摩诃婆罗多 · 章 2.78
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.78.1
यन्मया पाण्डवोयानां दृष्टं तच्छृणु भारत ।
आहृतं भूमिपालैर्हि वसु मुख्यं ततस्ततः ॥ २.७८.१ ॥
婆罗多啊,听我说我所见到为般度之子所献的礼物。诸王带来了上好的财富,接着又来,又来。
2.78.2
नाविदं मूढमात्मानं दृष्ट्वाहं तदरेर्धनम् ।
फलतो भूमितो वाऽपि प्रतिपद्यस्व भारत ॥ २.७८.२ ॥
婆罗多啊,见到敌人的那些财富,我才觉得自己愚昧。无论来自收成还是来自土地,请你理解这一点。
2.78.3
और्णान्बैलान्वार्षदंशान् जातरूपपरिष्कृतान् ।
प्रावाराजिनमुख्यांश्च काम्भोजः प्रददौ बहून् ॥ २.७८.३ ॥
甘博阇献上许多毛毯、牛,饰以黄金的防雨衣物,上好的披风和鹿皮。
2.78.4
अश्वांस्तित्तिरिकल्माषांस्त्रिशतं शुकनासिकान् ।
अष्ट्रवामीस्त्रिगर्ताश्च पुष्टाः पीलुशमीङ्गुदैः ॥ २.७८.४ ॥
三百匹马,斑纹如鹧鸪,鼻如鹦鹉,还有骆驼。特里迦尔塔人以毗卢、沙密和因古提喂养得肥壮。
2.78.5
गोपाः स्वीयेन सहितास्तदादाय चतुष्पदम् ।
वसातयोऽन्यद्द्रव्यं द्वारि तस्यावतस्थिरे ॥ २.७८.५ ॥
牧人与他们的族人一同带来那些四足牲畜,瓦萨提人则携带其他货物站在他的门前。
2.78.6
कमण्डलूनुपादाय जातरूपमयञ्छिवान् ।
रत्नानि च हिरण्यं च सुवर्णं चैव केवलम्। ॥ २.७८.६ ॥
取金制吉祥的净水瓶,宝石、黄金,以及纯金。
2.78.7
प्रीयमाणः प्रसन्नात्मा स्वयं स्वजनसंवृतः ।
त्रैखर्वो रथमुख्येशः पाण्डवाय न्यवेदयत् ॥ २.७८.७ ॥
心中欢喜、神情愉悦的特莱卡尔瓦,乃众车将之主,被自己的亲族围绕,亲自将礼物呈献给般度之子。
2.78.8
यश्च स द्विजमुख्येन राज्ञः शङ्खो निवेदितः ।
प्रीत्या दत्तः कुविन्देन धर्मराजाय धीमते ॥ २.७८.८ ॥
那枚由最尊贵的婆罗门献给国王的海螺,俱文陀出于友爱,交给了智慧的法王。
2.78.9
तं सर्वे भ्रातरो भ्रात्रे ददुः शङ्खं किरीटिने ।
तं प्रत्यगृह्णाद्बीभत्सुस्तोयजं हेममालिनम् ॥ २.७८.९ ॥
诸兄弟将那枚海螺赠予戴冠的兄弟;毗跋蹉(阿周那)接受了这枚生于水中、缀以金环的海螺。
2.78.10
चित्रं निष्कसहस्रेण भ्राजमानं स्वतेजसा ।
रुचिरं दर्शनीयं च पूजितं विश्वकर्मणा ॥ २.७८.१० ॥
那枚奇妙的海螺,以自身光辉闪耀,价值千尼斯卡;美丽可观,曾受毗首羯磨(Viśvakarman)的敬重。
2.78.11
अधारयच्च धर्मश्च तं नमस्य पुनः पुनः ।
योऽनादनेऽपि नदति स ननादाधिकं तदा ॥ २.७८.११ ॥
法王亦持之,一再向之致敬;那枚不吹亦能发声的海螺,此时鸣响得更加响亮。
2.78.12
प्रणादाद्भूमिपास्तस्य पेतुर्हीनाः खतेजसा ।
धृष्टद्युम्नः पाण्डवाश्च सात्यकिः केशवोऽष्टमः ॥ २.७८.१२ ॥
诸王因其声而倒下,失去了自身的光辉;德里斯塔德于慢、般度诸子、萨蒂亚吉,以及作为第八人的刻沙婆(黑天)。
2.78.13
सत्वेन स्वेन सम्पन्ना अन्योन्यप्रियकारिणः ।
विसञ्ज्ञान्भूमिपान्दृष्ट्वा मां च ते प्राहसंस्तदा ॥ २.७८.१३ ॥
他们凭自身的刚毅而充满力量,彼此相互取悦;看见昏厥的诸王和我,他们便笑了起来。
2.78.14
ततः प्रहृष्टो बीभत्सुरददाद्धेमशृङ्गिणः ।
शताननडुहान्पञ्च द्विजमुख्याय भारत ॥ २.७८.१४ ॥
于是欢喜的毗跋蹉(阿周那)啊,婆罗多,将五百头金角牛施予最上等的婆罗门。
2.78.15
सुमुखेन बलिर्मुख्यः प्रेषितोऽजातशत्रवे ।
कुविन्देन हिरण्यं च वासांसि विविधानि च ॥ २.७८.१५ ॥
由须目送去了主要的贡赋给不敌者(阿闍多设咄卢),由库文达送去了黄金和各式衣物。
2.78.16
काश्मीरराजो मार्द्वीकं शुद्धं च सरसं मधु ।
बलिं च कुत्स्नमादाय पाण्डवायाभ्युटपागमत् ॥ २.७८.१६ ॥
