摩诃婆罗多 · 章 2.83
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.83.1
ततः प्रायाद्विदुरोऽश्वैरुदारै-
र्महाजवैर्बलिभिः साधु दान्तैः।
बलान्नियुक्तो धृतराष्ट्रेण राज्ञा ।
मनीषिणां पाण्डवानां सकाशे ॥ २.८३.१ ॥
于是,维杜罗乘上高贵、疾如风、强健且训练有素的良马出发了。在国王持国的命令下,他前往智慧的般度五子那里。
2.83.2
सोऽभिपत्य तदध्वानमासाद्य नृपतेः पुरम् ।
प्रविवेश महाबुद्धिः पूज्यमानो द्विजातिभिः
ह्मणैः स्वस्ति वाच्याथ प्रययौ मन्दिराद्बहिः ॥ २.८३.२ ॥
他越过那条路,到达国王的城市,这位大智者在婆罗门的敬重下进入城中;婆罗门说完吉祥祝福后,他便离开了宫殿。
2.83.3
स राजगृहमासाद्य कुबेरभवनोपमम् ।
अभ्यागच्छत धर्मात्मा धर्मपुत्रं युधिष्ठिरम् ॥ २.८३.३ ॥
他来到了宛如俱毗罗宫殿的王宫,这位善良的人前往法之子坚战那里。
2.83.4
तं वै राजा सत्यधृतिर्महात्मा ।
अजातशत्रुर्विदुरं यथावत्।
पूजापूर्वं प्रतिगृह्याजमीढ-
स्ततोऽपृच्छद्धृतराष्ट्रं सपुत्रम् ॥ २.८३.४ ॥
那位坚守真实、心胸宽广的国王阿阇多设涅,先以敬意如法地接待了维杜罗;随后这位阿贾米扈王族后裔询问持国及其诸子的情况。
2.83.5
विज्ञायते ते मनसोऽप्रहर्षः ।
कच्चित्क्षत्तः कुशलेनागतोऽसि।
कच्चित्पुत्राः स्थविरस्यानुलोमा ।
वशानुगाश्चापि विशोऽथ कच्चित् ॥ २.८३.५ ॥
看来你心中并不欢喜。维杜罗,你平安到来了吗?老人的儿子们是否顺从听话?民众是否也都服从?
2.83.6
राजा महात्मा कुशली सपुत्र ।
आस्ते वृतो ज्ञातिभिरिन्द्रकल्पः।
प्रीतो राजन्पुत्रगुणैर्विनीतो ।
विशोक एवात्मरतिर्महात्मा ॥ २.८३.६ ॥
伟大的国王与他的儿子们安好。他如因陀罗一般,被亲族环绕。国王啊,他因儿子们的德行而欢喜,谦逊、无忧,是一位在自身中自得其乐的大心者。
2.83.7
इदं तु त्वां कुरुराजोऽभ्युवाच ।
पूर्वं पृष्ट्वा कुशलं चाव्ययं च।
इयं सभा त्वत्सभातुल्यरूपा ।
भ्रातॄणां ते दृस्यतामेत्य पुत्र ॥ २.८३.७ ॥
此外,库鲁王先询问你的平安与不朽的福祉,然后对你说:这个议会厅的形制与你的议会厅相同。孩子,来看看你兄弟们的这个集会吧。
2.83.8
समागम्य भ्रातृभिः पार्थ तस्यां ।
सुहृद्द्यूतं क्रियतां रम्यतां च।
प्रीयामहे भवतां सङ्गमेन ।
समागताः कुरवश्चापि सर्वे ॥ २.८३.८ ॥
Pṛthā之子啊,与你的兄弟们相聚后,愿那里举行友好的掷骰之戏,也愿大家欢乐。我们因你们的相聚而欢喜;所有的库鲁人也都聚集于此。
2.83.9
दुरोदरा विहिता ये तु तत्र ।
महात्मना धृतराष्ट्रेण राज्ञा।
तान्द्रक्ष्यसे कितवान्सन्निविष्टा-
नित्यागतोऽहं नृपते तज्जुषस्व ॥ २.८३.९ ॥
那里有大心者国王持国所任命的掷骰高手;你将看到那些坐在那里的赌徒。正为此故我来了;国王啊,请接受吧。
2.83.10
द्यूते क्षत्तः कलहो विद्यते नः ।
को वै रोचतने बुध्यमानः।
किं वा भवान्मन्यते युक्तरूपं ।
भवद्वाक्ये सर्व एव स्थिताः स्मः ॥ २.८३.१० ॥
克沙特里啊,在掷骰之戏中我们之间会有争端;哪个智者会赞许它呢?或者你认为什么才是合宜的?我们都依你的话而立。
