Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.74

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.74.1

वसन्दुर्योधनस्तस्यां सभायां पुरुषर्षभ ।
शनैर्ददर्श तां सर्वां सभां शकुनिना सह ॥ २.७४.१ ॥

人中之雄啊!杜尔约陀那在那座会堂中,与沙恭尼一同缓缓环视了整个大厅。

2.74.2

तस्यां दिव्यानभिप्रायान्ददर्श कुरुनन्दनः ।
न दृष्टपूर्वा ये तेन नगरे नागसाह्वये ॥ २.७४.२ ॥

在那座会堂中,俱卢之子看到了他在名为那伽萨提婆的城中从未见过的神奇而出乎意料的景象。

2.74.3

स कदाचित्सभामध्ये धार्तराष्ट्रो महीपतिः ।
स्फाटिकं स्थलमासाद्य जलमित्यभिशङ्कया ॥ २.७४.३ ॥

有一次,在会堂中央,德里塔拉什特拉之子,大地之主,走到水晶地面前,因以为是水而心生疑惑。

2.74.4

स्ववस्त्रोत्कर्षणं राजा कृतवान्बुद्धिमोहितः ।
दुर्मना विमुखश्चैव परिचक्राम तां सभाम् ॥ २.७४.४ ॥

这位国王心智迷乱,竟撩起了自己的衣裳;随后他心中沮丧,转过脸去,在那座会堂中徘徊。

2.74.5

ततः स्थले निपतितो दुर्मना व्रीडितो नृपः ।
निः श्वसन्विमुखश्चापि परिचक्राम तां सभाम् ॥ २.७४.५ ॥

于是,国王跌倒在地,沮丧而羞愧,叹息着转过脸去,在那座会堂中徘徊。

2.74.6

ततः स्फाटिकतोयां वै स्फाटिकाम्बुजशोभिताम् ।
वापीं मत्वा स्थलमिव सवासाः प्रापतञ्जले ॥ २.७४.६ ॥

于是,他误将那以水晶之水、水晶莲花装点的水池当作干地,连衣带物跌入水中。

2.74.7

जले निपतितं दृष्ट्वा भीमसेनो महाबलः ।
जहास जहसुश्चैव किङ्कराश्च सुयोधनम् ॥ २.७४.७ ॥

见他跌入水中,大力的毗摩娑那大笑;仆从们也对苏尤陀那笑了起来。

2.74.8

वासांसि च शुभान्यस्मै प्रददू राजशासनात् ।
तथागतं तु तं दृष्ट्वा भीमसेनो महाबलः ॥ २.७४.८ ॥

奉国王之命,他们给了他华美的衣裳;但见他如此湿透而来,大力的毗摩娑那……

2.74.9

अर्जुनश्च यमौ चोभौ सर्वे ते प्राहसंस्तदा ।
नामर्षयत्ततस्तेषामवहासममर्षणः ॥ २.७४.९ ॥

阿周那与双生子们,他们都当时大笑;而不能容忍嘲笑的毗摩,不肯忍受他们的讥笑。

2.74.10

आकारं रक्षमाणस्तु न स तान्समुदैक्षत ।
पुनर्वसनमुत्क्षिप्य प्रतिरिष्यन्निव स्थलम् ॥ २.७४.१० ॥

他保持着威仪,没有看他们;再次提起衣裳,仿佛要渡回陆地。

2.74.11

आरुरोह ततः सर्वे जहसुश्च पुनर्जनाः ।
द्वारं तु पिहिताकारं स्फाटिकं प्रेक्ष्य भूमिपः।
प्रविशन्नाहतो मूर्ध्नि व्याघूर्णित इव स्थितः ॥ २.७४.११ ॥

随后众人都登上了台阶,人们又笑了起来;但国王看见那水晶门,其形状仿佛闭合,入内时便像头部受了一击,晕眩地站在那里。

2.74.12

तादृशं च परं द्वारं स्फाटिकोरुकवाटकम् ।
विघट्टयन्कराभ्यां तु निष्क्रम्याग्रे पपात हा ॥ २.७४.१२ ॥

另一扇同样的水晶门,门扇宽阔,他用手撞去;出去时向前跌倒——唉!