克什米尔王带着纯净的葡萄酒、甘美的蜂蜜和全部贡赋来到般度之子那里。
2.78.17
यवना हयानुपादाय पार्वतीयान्मनोजवान् ।
आसनानि महार्हाणि कम्बलांश्च महाधनान् ॥ २.७८.१७ ॥
耶槃那人带来了如意念般迅捷的山产马匹、极其珍贵的座椅和价值高昂的毛毯。
2.78.18
नवान्सूक्ष्मांश्च हृद्यांश्च परार्थ्यान्सुप्रदर्शनान् ।
अन्यच्च विविधं रत्नं द्वारि ते न्यवतस्थिरे ॥ २.७८.१८ ॥
新颖、精细、悦目、极为上等、外观华美的衣物,以及其他各种宝物,都陈列在你的门前。
2.78.19
श्रुतायुरपि कालिङ्गो मणिरत्नमनुत्तमम् ।
अङ्गः स्त्रियो दर्शनीया जातरूपविभूषिताः ॥ २.७८.१९ ॥
羯陵伽王室利多耶亦献上无上的宝石珠玉,盎伽王则献上以黄金装饰的美丽女子。
2.78.20
वङ्गो जाम्बूनदमयान्पर्यङ्गाञ्छतशो नृप ।
दक्षिणात्सागराभ्याशात्प्रावारांश्च परश्शतम् ॥ २.७८.२० ॥
大王,王者送来数百张金床;南方海滨又送来一百多件毛织披衣。
2.78.21
औदकानि सरत्नानि बलिं चादाय भारत ।
अन्येभ्यो भूमिपालेभ्यः पाण्डवाय न्यवेदयत् ॥ २.७८.२१ ॥
婆罗多之子啊,他携带水产与宝石之贡物,与其他地上君王一同献给般度之子。
2.78.22
दार्दुरं चन्दनं मुख्यं भारं षण्णवति द्रुतम् ।
पाण्डवाय ददौ पाण्ड्यः शङ्खांस्तावत एव च ॥ २.७८.२२ ॥
般提亚王迅速献给般度之子九十六担上好的檀香木(达尔杜拉檀),以及同样数量的海螺。
2.78.23
चन्दनागरु चानन्तं मुक्तावैडूर्यचित्रिताः ।
चोलश्च केरलश्चोमौ ददतुः पाण्डवाय वै ॥ २.७८.२३ ॥
檀香、沉香与阿难多木,以珍珠和猫眼石装饰;朱罗王与喀拉拉王二人同献给般度之子。
2.78.24
अश्मको हेमशृङ्गीश्च दोग्ध्रीर्हेमविभूषितः ।
सवत्साः कुम्भदोहाश्च सहस्राण्यददाद्दश ॥ २.७८.२४ ॥
阿湿摩迦王献上一万头乳牛,角镶黄金,身饰金饰,带着牛犊,产奶盈罐。
2.78.25
सैन्धवानां सहस्राणि हयानां पञ्चविंशतिम् ।
अददात्सैन्धवो राजा हेममाल्यैरलङ्कृतान् ॥ २.७८.२५ ॥
信度王献上两万五千匹装饰着金花环的信度马。
2.78.26
सौवीरो हस्तिभिर्युक्तान्रथांश्च त्रिशतं परान् ।
जातरूपपरिष्कारान्मणिरत्नविभूषितान् ॥ २.७८.२६ ॥
娑увира王献上三百辆由象驾挽的上等战车,饰以黄金,镶嵌着宝石与珍玉。
2.78.27
मध्यन्दिनार्कप्रतिमांस्तेजसा ज्वलितानिव ।
बलिं च कृत्स्नमादाय पाण्डवाय न्यवेदयत् ॥ २.७८.२७ ॥
他取来如正午太阳般光辉灼灼的珍宝和全部贡物,献给般度之子。
2.78.28
अवन्तिराजो रत्नानि विविधानि सहस्रशः ।
हाराङ्गदांश्च मुख्यान्वै विविधं च विभूषणम् ॥ २.७८.२८ ॥
阿凡提王献上成千上万件各色珍宝、上等项链与臂钏,以及各式饰物。
2.78.29
दासीनामयुतं चापि बलिमादाय भारत ।
सभाद्वारि नरश्रेष्ठ दिदृक्षुरवतिष्ठते ॥ २.७८.२९ ॥
婆罗多之子啊,他携来一万名侍女的贡物,正站在议事厅门口,想要见你,人中最杰出者啊。
2.78.30
दशार्णश्चेदिराजश्च शूरसेनश्च वीर्यवान् ।
वस्त्राणि मुख्यान्यादाय रत्नानि विविधानि च।
बलिं च कृत्स्नमादाय पाण्डवाय न्यवेदयत् ॥ २.७८.३० ॥
十那国王、奇迪王与勇猛的首罗犀那,取来上等衣物和各种珍宝以及全部贡物,献给般度之子。
2.78.31
काशिराजेन हृष्टेन बली राज्ञि निवेदितः ।
अशीतिगोसहस्राणि शतान्यष्टौ च दन्तिनाम् ॥ २.७८.३१ ॥
迦尸王欣然向国王进献贡品:八万头牛和八百头象。
2.78.32
अयुतं च नदीजानां हयानां हेममालिनाम् ।
विविधानि च रत्नानि काशिराजो बलिं ददौ ॥ २.७८.३२ ॥
迦尸王以贡品形式献上一万匹饰有金花环的河产良马,以及各种宝石。
2.78.33
कृतक्षणश्च वैदेहः कौसलश्च बृहद्बलः ।