2.83.11
जानाम्यहं द्यूतमनर्थमूलं ।
कृतश्च यत्नोऽस्य मया निवारणे।
राजा च मां प्राहिमोत्त्वत्सकाशं ।
श्रुत्वा विद्वञ्श्रेय इहाचरस्व ॥ २.८३.११ ॥
我知道赌博是祸患之根。我也曾努力阻止它。国王派我来见您。智者啊,请听后在此践行善道。
2.83.12
के तत्रान्ये कितवा दीव्यमाना ।
विना राज्ञो धृतराष्ट्रस्य पुत्रैः।
पृच्छामि त्वां विदुर ब्रूहि नस्तान् ।
यैर्दीव्यामः शतशः सन्निपत्य ॥ २.८३.१२ ॥
除了持国王的儿子们,那里还有哪些赌徒在玩?维杜罗啊,我问你:请告诉我们他们是谁,我们将与他们聚集,玩上百次。
2.83.13
गन्धारराजः शकुनिर्विशाम्पते ।
राजाऽतिदेवी कृतहस्तो मताक्षः।
विनिंशतिश्चित्रसेनश्च राजा ।
सत्यव्रतः पुरुमित्रो जयश्च ॥ २.८३.१३ ॥
人主啊,犍陀罗王沙恭尼,精通骰子、手法娴熟;还有国王毗纳提、制军、真实誓、普鲁弥多罗和胜。
2.83.14
महाभयाः कितवाः सन्निविष्टा ।
मायोपधा देवितारोऽत्र सन्ति।
धात्रा तु दिष्टस्य वशे किलेदं ।
सर्वं जगत्तिष्ठति न स्वतन्त्रम् ॥ २.८३.१४ ॥
这里聚集着极其危险、擅长欺诈手段的赌徒。确实,这整个世界都在造物主所定的命运之下,并非自主。
2.83.15
नाहं राज्ञो धृतराष्ट्रस्य शासना-
न्न गन्तुमिच्छामि कवे दुरोदरम्।
इष्टो हि पुत्रस्य पिता सदैव ।
तदस्मि कर्ता विदुरात्थ मां यथा ॥ २.८३.१५ ॥
智者啊,没有持国王的命令,我不愿前往赌局。父亲对儿子总是亲爱的;因此我会照着毗图罗对我所说的去做。
2.83.16
न चाकामः शकुनिना देविताहं ।
न चेन्मां जिष्णुराह्वयिता सभायाम्।
आहूतोऽहं न निवर्ते कदाचित् ।
तदाहितं शाश्वतं वै व्रतं मे ॥ २.८३.१६ ॥
若沙古尼向我挑战赌博,我并非不愿;即使胜者阿周那不在会堂中召唤我,一旦被召唤,我绝不退缩。这便是我永恒的誓言。
2.83.17
एवमुक्त्वा विदुरं धर्मराजः ।
प्रायात्रिकं सर्वमाज्ञाप्य तूर्णम्।
प्रायाच्छ्वोभूते सगणः सानुयात्रः ।
सह स्त्रीभिर्दौपदामादि कृत्वा ॥ २.८३.१७ ॥
对毗图罗说完这些话后,法王迅速下令准备一切行装。次日,他率随从与侍从出发,与妇女们同行,让德罗波蒂等人走在前头。
2.83.18
दैवं हि प्रज्ञां मुष्णाति चक्षुस्तेज इवापतत् ।
धातुश्च वशमन्वेति पाशैरिव नरः सितः ॥ २.८३.१८ ॥
命运确实夺走智慧,如同坠落的光芒夺走眼睛的光彩;人顺从造物主的掌控,如同被绳索束缚的人。
2.83.19
इत्युक्त्वा प्रययौ राजा सह क्षत्र्रा युधिष्ठिरः ।
अमृष्यमाणस्तस्याथ समाह्वानमरिन्दमः ॥ २.८३.१९ ॥
说完这些,国王坚战与克沙特利(毗图罗)一同前行。那时,征服敌人者无法忍受他的召唤……
2.83.20
बाह्लिकेन रथं यत्तमास्थाय परवीरहा ।
परिच्छन्नो ययौ पार्थो भ्रातृभिः सह पाण्डवः।
राजश्रिया दीप्यमानो ययौ ब्रह्मपुरः सरः ॥ २.८३.२० ॥
般遮罗的巴利迦所备之车上,灭敌英雄的普利塔之子般度族的阿周那与诸兄弟相随而行。他光辉照耀,以王者的威仪前往梵城之湖。
2.83.21
सन्दिदेश ततः प्रेष्यानागतान्नगरं प्रति ।
ततस्ते नृपशार्दूल चक्रुर्वै नृपशासनम् ॥ २.८३.२१ ॥