2.74.13

द्वारं तु वितताकारं समापेदे पुनश्च सः ।
तद्वृत्तं चेति मन्वानो द्वारस्थानादुपारमत् ॥ २.७४.१३ ॥

然而他又走近了那扇宽阔的门;以为事情本就如此,他便离开了门口的所在。

2.74.14

एवं प्रलम्भान्विविधान्प्राप्य तत्र विशाम्पते ।
पाण्डवेयाभ्यनुज्ञातस्ततो दुर्योधनो नृपः ॥ २.७४.१४ ॥

君主啊,他在那里遭遇了种种这样的迷惑,于是经般度之子允许后,国王难敌便从那里离去了。

2.74.15

अपहृष्टेन मनसा राजसूये महाक्रतौ ।
प्रेक्ष्य तामद्भुतामृद्धिं जगाम गजसाह्वयम् ॥ २.७४.१५ ॥

在大王祭(罗迦苏耶)中见到那奇妙的辉煌,他心中欢欣,前往象城(广象城,即曷斯蒂那补罗)。

2.74.16

पाण्डवश्रीप्रतप्तस्य ध्यायमानस्य गच्छतः ।
दुर्योधनस्य नृपतेः पापा मतिरजायत ॥ २.७४.१६ ॥

国王难敌走着,被般度之子的光辉所灼烧,心中沉思,一个邪恶的念头便生起了。

2.74.17

पार्थान्सुमनसो दृष्ट्वा पार्थिवांश्च वशानुगान् ।
कृत्स्नं चापि हितं लोकमाकुमारं कुरूद्वह ॥ २.७४.१७ ॥

库鲁族之最啊,他看见普利塔之子心情欢悦,看见臣服于他们的诸王,又看见整个世界,乃至孩童,都处于安乐之中。

2.74.18

महिमानं परं चापि पाण्डवानां महात्मनाम् ।
दूर्योधनो धार्तराष्ट्रो विवर्णः समपद्यत ॥ २.७४.१८ ॥

看见高尚的般度五子那至高的荣耀,持国之子难敌面色苍白、神情黯然。

2.74.19

स तु गच्छन्ननेकाग्नः सभामेकोऽन्वचिन्तयत् ।
श्रियं च तामनुपमां धर्मराजस्य धीमतः ॥ २.७४.१९ ॥

他边走边心神不定,独自思量着那大殿以及智慧的法王无与伦比的荣光。

2.74.20

प्रमत्तो धृतराष्ट्रस्य पुत्रो दुर्योधनस्तदा ।
नाभ्यभाषत्सुबलजं भाषमाणं पुनः पुनः ॥ २.७४.२० ॥

那时,持国之子难敌心不在焉,虽然苏波罗之子一再说话,他也没有回应。

2.74.21

अनेकाग्रं तु तं दृष्ट्वा शकुनिः प्रत्यभाषत ।
दुर्योधन कृतोमूलं निःश्वसन्निव गच्छसि ॥ २.७४.२१ ॥

沙恭尼见他心神不定,便回答道:"难敌啊,你叹着气前行,仿佛根基已被斩断。"

2.74.22

दृष्ट्वेमां पृथिवीं कृत्स्नां युधिष्ठिरवशानुगाम् ।
जितामस्त्रप्रतापेन श्वेताश्वस्य महात्मनः ॥ २.७४.२२ ॥

看到这整个大地,被白马之主(阿周那)的兵器威力所征服,服从于坚战的统治——

2.74.23

तं च यज्ञं तथाभूतं दृष्ट्वा पार्थस्य मातुल ।
यथा शक्रस्य देवेषु तथाभूतं महाद्युतेः ॥ २.७४.२३ ॥

舅舅啊,看到普利塔之子(阿周那)的那场祭祀,与诸神中因陀罗的祭祀相似,那位大光明者的祭祀如此——

2.74.24

अमर्षेण तु सम्पूर्णो दह्यमानो दिवानिशम् ।
शुचिशुक्रागमे काले शुष्ये तोयमिवाल्पकम् ॥ २.७४.२४ ॥

我被怨恨充满,日夜燃烧,就像少量的水在炎热季节到来时干涸。

2.74.25

पश्य सात्वतमुख्येन शिशुपालो निपातितः ।
न च तत्र पुमानासीत्कश्चित्तस्य पदानुगः ॥ २.७४.२५ ॥

看哪,适伐诸族中的至尊者击倒了湿舒波罗,而他身边竟没有一个追随他的人。

2.74.26

दह्यमाना हि राजानः पाण्डवोत्थेन वह्निना ।
क्षान्तवन्तोऽपराधं ते को हि तत्क्षन्तुमर्हति ॥ २.७४.२६ ॥

被般度之子所燃起之火焚烧的诸王,曾宽恕了你的过错;然而谁能够宽恕它呢?