ददतुर्वाजिमुख्यांश्च सहस्राणि चतुर्दश ॥ २.७८.३३ ॥
毗提诃王迦利多刹那与拘萨罗王大力,献上一万四千匹上等良马。
2.78.34
शैब्यो वसादिभिः सार्धं त्रिगर्तो मालवैः सह ।
तेभ्यो रत्नानि ददतुरेकैको भूमिपोऽमितम् ॥ २.७८.३४ ॥
舍卑耶与婆娑等人同行,三乡国王与摩罗人同行;每位国王都献上了数不尽的宝石。
2.78.35
हारान्मुख्यान्परार्ध्यांश्च विविधं च विभूषणम् ।
शतं दासीसहस्राणि कार्पासिकनिवासिनाम् ॥ २.७८.३५ ॥
最上等的珍贵项链与各种饰物;以及来自棉花之地的十万名婢女。
2.78.36
श्यामास्तन्वीर्दीर्घकेशीर्हेमाभरणभूषिताः ।
बलिं च कृत्स्नमादाय भारुकच्छो नरर्षभ ॥ २.७८.३६ ॥
肤色黑、身材苗条、长发、饰有金饰的女子;哦,人中之牛,婆卢羯呫王带来了全部贡品。
2.78.37
शुद्धान्विप्रोत्तमार्हांश्च कम्बलप्रवरान्ददौ ।
ते सर्वे पाण्डुपुत्रस्य द्वार्यतिष्ठन्दिदृक्षवः ॥ २.७८.३७ ॥
他赠送了适合纯洁而优秀婆罗门的上好毛毯。他们都站在门口,渴望见到般度之子。
2.78.38
उपायनं यदा दद्युस्तदा द्वारमलभ्यत ।
इन्द्रकृष्टैर्वर्धयन्ति धान्यैर्नदमुखैस्तु ये ॥ २.७८.३८ ॥
只有献上贡物,才能到达大门。那些以因陀罗雨水养成的谷物和河口的富饶而增长财富的人——
2.78.39
समुद्रनिकटे जाताः परिसिन्धुनिवासिनः ।
ते वै द्रुमाः पारदाश्च काश्यकैरातकैः सह ॥ २.७८.३९ ॥
生于海边、居于信度河两岸的人们——他们与德鲁玛人、帕拉达人、迦尸迦人和埃拉卡人一同而来——
2.78.40
बलिं विविधमादाय रत्नानि विविधानि च ।
अजाविकं गोहिरण्यं खरोष्ट्रं फलवन्मधु ॥ २.७८.४० ॥
带来各种贡物与各种宝石——山羊绵羊,牛与黄金,驴与骆驼,带果香的蜂蜜。
2.78.41
कम्बलान्विविधांश्चैव द्वारि तिष्ठन्ति वारिताः ।
प्राग्ज्योतिषपतिः शूरो म्लेच्छानामधिपो बली ॥ २.७८.४१ ॥
他们带着各色毛毯,被拦在门外站立。普拉格约提沙之主,英雄,蛮族之王,强大者——
2.78.42
यवनैः सहितो राजा भगदत्तो महाबलः ।
आजानेयान्हयाञ्छीघ्रमादायानिलरंहसः ॥ २.७८.४२ ॥
大力的国王婆伽达多偕同耶婆那人,迅速牵来了如风般疾驰的良种骏马。
2.78.43
बलिं च कृत्स्नमादाय द्वारि तिष्ठति वारितः ।
अश्वसारमयान्भाण्डाञ्छुभान्दन्तत्सरूनसीन् ॥ २.७८.४३ ॥
他带着全部贡品,在门口被拦住而站立:用马具制成的精美器皿,以及象牙柄的刀剑。
2.78.44
प्राग्ज्योतिषाधिपो दत्त्वा भगदत्तोऽव्रजत्तदा ।
व्यक्षाङ्ख्यक्षांल्ललाटाक्षान्नानादिग्भ्यः समागतान् ॥ २.७८.४४ ॥
普拉格约提沙之主婆伽达多当时献上贡物后离去。我还看见从各方聚来的独眼者、有眼者和额上有眼者。
2.78.45
औष्णीषआनहयांश्चैव बाहुकान्पुरुषादकान् ।
एकपादांश्च तत्राहमपश्यं द्वारि वारितान् ॥ २.७८.४५ ॥
在那里的门口,我还看见被拦住的戴头巾的人、长臂人、食人者和独脚人。
2.78.46
बल्यर्थं ददतस्तस्य हिरण्यं रजतं वसु ।
इन्द्रगोपकसङ्काशाञ्छुकवर्णान्मनोजवान् ॥ २.७८.४६ ॥
连同他作为贡物奉上的金、银与财富,还有如因陀罗虫般、鹦鹉色、快如意念的(马)。
2.78.47
तथैवेन्द्रायुधनिभान्सन्ध्याभ्रसदृशानपि ।
अनेकवर्णानारण्यान्गृहीत्वाश्वांस्तथा बहून् ॥ २.७८.४७ ॥
同样,他还带走了许多在森林中长大的马,色彩斑斓,如彩虹与暮云一般。
2.78.48
जातरूपमनर्घ्यं च ददुस्तस्यैकपादकाः ।
सिंहलश्च तदा राजा परिगृह्य धनं बहु ॥ २.७८.४८ ॥
独脚人向他奉上无价的精炼金;然后僧伽罗(锡兰)王也收取了大量财富。
2.78.49
गोशीर्षं हरितश्यामं चन्दनप्रवरं महत् ।
भाराणां शतमेकं तु द्वारि तिष्ठति वारितः ॥ २.७८.४९ ॥
牛头旃檀,青黑色且上等,百担,停在门口,被拦阻着。
