摩诃婆罗多 · 章 2.79
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.79.1
आर्यास्तु ये वै राजानः सत्यसन्धा महाव्रताः ।
पर्याप्तविद्या वक्तारो वेदान्तावभृथप्लुताः ॥ २.७९.१ ॥
那些高贵的国王,信守誓言,持守大愿,学识渊博,善于言辞,已经以吠陀祭仪末尾的沐浴而得到净化。
2.79.2
धृतिमन्तो ह्रीनिषेवा धर्मात्मानो नाशस्विनः ।
मूर्धाभिषिक्तास्ते चैनं राजानः पर्युपांसते ॥ २.७९.२ ॥
那些坚毅、知耻、心怀正法、不贪的、头顶受灌顶的国王都来侍奉他。
2.79.3
दक्षिणार्थं समानीत राजभिः कांस्यदोहनाः ।
आरण्या बहुसाहस्रा अपश्यंस्तत्रतत्र गाः ॥ २.७९.३ ॥
为了祭司的酬金,诸王带来了数以千计、生于森林、以铜器挤奶的母牛;他们到处都看见了这些牛。
2.79.4
आजह्रस्तत्र सत्कृत्य स्वयमुद्यम्य भारत ।
अभिषेकार्थमव्यग्रा भाण्डमुच्चावचं नृपाः ॥ २.७९.४ ॥
婆罗多啊,那里诸王亲自恭敬地捧起,从容不迫地为灌顶取来各式各样的器皿。
2.79.5
बाह्लीको रथमाहार्षीज्जाम्बूनदविभूषितम् ।
सुदक्षिणस्तु युयुजे श्वेतैः काम्भोजजैर्हयैः ॥ २.७९.५ ॥
巴赫利迦带来了以阎浮檀金装饰的战车,苏达克希纳则套上了生于迦牟阇的白马。
2.79.6
सुनीथः प्रीतिमांश्चैव ह्यनुकर्षं महाबलः ।
ध्वजं चेदिपतिश्चैवमहार्षीत्स्वयमुद्यतम् ॥ २.७९.६ ॥
苏尼陀、怀有爱意的大力者阿努迦尔沙,以及车底国之主,同样带来了他们亲自高举的旗帜。
2.79.7
दाक्षिणात्यः सन्नहनं स्रगुष्णीषे च मागधः ।
वसुदानो महेष्वासो गजेन्द्रं षष्टिहायनम् ॥ २.७९.७ ॥
南方之王献上甲胄、花环与头巾;摩揭陀的伐苏陀那,大弓手,献上一头六十岁的象王。
2.79.8
मत्स्यस्त्वक्षान्हेमनद्धानेकलव्य उपानहौ ।
आवन्त्यस्त्वभिषेकार्थमपो बहुविधास्तथा ॥ २.७९.८ ॥
摩蹉王献上包金的骰子,伊迦罗婆耶献上鞋履,阿文提王献上多种圣水以供灌顶。
2.79.9
चेकितान उपासङ्गं धनुः काश्य उपाहरत् ।
असिं च सुत्सरुं शल्यः शैक्यं काञ्चनभूषणम् ॥ २.७९.९ ॥
车奇坦那献上箭囊,迦尸王献上弓;沙利耶献上剑与饰金的刹克亚木盾。
2.79.10
अभ्यपिञ्चत्ततो धौम्यो व्यासश्च समुहातपाः ।
नारदं च पुरस्कृत्य देवलं चासितं मुनिम् ॥ २.७९.१० ॥
随后,具大苦行的陀摩与毗耶娑为其灌顶;以那罗陀居前,提婆罗与仙人阿悉陀亦在其中。
2.79.11
प्रीतिमन्त उपातिष्ठन्नभिषेकं महर्षयः ।
जामदग्न्येन सहितास्तथान्ये वेदपारगाः ॥ २.७९.११ ॥
诸大仙心怀善意,前来参与灌顶,与持斧罗摩及其他通晓吠陀者同来。
2.79.12
अभिजग्मर्महात्मानो मन्त्रवद्भूरिदक्षिणम् ।
महेन्द्रमिव देवेन्द्रं दिवि सप्तर्षयो यथा ॥ २.७९.१२ ॥
大心诸仙持诵咒语,携丰厚布施而来,如天上七仙走近众神之主因陀罗。
2.79.13
अधारयच्छत्रमस्य सात्यकिः सत्यविक्रमः ।
धनञ्जयश्च व्यजने भीमसेनश्च पाण्डवः ॥ २.७९.१३ ॥
真勇的萨提奇为他撑起伞盖,达那jaya与般度之子毗摩色那挥动拂扇。
2.79.14
चामरे चापि शुद्धे द्वे यमौ जगृहतुस्तथा ।