随后,他向前来城中的侍从下达了命令。王中之虎啊,他们便遵从了国王的旨意。
2.83.22
ततो राजा महातेजाः संयम्य सपरिच्छदम्। ॥ २.८३.२२ ॥
于是大光辉的国王,与随从一同收敛身心,
2.83.23
ब्राह्मणेभ्यो धनं दत्त्वा गत्यर्थं स यथाविधि ।
अन्येभ्यः स तु दत्त्वा च गन्तुमेवोपचक्रमे ॥ २.८३.२३ ॥
依照礼仪,他为远行向婆罗门施舍财物;又向其他人施予,便准备动身启程。
2.83.24
सर्वलक्षणसम्पन्नं राजहंसपरिच्छदम् ।
तमारुह्य महाराजो गजेन्द्रं षष्टिहायनम् ॥ २.८३.२४ ॥
他骑上那头具备一切吉兆、装饰如王家天鹅、年已六十的象王,大王便上路了。
2.83.25
हारी किरीटी हेमाभः सर्वाभरणभूषितः ।
रराज राजन्पार्थो वै परया नृपशोभया ॥ २.८३.२५ ॥
佩戴项链与宝冠,色如黄金,饰以一切璎珞的普利塔之子,大王啊,以至高的王者威仪光耀四方。
2.83.26
रुक्मवेदिगतः प्राज्यो ज्वलन्निव हुताशनः ।
ततो जगाम राजा स प्रहृष्टनरवाहनः ॥ २.८३.२६ ॥
这位国王坐在金色的祭坛上,光辉如祭火,随后在欢欣的人们抬举下出发了。
2.83.27
रथघोषेण महता पूरयन्वै नभः स्थलम् ।
संस्तूयमानः स्तुतिभिः सूतमागधबन्दिभिः ॥ २.८३.२७ ॥
以战车的巨大轰鸣充满天空,被御者、歌者和赞颂者以颂歌赞美。
2.83.28
महासैन्येन सहितो यथादित्यः स्वरश्मिभिः ।
ण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ॥ २.८३.२८ ॥
随同庞大的军队,如太阳携其光芒,头顶持着白伞。
2.83.29
बभौ युधिष्ठिरो राजा पौर्णमास्यामिवोडुराट् ।
चामरैर्हेमदण्डैश्च धूयमानः समन्ततः ॥ २.८३.२९ ॥
国王坚战如满月之夜的月亮般光耀,四面八方挥动着金柄的牦牛尾拂尘。
2.83.30
याशिषः प्रहृष्टानां नराणां पथि पाण्डवः ।
प्रत्यगृह्णाद्यथान्यायं यथआवद्भरतर्षभः ॥ २.८३.३० ॥
班度之子,婆罗多族的雄牛,按礼法如数回报了路上欢喜之人的祝福。
2.83.31
तथैव सैनिका राजन्राजानमनुयान्ति ये ।
तेषां हलहलाशब्दो दिवं स्तब्धः प्रतिष्ठितः ॥ २.८३.३१ ॥
大王啊,同样,跟随国王的士兵们的喧哗声充满天空,凝然不散。
2.83.32
नृपस्याग्ने ययौ राजन्भीमसेनो रथी बली ।
उभौ पार्श्वगतौ राज्ञः सतल्पौ वै सुकल्पितौ ॥ २.८३.३२ ॥
大王啊,乘车的强大的怖军走在国王前面。国王两侧走着两人,他们准备好了床榻。
2.83.33
अधिरूढौ यमौ चापि जग्मतुर्भरतर्षभ ।
शोभयन्तौ महासैन्यं तावुभौ रूपशालिनौ ॥ २.८३.३३ ॥
婆罗多族的雄牛啊,乘车的孪生兄弟也出发了。那两位相貌俊美者装点着大军而行。
2.83.34
पृष्ठतोऽनुययौ जिष्णुर्वीरः शस्त्रभृतां वरः ।
श्वेताश्वो गाण्डिवं गृह्य अग्निदत्तं रथं गतः ॥ २.८३.३४ ॥
英雄迦屠(阿周那),持武器者中最优秀者,从后面跟随。白马之主手持甘狄拔弓,乘着火神所赐的战车前行。
2.83.35
सैन्यमध्ये ययौ राजन्कुरुराजो युधिष्ठिरः ।
द्रौपदीप्रमुखा नार्यः सानुगाः सपरिच्छदाः ॥ २.८३.३५ ॥
大王啊,库卢王坚战(欢喜)行于军队中央。以德罗波蒂为首的妇女,与侍从和随身物品同行。
2.83.36
आरुह्य ता विचित्राङ्ग्यो यानानि विविधानि च ।