2.78.50
ये नग्नविषया राजन्बर्बरेयाश्च विश्रुताः ।
शतं दासीसहस्राणां कम्बलांश्च सहस्रशः।
परिगृह्य महाराज द्वारि तिष्ठन्ति वारिताः ॥ २.७८.५० ॥
大王啊,裸国之人和著名的野蛮人,携带百名女奴与成千的毯子,大王,停在门口,被拦阻着。
2.78.51
पौण्ड्राश्च दामलिप्ताश्च यथाकामकृतो नृपाः ।
कालेयकं च रूप्यं च परिगृह्य परिच्छदान् ॥ २.७८.५१ ॥
半陀罗与达摩利多的国王们,随意行事,带来了黑沉香、白银和器物。
2.78.52
अगरून्स्फाटिकांश्चैव दन्ताञ्जातीफलानि च ।
तक्कोलांश्च लवङ्गाश्च कर्पूरांश्च महाबल ॥ २.७८.५२ ॥
沉香、水晶、象牙、肉豆蔻、荜拨、丁香与龙脑,哦,大力者。
2.78.53
अन्यांश्च विविधान्द्रव्यान्परिगृह्योपतस्थिरे ।
एते सर्वे महात्मानो द्वारि तिष्ठन्ति वारिताः ॥ २.७८.५३ ॥
又携带各种其他物品前来拜见,这些大德之人都被拦阻在门口。
2.78.54
शैलेयश्च ततो राजा पत्रोर्णान्परिगृह्य सः ।
द्वारि तिष्ठन्महाराज द्वारपालैर्निवारितः ॥ २.७८.५४ ॥
随后,设罗耶王携带叶毛织物,大王啊,站在门口,被守门人拦阻。
2.78.55
चीना हूणाः कषाः काचाः पर्वतान्तरवासिनः ।
आहार्षुर्दशसाहस्रान्विन्नीतान्दिक्षु विंश्रुतान् ॥ २.७८.५५ ॥
居住在山区内部的支那、匈奴、迦沙与迦查人,带来了在四方闻名的一万名恭顺之人。
2.78.56
औष्णीकं कम्बलं चैव कीटजं मणिजं तथा ।
प्रमाणरागस्पर्शाढ्यं बाह्वीचीनसमुद्भवम् ॥ २.७८.५६ ॥
羊毛毯、由昆虫所出的丝绸、由宝石所出的织物,尺寸、颜色与触感俱佳,产于巴赫维与支那。
2.78.57
रसान् गन्धान्प्रशंसन्तस्ततो द्वारमलभ्यत ।
खर्वटास्तोमराश्चैव शूरा वर्धनकास्तथा ॥ २.७८.५७ ॥
赞美各种滋味与香气之后,便到达了门口。卡尔瓦塔人、托马拉人、勇士和瓦尔达纳卡人也来了。
2.78.58
चेलान्बहुविधान्गृह्य द्वारि तिष्ठन्ति वारिताः ।
प्राक्कोटा नाटकेयाश्च नन्दीनगरकास्तथा ॥ २.७८.५८ ॥
带着各式各样的织物,他们在门口被拦住而站立:还有普拉科吒人、那吒凯人和难提城人。
2.78.59
नापितास्त्रैपुराश्चैव पञ्चमेयाः सहोरुजाः ।
तथा चाटविकाः सर्वे नानाद्रव्यपरिच्छदान् ॥ २.७८.५९ ॥
理发者、三城人与五宝人,连同乌鲁遮人;同样,所有林中居民也带着各种货物的器具而来。
2.78.60
परिगृह्य महाराज द्वारि तिष्ठन्ति वारिताः ।
शकास्तुषाराः कौरव्य रोमकाः शृङ्गिणोश्मकाः ॥ २.७८.६० ॥
大王,他们带着贡品在门口被拦住而站立:塞人、吐火罗人、俱卢后裔啊、罗摩人、角人与阿什马卡人。
2.78.61
बलादूरुगमा राजन्गणितं चार्बुदं मया ।
कूटीकृतं सुवर्णं च पद्मकिञ्जल्कसंनिभम् ॥ २.७८.६१ ॥
大王,我以武力清点了一亿(阿尔布达)被强行带来的壮士;铸成锭的黄金,如莲花的花粉。
2.78.62
शितान्दीर्घानसीनन्यान्यष्टिशक्तिपरश्वथान् ।
श्लक्ष्णं वस्त्रमकार्पसमाविकं मृदु चाजिनम् ॥ २.७८.६२ ॥
锋利的长剑及其他,木棒、长矛与战斧;光滑的棉布与毛织物,以及柔软的兽皮。
2.78.63
बलं मत्तं समादाय द्वारि तिष्ठन्ति वारिताः ।
आसनानि महार्हाणि यानानि शयनानि च ॥ २.७८.६३ ॥
带着狂醉的军队,他们被阻挡在门口站立;还有极其贵重的座位、车辆与床榻。
2.78.64
मणिकाञ्चनचित्राणि गजदन्तमयानि च ।
रथांश्च विविधाकाराञ्जाम्बूनदपरिष्कृतान् ॥ २.७८.६४ ॥
镶嵌宝石与黄金,以象牙制成,还有形状各异、以闪浮金装饰的战车。
2.78.65
हयैर्विनीतैः सम्पन्नान्वैयाघ्रपरिवारितान् ।
विचित्रान्सपरिस्तोमांश्चापानि विविधानि च। ॥ २.७८.६५ ॥
配有训练有素的良马,以虎皮环绕,花色繁多,带有鞍罩;还有各种弓。
