摩诃婆罗多 · 章 2.81
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.81.1
यस्य नास्ति निजा प्रज्ञा केवलं तु बहुश्रुतः ।
न स जानाति शास्त्रार्थं दर्वी सूपरसानिव ॥ २.८१.१ ॥
没有自身智慧、仅仅多闻之人,不懂经典的义理,正如勺子不懂汤的滋味。
2.81.2
जानन्वै मोहयति मां नावि नौरिव संयता ।
स्वार्थे किं नावधानं ते उताहो द्वेष्टि मां भवान् ॥ २.८१.२ ॥
你明明知道,却使我迷惑,犹如两船相系。你为何不顾自身的利益?还是你憎恨我?
2.81.3
न सन्तीमे धार्तराष्ट्रा येषां त्वमनुशासिता ।
भविष्यमर्थमाख्यासि सर्वदा कृत्यमात्मनः ॥ २.८१.३ ॥
你所教导的持国之子们并不在此;你总是说将来之事,这本是自身的职责。
2.81.4
परनेयोऽग्रणीर्यस्य स मार्गान्प्रतिमुह्यति ।
पन्थानमनुगच्छेयुः कथं तस्य पदानुगाः ॥ २.८१.४ ॥
若引路渡人的先导自己在道路上迷失,那么跟随步行的人又怎能循此道而行?
2.81.5
राजन्परिणतप्रज्ञो वृद्धसेवी जितेन्द्रियः ।
प्रतिपन्नान्स्वकार्येषु संमोहयसि नो भृशम् ॥ २.८१.५ ॥
大王啊,你智慧成熟,侍奉长老,克制诸根;然而你却使我们这些专注于自身事务的人深深迷惑。
2.81.6
लोकवृत्ताद्राजवृत्तमन्यदाह बृहस्पतिः ।
तस्माद्राज्ञाऽप्रमत्तेन स्वार्थश्चिन्त्यः सदैव हि ॥ २.८१.६ ॥
布利哈斯帕蒂说,王者之行异于世俗之行;因此君王应当警觉,时常思虑自身的利益。
2.81.7
क्षत्रियस्य महाराज जये वृत्तिः समाहिता ।
स वै धर्मस्त्वधर्मो वा स्ववृत्तौ का परीक्षणा ॥ २.८१.७ ॥
大王啊,刹帝利的职分在于胜利。它是法还是非法,又何必在自身行为中去审察?
2.81.8
प्रकालयेद्दिशः सर्वाः प्रतोदेनेव सारथिः ।
प्रत्यमित्रश्रियं दीप्तां जिघृक्षुर्भरतर्षभ ॥ २.८१.८ ॥
如同御者以鞭策马,应当扫清四方。婆罗多中的雄者啊,欲夺取敌人光辉之荣耀者当如此行。
2.81.9
प्रच्छन्नो वा प्रकाशो वा योगो योऽरिं प्रबाधते ।
तद्वै शस्त्रं शस्त्रविदां न शस्त्रं छेदनं स्मृतम् ॥ २.८१.९ ॥
无论隐秘还是公开,凡能困扰敌人的谋略,便是武器;精通兵器者认为,仅能切割之物不算武器。
2.81.10
शत्रुश्चैव हि मित्रं च न लेख्यं न च मातृका ।
यो वै सन्तापयति यं स शत्रुः प्रोच्यते नृप ॥ २.८१.१० ॥
敌人与朋友都不应书写记录,也不应列入名册。国王啊,凡使人痛苦者,便称为敌人。
2.81.11
असन्तोषः श्रियो मूलं तस्मात्तं कामयाम्यहम् ।
समुच्छ्रये यो यतते स राजन्परमो नयः ॥ २.८१.११ ॥
不知足是财富之根,所以我渴求它。国王啊,努力求取上升者,便是最高的政略。
2.81.12
ममत्वं हि न कर्तव्यमैश्वर्ये वा धनेऽपि वा ।
पूर्वावाप्तं हरन्त्यन्ये राजध्रमं हि तं विदुः ॥ २.८१.१२ ॥
对于王权或财富,都不应生起执着。先前所得,他人会夺去;这便被称为王者之法。
2.81.13
अद्रोहसमंय कृत्वा चिच्छेद नमुचेः शिरः ।
शक्रः साऽभिमता तस्य रिपौ वृत्तिः सनातनी ॥ २.८१.१३ ॥
尽管与那木其订立了不相侵害的盟约,因陀罗仍斩下了他的头颅。对敌人如此行事,被认为是他永远应当的作为。
2.81.14
द्वावेतौ ग्रसते भूमिः सर्पो बिलशयानिव ।
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥ २.८१.१४ ॥
如同居于洞穴中的蛇吞噬一般,大地吞没这两者:不抵抗的国王,以及不出外游历的婆罗门。
2.81.15
नास्ति वै जातितः शत्रुः पुरुषस्य विशाम्पते ।
येन साधारणी वृत्तिः स शत्रुर्नेतरो जनः ॥ २.८१.१५ ॥
众生之主啊,人天生并没有敌人。唯有与自己谋生之道相同者才是敌人,其他人则不是。
2.81.16
शत्रुपक्षं समृध्यन्तं यो मोहात्समुपेक्षते ।
व्याधिराप्यायित इव तस्य मूलं छिनत्ति सः ॥ २.८१.१६ ॥
若有人因迷惑而轻视正在兴盛的敌方,他便如同长大的疾病一般,斩断了自己的根本。
2.81.17
अल्पोऽपि ह्यरिरत्यर्थं वर्धमानः पराक्रमैः ।
वल्मीको मूलज इव ग्रसते वृक्षमन्तिकात् ॥ २.८१.१७ ॥
即使是弱小的敌人,凭借其勇力极度壮大,也会像从树根长出的蚁冢吞没近旁的树木一样。
2.81.18
आजमीढ रिपोर्लक्ष्मीर्मा ते रोचिष्ट भारत ।
एष भारः सत्ववतां न यः शिरसि धिष्ठितः ॥ २.८१.१८ ॥
阿遮弥陀之裔啊,婆罗多啊,愿你不要喜爱敌人的兴盛。这不是放在有力者头上的重担。
2.81.19
जन्मवृद्धिमिवार्थानां यो वृद्धिमाभिकाङ्क्षते ।
एधते ज्ञातिषु स वै सद्यो वृद्धिर्हि विक्रमः ॥ २.८१.१९ ॥
若有人渴望财富增长,如同生来便得的兴盛,他便会在亲族之中立刻兴旺,因为兴盛唯由勇力而来。
2.81.20
नाप्राप्य पाण्डवैश्वर्यं संशयो मे भविष्यति ।
अवाप्स्ये वा श्रियं तां हि शयिष्ये वा हतो युधि ॥ २.८१.२० ॥
若不得到般度子孙的权势,我心中必有疑虑;或者我将获得那份荣华,或者我将在战场上被杀而倒卧。
2.81.21
एतादृशस्य किं मेऽद्य जीवितेन विशाम्पते ।
वर्धन्ते पाण्डवा नित्यं वयं स्वस्थिरवृद्धयः ॥ २.८१.२१ ॥
人主啊,处于这样的境地,今日我的生命又有何用?般度子孙日日兴盛,而我们只停留在稳定不变的兴旺之中。