Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.80

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.80.1

त्वं वै ज्येष्ठो ज्यैष्ठिनेयः पुत्र मा पाण्डवान्द्विषः ।
द्वेषा ह्यसुखमादत्ते यथैव निघनं तथा ॥ २.८०.१ ॥

你是长兄的长子,我的儿子;不要憎恨般度五子。仇恨带来痛苦,同样也带来毁灭。

2.80.2

अव्युत्पन्नं समानार्थं तुल्यमित्रं युधिष्ठिरम् ।
अद्विषन्तं कथं द्विष्यात्त्वादृशो भरतर्षभ ॥ २.८०.२ ॥

像你这样的人,怎能憎恨那位品行端正、志趣相同、对所有人一视同仁的坚战?他并不恨你,婆罗多族的雄牛啊!

2.80.3

तुल्याभिजनवीर्यश्च कथं भ्रातुः श्रियं नृप ।
पुत्र कामयसे मोहान्मैवं भूः शाम्य मा शुचः ॥ २.८०.३ ॥

国王啊,与你血统和勇力相当的兄弟,你怎能贪图他的财富?我的儿子,不要因迷惑而变成这样。平静下来,不要悲伤。

2.80.4

अथ यज्ञविभूतिं तां काङ्क्षसे भरतर्षभ ।
ऋत्विजस्तव तन्वन्तु सप्ततन्तुं महाध्वरम् ॥ २.८०.४ ॥

婆罗多族的雄牛啊,如果你想要那祭祀的荣耀,就让你的祭司们举行名为七线的大祭祀吧。

2.80.5

आहरिष्यन्ति राजानस्तवापि विपुलं धनम् ।
प्रीत्या च बहुमानाच्च रत्नान्याभरणानि च ॥ २.८०.५ ॥

各国之王也会因敬爱和极大的尊重,为你带来大量财富、宝石和饰物。

2.80.6

अनार्याचरितं तात परस्वस्पृहणं भृशम् ।
स्वसन्तुष्टः स्वधर्मस्थो यः स वै सुखमेधते ॥ २.८०.६ ॥

孩子,极度贪图他人财富是非高贵者的行为。那满足于自身、安住于自身法度的人,才真正在幸福中兴旺。

2.80.7

मही कामदुघा सा हि वीरपत्नीति चोच्यते ।
तथा वीरस्य भार्या श्रीस्ते इमे हि कलत्रवत् ॥ २.८०.७ ॥

此大地是能满足愿望的神牛,人们称她为英雄之妻。同样,英雄之妻是吉祥天;这两者对你而言都如同妻子。

2.80.8

तवाप्यस्ति हे चेद्वीर्यं भोक्ष्यसे हि महीमिमाम् ॥ २.८०.८ ॥

如果你也有勇力,那么你就会享有这片大地。

2.80.9

अयुक्तमिदमेतत्तु परस्वहरणं भृशम् ।
उभयोर्लोकयोर्दुःखं सुहृदां काङ्क्षतोऽनयम् ॥ २.८०.९ ॥

夺取他人的财富极为不当;它在两个世界都带来痛苦,对于希望朋友遭殃的人来说,这便是不义。

2.80.10

अव्यापारः परार्तेषु नित्योद्योगः स्वकर्मसु ।
रक्षणं समुपात्तानामेतद्वैभवलक्षणम् ॥ २.८०.१० ॥

不干预他人的苦难,在自己的职责中常勤不懈,守护已获得之物——这便是兴盛的标志。

2.80.11

विपत्तिष्वव्यथो दक्षो नित्यमुत्थानवान्नरः ।
अप्रमत्तो विनीतात्मा नित्यं भद्राणि पश्यति ॥ २.८०.११ ॥

在灾难中不动摇、能干、始终勤奋、警觉且心志谦逊的人,总能看见吉祥之事。

2.80.12

बाहूनिवैतान्मा च्छेत्सीः पाण्डुपुत्रास्तथैव ते ।
भ्रातृणां तद्धनार्थं वै मित्रद्रोहं च मा कुरु ॥ २.८०.१२ ॥

不要砍断你自己的手臂;般度之子同样是你的手臂。不要为了兄弟的财富而背叛朋友。

2.80.13

पाण्डोः पुत्रान्मा द्विषस्वेह राजं-
स्तथैव ते भ्रातृधनं समग्रम्।
मित्रद्रोहे तात महानघर्मः ।
पितामहा ये तव तेऽपि तेषाम् ॥ २.८०.१३ ॥

君王啊,不要在此憎恨般度之子,也不要夺取兄弟们的全部财富。亲爱的儿子,背叛朋友是大不义;你的祖父们也是他们的先祖。

2.80.14

अन्तर्वेद्यां ददद्वित्तं कामाननुभवन्प्रियान् ।
क्रीडन्स्त्रीभिर्निरातङ्कः प्रशाम्य भरतर्षभ ॥ २.८०.१४ ॥

在祭场之内布施财物,享受心爱的欢乐,无忧地与女子嬉戏,心境平静,婆罗多族中的雄牛啊。