2.78.66
नाराचानर्घनाराचाञ्छस्त्राणि विविधानि च ।
एतद्द्रव्यं महद्गृह्य पूर्वदेशाधिपो नृपः ॥ २.७८.६६ ॥
那罗遮箭与珍贵的那罗遮箭,以及各式兵器;东方之国的君主取了这大宗财物。
2.78.67
प्रविष्टो यज्ञसदनं पाण्डवस्य महात्मनः ।
जन्तुचेलान्द्विसाहस्रान्दुकूलान्ययुतानि च ॥ २.७८.६७ ॥
他进入伟大的般遮婆(Pāṇḍava)的祭祀大厅,献上两千条毛毯和一万件丝绸衣物。
2.78.68
कांस्यानि चैव भाण्डानि महार्हाणि कुथानि च ।
एतान्यन्यानि रत्नानि ददौ पार्थस्य वै मुदा ॥ २.७८.६८ ॥
他欣然将青铜器皿、极其珍贵的地毯以及其他宝石赠予帕尔特。
2.78.69
अन्यान्बहुविधान्राजन्नरः सागरमाश्रिताः ।
रत्नानि विविधान्गृह्य ददुस्ते पाण्डवाय तु ॥ २.७८.६९ ॥
大王啊,其他居住在海边的各种人也取来各式宝石,献给了般遮婆。
2.78.70
मालवाश्च ततो राजन्रत्नानि विविधानि च ।
गोधूमानां च राजेन्द्र द्रोणानां कोटिसंमितम् ॥ २.७८.७० ॥
随后,大王啊,摩罗婆人也献上了各式宝石,以及,诸王之王啊,一千万德罗那量的小麦。
2.78.71
अन्यांश्च विविधान्धान्यान्परिगृह्य महाबलः ।
पाण्डवाय ददौ प्रीत्या प्रविवेश महाध्वरम् ॥ २.७८.७१ ॥
这位大力者又取来各种其他谷物,怀着敬爱之情献给般遮婆,然后进入了大祭祀。
2.78.72
नानारत्नान्बहून्गृह्य सुराष्ट्राधिपतिर्नृपः ।
तैलकुम्भान्महाराज द्रोणानामयुतानि च ॥ २.७८.७२ ॥
苏罗湿陀之主,取来许多各式宝石,大王啊,还有油罐以及上万德罗那量。
2.78.73
गुडानपि स तान्स्वादून्सहस्रशकटैर्नृपः ।
एतानि सर्वाण्यादाय ददौ कुन्तीसुताय सः ॥ २.७८.७३ ॥
国王又取来装载于千车之上的甘甜蔗糖,将这一切都献给了贡提之子。
2.78.74
अन्ये च पार्थिवा राजन्नानादेशसमागताः ।
रत्नानि विविधान्गृह्य ददुस्ते कौरवाय तु ॥ २.७८.७४ ॥
大王啊,从各地前来的其他国王也取来种种珍宝,献给了俱卢。
2.78.75
जम्बूद्वीपे समस्ते तु सराष्ट्रवनपर्वते ।
करं तु न प्रयच्छेत नास्ति पार्थस्य पार्थिवः ॥ २.७८.७५ ॥
在整个赡部洲,连同其邦国、森林与山峦,没有一个国王不向般遮(阿周那)纳贡。
2.78.76
नरः सप्तसु वर्षेसु तद्यज्ञे नास्ति नागतः ।
क्रतुर्नानागणैः कीर्णो बभौ शक्रसदो यथा ॥ २.७८.७६ ॥
七大洲之内,没有一人不来赴那场祭祀;那祭祀因众多人群而充盈,犹如因陀罗的天宫议会般辉煌。
2.78.77
इमांश्च दायान्विविधान्निबोध मम पार्थिव ।
यज्ञाप्थे राजभिर्दत्तान्महतो धनसञ्चयान् ॥ २.७८.७७ ॥
大王请听我这些各式各样的贡献——诸王在祭祀之地所献上的大量财富。
2.78.78
मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम् ।
ये ते कीचकवेणूनां छायां रम्यामुपासते ॥ २.७८.७८ ॥
在须弥山与曼陀罗山之间,沿着从山中流出的河流两岸,那些居住在芦竹(kīcaka)荫凉之中的人们。
2.78.79
खषा एकासनाद्यर्हाः प्रदरा दीर्घवेणवः ।
पारदाश्च कुलिन्दाश्च तङ्कणाः परतङ्कणाः ॥ २.७८.७९ ॥
佉沙人、值得同坐一席的波罗达人、持长竹者、波罗人与俱蓝陀人、丹干那人与后丹干那人。
2.78.80
तद्वै पिपीलिकं नाम उद्धृतं यत्पिपीलिकैः ।
जातरूपं द्रोणमेयमहार्षुः कुञ्जशो नराः ॥ २.७८.८० ॥
那被蚂蚁掘出、以德罗那量器量过的名为“皮皮力迦”的黄金,人们成群地带来。
2.78.81
कृष्णवालांश्च चमराञ्छुक्लवालांस्तथा परान् ।
हिमवत्पुष्पजं चैव स्वादुक्षौद्ररसं बहु ॥ २.७८.८१ ॥
黑尾与白尾的牦牛尾拂尘,及其他物品,还有许多喜马拉雅花中所生的甘甜蜂蜜汁。
2.78.82
उत्तरेभ्यः कुरुभ्यश्च व्यूढमाल्यैर्महात्मभिः ।