2.74.27

वासुदेवेन तत्कर्म यथाऽयुक्तं महत्कृतम् ।
सिद्धं च पाण्डुपुत्राणां प्रतापेन महात्मनाम् ॥ २.७४.२७ ॥

婆修提婆完成了那件伟大的事,虽然它并不合宜;而这件事因伟大灵魂者的威势而成就于般度之子。

2.74.28

तथाहि रत्नन्यादाय विविधानि नृपा नृपम् ।
उपातिष्ठन्त कौन्येयं वैश्या इव करप्रदाः ॥ २.७४.२८ ॥

如此,诸王携带各式宝物,站在贡提之子的国王面前,就像纳税的商人一样。

2.74.29

श्रियं तथागतं दृष्ट्वा ज्वलन्तीमिव पाण्डवे ।
अमर्षवशमापन्नो दह्यामि न तथोचितः ॥ २.७४.२९ ॥

看到财富如此归于般度,烈烈如火,我陷于愤怒之中而燃烧;我并不配如此忍耐。

2.74.30

वह्निमेव प्रवेक्ष्यामि भक्षयिष्यामि वा विषम् ।
अपो वापि प्रवेक्ष्यामिन हि शक्ष्यामि जीवितुम् ॥ २.७४.३० ॥

我要投入火中,或者吞下毒药,或者甚至投入水中;因为我实在无法继续活下去。

2.74.31

को हि नाम पुमांल्लोके मर्षयिष्यति सत्ववान् ।
सपत्नानृद्ध्यतो दृष्ट्वा हीनमात्मानमेव च ॥ २.७४.३१ ॥

世上哪个有勇气的人,看见敌人兴旺而自己衰微,还能忍受?

2.74.32

सोऽहं न स्त्री न चाप्यस्त्री न पुमान्नापुमानपि ।
योऽहं तां मर्षयाम्यद्य तादृशीं श्रियमागताम् ॥ २.७४.३२ ॥

我既非女子,也非非女子;既非男子,也非非男子,今日却忍受这样降临的富贵。

2.74.33

ईश्वरत्वं पृथिव्याश्च वसुमत्तां च तादृशीम् ।
यज्ञं च तादृशं दृष्ट्वा मादृशः को न संञ्ज्वरेत् ॥ २.७४.३३ ॥

见到大地如此的主宰、如此的财富与如此的祭祀,像我这样的人谁能不因嫉妒而燃烧?

2.74.34

अशक्तश्चैक एवाहं तामाहर्तुं नृपश्रियम् ।
सहायांश्च न पश्यामि तेन मृत्युं विचिन्तये ॥ २.७४.३४ ॥

我孤身一人,无力夺取那王者的光荣,也看不到盟友,因此我在思量死亡。

2.74.35

दैवमेव परं मन्ये पौरुषं च निरर्थकम् ।
दृष्ट्वा कुन्तीसुते शुद्धां श्रियं तामहतां तथा ॥ २.७४.३५ ॥

我认为天命至高,人力徒劳——见到昆提之子那纯洁无损的富贵。

2.74.36

कृतो यत्नो मया पूर्वं विनाशे तस्य सौबल ।
तच्च सर्वमतिक्रम्य संवृद्धोऽप्स्विव पङ्गजम् ॥ २.७४.३६ ॥

萨婆罗之子啊,我先前曾为毁灭他们而努力;可他们克服了一切,如水中的莲花般成长。

2.74.37

न दैवं परं मन्ये पौरुषं च निरर्थकम् ।
धार्तराष्ट्राश्च हीयन्ते पार्था वर्धन्ति नित्यशः। ॥ २.७४.३७ ॥

我不认为天命至高,人的努力也是徒劳。持国之子日益衰落,而普利塔之子日日兴盛。

2.74.38

कृष्णस्तु सुमनास्तेषां विवर्धयति सम्पदः ।
सोऽहं श्रियं च तां दृष्ट्वा सभां तां च तथाविधाम्। ॥ २.७४.३८ ॥

然而克里希那对他们心怀善意,增益他们的财富。我看到他们的那份荣光与那样的大会堂之后——

2.74.39

रक्षिभिश्चावहासं तं परितप्ये यथाऽग्निना ।
अमर्षं च समाविष्टं धृतराष्ट्रे निवेदय ॥ २.७४.३९ ॥

因守卫的那番嘲笑,我如被火焚烧般痛苦。满怀愤懑,我向持国报告此事。