उपागृह्णाद्यमिन्द्राय पुराकल्पे प्रजापतिः ॥ २.७९.१४ ॥
两把洁白的牦牛尾拂也同样由双生子——阎摩的一对——拿起;在往昔劫中,生主曾为因陀罗接纳阎摩。
2.79.15
तमस्मै शङ्खमाहार्षीद्वारुणं कलशोदधिः ।
शैक्यं निष्कसहस्रेण सुकृतं विश्वकर्मणा ॥ २.७९.१५ ॥
盛水瓶之源的大海为他取来了伐楼那的海螺,它由水晶制成,价值千尼什卡,由毗首羯磨巧妙制作。
2.79.16
तेनाभिषिक्तः कृष्णेन तत्र मे कश्मलोऽभवत् ।
गच्छन्ति पूर्वादपरं समुद्रं चापि दक्षिणम् ॥ २.७९.१६ ॥
黑天以那海螺受灌顶,我心中便生起了烦乱。他们从东方前往西方的大海,也前往南方。
2.79.17
उत्तरं तु गच्छन्ति विना तात पतत्र्रिभिः ।
तत्र स्म दध्मुः शतशः शङ्खान्मङ्गलकारकान् ॥ २.७९.१७ ॥
然而他们向北而行,不借飞禽。父王啊,那里数百人吹响了吉祥的海螺。
2.79.18
प्राणदन्त समाध्मातास्ततो रोमाणि मेऽहृषन् ।
प्रापतन्भूमिपालाश्च ये तु हीनाः स्वतेजसा ॥ २.७९.१८ ॥
被吹响的海螺轰鸣,我的汗毛随之竖起。那些失去自身光辉的国王们纷纷倒地。
2.79.19
धृष्टद्युम्नः पाण्डवाश्च सात्यकिः केशवोऽष्टमः ।
सत्वस्था वीर्यसम्पन्ना ह्यन्योन्यप्रियदर्शनाः ॥ २.७९.१९ ॥
檀斯陀尤摩那、般度五子、萨蒂亚奇,以及第八位羯舍婆——安住于善性,具足勇力,彼此相见甚为欢喜。
2.79.20
विसञ्ज्ञान्भूमिपान्दृष्ट्वा मां च ते प्राहसंस्तदा ।
ततः प्रहृष्टो बीभत्सुः प्रादाद्धेमविषाणिनाम् ॥ २.७९.२० ॥
见诸王昏迷,又见我,他们当时便讥笑。随后欢喜的毗跋蹉(阿周那)将金角之牛布施给诸婆罗门之首。
2.79.21
शतान्यनडुहां पञ्च द्विजमुख्येषु भारत ।
न रन्तिदेवो नाभागो यौवनाश्वो मनुर्न च ॥ २.७९.२१ ॥
婆罗多之子啊,五百头公牛布施给了诸婆罗门之首;然而蓝提提婆、那婆伽、尤凡那始瓦、摩奴都不曾如此(做到)。
2.79.22
न च राजा पृथुर्वैन्यो न चाप्यासीद्भगीरथः ।
ययातिर्नहुषो वापि यथा राजा युधिष्ठिरः ॥ २.७९.२२ ॥
维那之子国王普利图、婆吉罗陀亦非如此;耶耶提、那呼沙,或如国王坚战者,皆不如此。
2.79.23
यथाऽतिमात्रं कौन्तेयः श्रिया परमया युतः ।
राजसूयमवाप्यैवं हरिश्चन्द्र इव प्रभुः ॥ २.७९.२३ ॥
犹如昆提之子,以至上之福德超乎寻常,获得了王祭(罗阇苏耶),主者哈利旃陀罗也是如此。
2.79.24
एतां दृष्टा श्रियं पार्थे हरिश्चन्द्रे यथा विभो ।
कथं तु जीवितं श्रेयो मम पश्यसि भारत ॥ २.७९.२४ ॥
威力者啊,见到这富贵在普利陀之子与哈利旃陀罗身上,婆罗多啊,你为何认为我的生命还有什么可贵之处呢?
2.79.25
अन्धेनेव युगं नद्धं विपर्यस्तं नराधिप ।
कनीयांसो विवर्धन्ते ज्येष्ठा हीयन्त एव च ॥ २.७९.२५ ॥
人主啊,如同瞎子所系的轭被颠倒,年幼者日益增长,年长者却日渐衰减。
2.79.26
एवं दृष्ट्वा नाभिविन्दामि शर्म ।
समीक्षमाणोऽपि कुरुप्रवीर।
तेनाहमेवं कृशतां गतश्च ।
विवर्णतां चैव सशोकतां च ॥ २.७९.२६ ॥
库鲁之最啊,即便观望,我也找不到安宁;因此我变得如此消瘦、面色苍白、满怀忧愁。