उत्तरादपि कैलासादोषधीः सुमहाबलाः ॥ २.७८.८२ ॥
来自北方的俱卢人,由身披宽阔花环的大德之人所献,也来自北方的凯拉萨山,极为有力的草药。
2.78.83
पार्वतीयाश्चराजान आहृत्य प्रणताः स्थिताः ।
अजातशत्रवे राजन्द्वारि तिष्ठन्ति वारिताः ॥ २.७८.८३ ॥
山地诸王也带着贡物,俯首伫立。大王啊,他们为阿阇多设陀拿在门口被拦阻而站立着。
2.78.84
ये परार्घ्या हिमवतः सूर्योदयगिरेरनु ।
एवंरूपाः समुद्रान्ते लौहित्यमभितश्च ये ॥ २.७८.८४ ॥
沿着喜马拉雅与日出山的上等(贡献者),在海边这样的人们,以及楼醯底河两岸的人们。
2.78.85
फलमूलाशना ये च किराताश्चर्मवाससः ।
चन्द्नागरुमुख्यानि महार्हान्कम्बलानि च ॥ २.७८.८५ ॥
以果实和根为食、身穿皮衣的俱罗人,还献上上好的檀香与沉香,以及贵重的毛毯。
2.78.86
चर्मरत्नसुवर्णानि गन्धानुच्चावचानि च ।
कैरातकीनामयुतं दासीनां च विशंपते ॥ २.७८.८६ ॥
皮革、宝石、黄金及种种香料;啊,民之主,还有俱罗人的一万名侍女。
2.78.87
आहृत्य रमणीयार्थान्दूरगान्मृगपक्षिणः ।
निचितं पर्वतेभ्यश्च हिरण्यंभूरिवर्चसम् ॥ २.७८.८७ ॥
从远方带来珍贵之物、野兽与飞禽,还有从山中堆积而来的极其璀璨的黄金。
2.78.88
बलिं च कृत्स्त्रमादाय द्वारि तिष्टन्ति वारिताः ।
कापव्या दरदा दर्वाः शूरा वै यमकास्तथा ॥ २.७८.८८ ॥
他们手捧全部贡品,被拦在门外而立:迦波耶人、达罗陀人、达尔瓦人、勇士们,还有耶摩迦人。
2.78.89
औदुम्बरा दुर्विभागा द्वारि तिष्टन्ति वारिताः ।
काश्मीराश्च कुमाराश्च गौरका हंसकास्तथा ॥ २.७८.८९ ॥
乌曇跋罗人与杜尔毗婆伽人被拦在门前而立;迦湿弥罗人、鸠摩罗人、高罗迦人与鹅人亦然。
2.78.90
शिबित्रैगर्तयौधेया राजन्या मद्रकैः सह ।
वसुतेयाः समौलेया दाहक्षुद्रकमालवैः ॥ २.७८.९० ॥
尸毗人、三乡人、优陀耶人与诸王,与摩陀罗人同来;婆苏提耶人、萨毛利耶人、达诃人、刹陀罗迦人与摩罗婆人同来。
2.78.91
चौण्डिकाश्चौदकाश्चैव साल्वाश्चैव विशम्पते ।
अङ्कवङ्काश्च यवना अनवद्या गयैः सह ॥ २.७८.९१ ॥
遮都迦人、遮陀迦人,以及娑利婆人,啊,毗舍馱帕提;安伽人、盆伽人与耶婆那人,无过失者,与伽耶人一同。
2.78.92
सुजातयः श्रेणिमन्तः श्रेयांसः शस्त्रधारिणः ।
आहार्षुः क्षत्रिया वित्तं शतशोऽजातशत्रवै ॥ २.७८.९२ ॥
出身高贵、组成行会的卓越持械刹帝利,为无敌者带来了成百上千的财富。
2.78.93
वङ्काः कलिङ्गा मगधास्ताम्रलिप्ताः सपुण्ड्रकाः ।
दुकूलं कौशिकं चैव पत्रोर्णं चैव भारत ॥ २.७८.९३ ॥
盆伽人、羯陵伽人、摩揭陀人、多摩梨底人,以及殑伽人;啊,婆罗多,还有细麻布、丝绸和叶毛织物。
2.78.94
उपावृत्ता नृपास्तस्य ददुः प्रीतिं न चागमन् ।
उच्यन्ते तत्र हि द्वार्स्थैर्बलिमादाय विष्ठिताः ॥ २.७८.९४ ॥
背离他的诸王既不表示亲善,也不前来;据说他们在那里,通过守门人接受了贡物而侍立。
2.78.95
ईषादन्तान्हेमकक्ष्यान्पद्मवर्णान्कुथावृतान् ।
शैलाभान्नित्यमत्तांश्चाप्यभितः काम्यकं सरः ॥ २.७८.९५ ॥
象牙如犁杆、金色鞍辔、莲花色、覆盖着布、如山般、常年发情的象;以及围绕迦摩耶迦湖的象。
2.78.96
क्षमावतः कुलीनांश्च कुञ्जरान्सपरिच्छदान् ।
दत्त्वैकैको दशशतान्द्वारेण प्रविशन्त्विति ॥ २.७८.९६ ॥
让每人各献一千,连同有耐性、出身高贵的象及其装饰,从门而入。
2.78.97
वैदेहकाश्च पुण्ड्राश्च गौलेयास्ताम्रलिप्तकाः ।
मरुकाः काशिका दर्दा भौमेया नटनाटकाः ॥ २.७८.९७ ॥
毗提诃人、普达罗人、高勒耶人、单摩梨多迦人、摩禄迦人、迦尸人、达尔达人、跋摩耶人,以及舞者和演员。
2.78.98
कर्णाटाः कांस्यकुट्टाश्च पद्मजालाः सतीनराः ।
