनन्यांश्च पार्थिवान् ।
स्थितो निदेशे ज्ञातीनां योक्ष्ये तत्सुमुदाहरन् ॥ २.७३.३० ॥
"我不会对兄弟和其他国王说粗暴之言。我将遵从亲族的命令,只说好话,并如此行事。"
2.73.31
एवं मे वर्तमानस्य स्वसुतेऽष्वितरेषु च ।
भेदो न भविता लोके भेदमूलो हि विग्रहः ॥ २.७३.३१ ॥
如此行事,我的儿子与其他人之间在世间便不会有分裂,因为分裂是争斗的根源。
2.73.32
विग्रहं दूरतो रक्षन्प्रियाण्येव समाचरन् ।
वाच्यतां न गमिष्यामि लोकेषु मनुजर्षभाः ॥ २.७३.३२ ॥
我远离争斗,只做令人喜悦之事,在世人中不会受到指责,人中的雄牛们啊。
2.73.33
भ्रातृर्ज्येष्ठस्य वचनं पाण्डवाः संनिशम्य तत ।
तमेव समवर्तन्त धर्मराजहिते रताः ॥ २.७३.३३ ॥
般度五子仔细聆听了长兄的话,遵照而行,乐于促成法王的福祉。
2.73.34
संसत्सु समयं कृत्वा धर्मराड्भ्रातृभिः सह ।
पितॄंस्तर्प्य यथान्यायं देवताश्च विशाम्पते ॥ २.७३.३४ ॥
法王在议会中与兄弟们达成约定之后,按照规矩向祖先和诸神献上祭水,人民之主啊。
2.73.35
कृतमङ्गलकल्यामो भ्रातृभिः पिरवारितः ।
गतेषु क्षत्रियेन्द्रेषु सर्वेषु भरतर्षभ ॥ २.७३.३५ ॥
在完成吉祥之礼、被兄弟们簇拥之后,婆罗多中的雄牛啊,所有刹帝利之主都已离去。
2.73.36
युधिष्ठिरः सहामात्यः प्रविवेश पुरोत्तमम् ।
दुर्योधनो महाराज शकुनिश्चापि सौबलः।
सभायां समणीयायां तत्रैवास्ते नराधिप ॥ २.७३.३६ ॥
坚战与大臣们进入了这座上好的城市。大王啊,难敌和苏跋罗之子沙恭尼也仍留在那座可爱的议事厅中,人主啊。