दाक्षिणात्याः पुलिन्दाश्च शवेरास्तङ्कणाः शषाः ॥ २.७८.९८ ॥
羯罗那人、铜匠、莲网人、萨蒂那罗人、南方人、普林达人、舍韦罗人、探凯那人和沙沙人。
2.78.99
बर्बरा यवनाश्चैव गर्गराभीरकास्तथा ।
पल्लवाः शककारूशास्तुम्बकाः काशिकास्तदा ॥ २.७८.९९ ॥
蛮族人、耶婆那人、伽伽罗人与阿毗罗人、帕拉瓦人、塞人与迦鲁舍人、通巴迦人,以及迦尸人。
2.78.100
एते चान्ये च बहवो नानादिगभ्यः समागताः ।
अन्यैश्चोपहृतान्यत्र रत्नानि हि महात्मभिः ॥ २.७८.१०० ॥
这些人以及许多其他人从各个方向汇聚于此,而大德之人也在此献上了其他宝物。
2.78.101
समुद्रसारवैडूर्यान्मुक्ताः शङ्खास्तथैव च ।
शुभावर्ताञ्छुभाञ्छुक्तीः सिंहलाः समुपाहरन् ॥ २.७८.१०१ ॥
海中精华的青金石、珍珠与海螺,同样还有带吉祥螺旋的吉祥海螺和贝壳,都是僧伽罗人作为贡物带来的。
2.78.102
सम्भृतान्मणिचीरैश्च श्यामांस्ताम्रान्तलोचनान् ।
राजा चित्ररथो नाम गन्धर्वो वासवानुगः।
शतानि चत्वार्यददद्धयानां वातरंहसाम् ॥ २.७८.१०२ ॥
饰以宝饰的毯子、毛色深黑、眼角泛铜色的马匹;因陀罗的随从、乾闼婆王苏摩罗陀(Citraratha)赠送了四百匹疾如风的骏马。
2.78.103
तुम्बुरुस्तु प्रमुदितो गन्धर्वो वाजिनां शतम् ।
आम्रपत्रसवर्णानामददद्धेममालिनाम् ॥ २.७८.१०३ ॥
欢喜的乾闼婆坦布鲁赠送了一百匹马,毛色如芒果叶,佩戴金色花环。
2.78.104
कृती राजा च कौरव्य शूकराणां विशाम्पते ।
अददद्गजरत्नानां शतानि सुबहून्यथ ॥ २.७८.१०४ ॥
库鲁之裔啊,民之主啊,贤能的国王还献上了数百头象宝和野猪。
2.78.105
विराटेन तु मत्स्येन बल्यर्थं हेममालिनाम् ।
कुञ्जराणां सहस्रे द्वे मत्तानां समुपाहृते ॥ २.७८.१०५ ॥
马特希亚之王毗罗吒作为贡品献上了两千头佩戴金色花环的发情象。
2.78.106
पांसुराष्ट्राद्वमुदानो राजा षड्विंशतिं गजान् ।
अश्वानां चसहस्रे द्वे राजन्काञ्चनमालिनाम् ॥ २.७८.१०६ ॥
来自盘苏罗什特拉的国王伐穆陀那献上二十六头象和两千匹佩戴金色花环的马,大王啊。
2.78.107
जवसत्वोपपन्नानां वयस्थानां नराधिप ।
बलिं च कृत्स्नमादाय पाण्डवेभ्यो न्यवेदयत् ॥ २.७८.१०७ ॥
人主啊,他携带全部贡品,包括正当壮年、迅捷而有力的马匹,献给了般度之子们。
2.78.108
यज्ञसेनेन दासीनां सहस्राणि चतुर्दश ।
दासानामयुतं चैव सदाराणां विशाम्पते ॥ २.७८.१०८ ॥
耶祭那赠送了一万四千名女仆和一万名男仆,连同他们的妻子,民之主啊。
2.78.109
गजयुक्ता महाराज रथाः षड्विंशतिस्तथा ।
राज्यं च कृत्स्नं पार्थेभ्यो यज्ञार्थं वै निवेदितम् ॥ २.७८.१०९ ॥
大王,二十六辆以大象驾辕的战车,以及整个王国,已为祭祀献给了般度之子。
2.78.110
वासुदेवोऽपि वार्ष्णेयो मानं कुर्वन्किरीटिनः ।
अददद्गजमुख्यानां सहस्राणि चतुर्दश ॥ २.७८.११० ॥
毗黎族的婆苏提婆,出于对戴冠者(阿周那)的敬重,也献出了一万四千头上等大象。
2.78.111
आत्मा हि कृष्णः पार्थस्य कृष्णस्यात्मा धनञ्जयः ।
यद्ब्रूयादर्जुनः कृष्णं सर्वं कुर्यादसंशयम् ॥ २.७८.१११ ॥
克里希那是普利塔之子的自我,丹加耶是克里希那的自我。阿周那对克里希那说什么,克里希那无疑都会照做。
2.78.112
कृष्णो धनञ्जयस्यार्थे स्वर्गलोकमपि त्यजेत् ।
तथैव पार्थः कृष्णार्थे प्राणानपि परित्यजेत् ॥ २.७८.११२ ॥
为了丹加耶,克里希那甚至会舍弃天界;同样,为了克里希那,普利塔之子也会舍弃自己的性命。
2.78.113
सुरभींश्चन्दनरसान्हेमकुम्भसमास्थितान् ।
मलयाद्दर्दुराच्चैव चन्दनागुरुसञ्चयान् ॥ २.७८.११३ ॥
置于金瓮中的芬芳檀香精油,以及从摩罗耶山和达尔杜罗山运来的檀香与沉香之堆。
2.78.114
मणिरत्नानि भास्वन्ति काञ्चनं सूक्ष्मवस्त्रकम् ।
चोलपाण्ड्यावपि द्वारं न लेभाते ह्युपस्थितौ ॥ २.७८.११४ ॥
光彩夺目的珠宝与宝石、黄金与细布;即使朱罗与潘提亚的国王亲自到来,也未能获准进入大门。
2.78.115
समुद्रसारं वैदूर्यं मुक्तासङ्घांस्तथैव च ।
शतशश्च कुथांस्तत्र सिंहलाः समुपाहरन् ॥ २.७८.११५ ॥
海洋的精华,青金石宝石,成堆的珍珠,同样还有数百张珍贵的地毯,锡兰人把这些作为贡品带到了那里。
2.78.116
संवृता मणिचीरैस्तु श्यामास्ताम्रान्तलोचनाः ।
ता गृहीत्वा नरास्तत्र द्वारि तिष्ठन्ति वारिताः ॥ २.७८.११६ ॥
身披宝石衣裳、肤色黝黑、眼角泛红的女子——带她们来的男子被阻拦,站在门口。
2.78.117
प्रीत्यर्थं ब्राह्मणश्चैव क्षत्रियाश्च विनिर्जिताः ।
उपाजह्रुर्विशश्चैव शूद्राः शुश्रूषवस्तथा ॥ २.७८.११७ ॥
为了讨他欢心,婆罗门、被征服的刹帝利、吠舍,以及乐于效力的首陀罗也都献上了贡物。
2.78.118
प्रीत्या च बहुमानाच्चाप्युपागच्छन्युधिष्ठिरम् ।
सर्वे म्लेच्छाः सर्ववर्णा आदिमध्यान्तजास्तथा ॥ २.७८.११८ ॥
怀着爱戴与深深的敬意,他们来到了坚战面前——所有的蛮夷、各种种姓的人,以及出身于始、中、末的人也都如此。
2.78.119
नानादेशसमुत्थैश्चन नानाजितिभिरेव च ।
पर्यस्त इव लोकोऽयं युधिष्ठिरनिवेशने ॥ २.७८.११९ ॥
带着来自各地的物品与众多征服的战果,整个世界仿佛都铺陈在坚战的居所之中。
2.78.120
उच्चावचानुपग्राहान्राजभिः प्रापितान्बहून् ।
शत्रूणां पश्यतो दुःखान्मुमूर्षा मे व्यजायत ॥ २.७८.१२० ॥
眼见众王在敌人面前献上的种种贡物,高低不一,我心中竟生出因悲痛而欲死的念头。
2.78.121
भृत्यास्तु ये पाण्डवानां तांस्ते वक्ष्यामि पार्थिव ।
येषामामं च पक्वं च संविधत्ते युधिष्ठिरः ॥ २.७८.१२१ ॥
君王啊,我将告诉你般度之子的仆役,那些由坚战安排生食和熟食的人。
2.78.122
अयुतं त्रीणि पद्मानि गजारोहाः ससादिनः ।
थानामर्बुदं चापि पादाता बहवस्तथा ॥ २.७८.१२२ ॥
一万,三个钵头摩的象兵和骑兵;一个阿浮陀的战车,还有同样众多的步兵。
2.78.123
प्रमीयमाणमां च पच्यमानं तथैव च ।
विसृज्यमानं चान्यत्र पुण्याहस्वन एव च ॥ २.७८.१२३ ॥
正在称量的生食,同样正在烹煮的,在别处分发的,以及吉日的祝唱声。
2.78.124
नाभुक्तवन्तं नापीतं नालङ्कृतमसत्कृतम् ।
पश्यं सर्ववर्णानां युधिष्ठिरनिवेशने ॥ २.७८.१२४ ॥
在坚战的住所里,我看见各个种姓的人,没有一个未曾进食、未曾饮水、未曾受装饰或未曾受礼遇的。
2.78.125
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः ।
त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः।
सुप्रीताः परितृष्टाश्च ते ह्याशंसत्त्यरिक्षयम् ॥ २.७८.१२५ ॥
八万八千名完成吠陀学习的家主,坚战为每一人供养,连同三十名女仆。他们非常欢喜满足,愿敌人灭亡。
2.78.126
दशान्यानि सहस्राणि यतीनामूर्ध्वरेतसाम् ।
भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने ॥ २.७८.१२६ ॥
在坚战的住所里,另有一万名苦行者——семя向上提升的禁欲者——用金器吃饭。
2.78.127
अभुक्तं भुक्तवद्वापि सर्वमाकुब्जवामनम् ।
अभुञ्जाना याज्ञसेनी प्रत्यवैक्षद्विशाम्पते ॥ २.७८.१२७ ॥
未曾吃过的东西也仿佛吃过了;驼背和侏儒全都在场。众生之主啊,未进食的耶若塞尼环顾四周。
2.78.128
द्वौ करौ न प्रयच्छेतां कुन्तीपुत्राय भारत ।
साम्बन्धिकेनपाञ्चालाः सख्येनान्धकवृष्णयः ॥ २.७८.१२८ ॥
婆罗多的后裔啊,两只手并未赠予贡蒂之子;般遮罗人因亲缘,安陀迦与毗湿尼人因友谊,都与他同在。