महत्या सेनया राजन्नग्रे यानानि विविधानि च। ॥ २.८३.३६ ॥
大王啊,那些肢体优美的女子登上各式车辆,随着大军前行,前面也有各式车辆。
2.83.37
समृद्धनरनागाश्वं सपताकरथध्वजम् ।
संनद्धवरनिस्त्रिंशं पथि निर्घोषनिः स्वनम् ॥ २.८३.३७ ॥
军队人马、象、马众多而富足,旗帜与战车的旗幡飘扬,披甲持精良宝剑,道路上充满了雷鸣般的喧声。
2.83.38
शङ्खदुन्दुभितालानां वेणुवीणानुवनादितम् ।
शुशुभे पाण्डवं सैन्यं प्रयास्यत्तत्तदा नृप ॥ २.८३.३८ ॥
啊,国王,潘杜之子的军队回响着海螺、鼓和钹的声音,以及长笛与琵琶的乐音,出发之时光彩焕发。
2.83.39
यथा कुबेरो लङ्कायां पुरा चात्यन्तशोभया ।
महत्या सेनया सार्धं गुरुमिन्द्रं स गच्छति ॥ २.८३.३९ ॥
如往昔俱毗罗在楞伽以极盛的光彩,率领大军前去拜见主神因陀罗。
2.83.40
तथा ययौ स पार्थोऽपि असङ्ख्येयविभूतिना ।
सुसमृद्धेन सैन्येन यथा वैश्रवणस्तथा ॥ २.८३.४० ॥
那普利塔之子亦以无量的威仪、极为兴盛的大军前行,如同毗沙罗那(俱毗罗)一般。
2.83.41
स सरांसि नदीश्चैव वनान्युपवनानि च ।
अत्यक्रामन्महाराज पुरीं चाभ्यवपद्यत ॥ २.८३.४१ ॥
大王啊,他越过湖泊、河流、森林与园林,抵达了城市。
2.83.42
स हास्तिनसमीपे तु कुरुराजो युधिष्ठिरः ।
चक्रे निवेशनं तत्र ततः स सहसैनिकाः ॥ २.८३.४२ ॥
库鲁王坚战就在哈斯蒂纳普拉附近,与士兵一同在那里扎下营寨。
2.83.43
शिवे देशे समे चैव न्यवसत्पाण्डवस्तदा ।
ततोराजन्समाहूय शोकविह्वलया गिरा ॥ २.८३.४३ ॥
潘杜之子们便居于吉祥而平坦之地。然后,大王啊,他以悲伤哽咽的声音将他们召来。
2.83.44
तद्वाक्यं च सर्वस्वं धृतराष्ट्रचिकीर्षितम् ।
आचचक्षे यथावृत्तं विदुरोऽथ नृपस्य ह ॥ २.८३.४४ ॥
维杜ra将德里塔拉什特拉的全部意图以及已经发生的事情,如实告诉了国王。
2.83.45
तच्छ्रुत्वा भाषितं तेन धर्मराजोऽब्रवीदिदम् ।
न मर्षयाम्यहं क्षत्तः समाह्वानं व्रतं हि मे।
स्वस्त्यस्तु लोके विप्राणां प्रजानां चैव सर्वदा ॥ २.८३.४५ ॥
法王坚战听后说:"维杜ra啊,我不会容忍这样的邀请,因为这是我的誓愿。愿世间婆罗门与百姓永远安康。"
2.83.46
प्रविवेश ततो राजा नगरं नागसाह्वयम् ।
धृतराष्ट्रेण चाहूतः कालस्य समयेन च ॥ २.८३.४६ ॥
于是国王进入了名为那伽萨呼瓦雅的城市,他已被德里塔拉什特拉在约定的时候召唤。
2.83.47
स हास्तिनपुरं गत्वा धृतराष्ट्रगृहं ययौ ।
समियाय च धर्मात्मा धृतराष्ट्रेण पाण्डवः ॥ २.८३.४७ ॥
这位正法之心的般度之子来到象城,前往德里塔拉什特拉的宫殿,与德里塔拉什特拉相见。
2.83.48
तथा भीष्मेण द्रोणेन कर्णेन च कृपेण च ।
समियाय यथान्यायं द्रौणिना च विभुः सह ॥ २.८३.४८ ॥
同样,依照礼节,这位大力者也与毗湿摩、德罗纳、迦尔纳、克里帕以及德罗纳之子阿湿婆陀摩相见。
2.83.49
समेत्य च महाबाहुः सोमदत्तेन चैव ह ।
दूर्योधनेन सभ्रात्रा सौबलेन च वीर्यवान् ॥ २.८३.४९ ॥
这位大臂而勇武的人与苏摩达多相见,又与德尔约达纳及其兄弟,以及娑婆罗(沙恭尼)相见。
2.83.50
ये चान्ये तत्र राजानः पूर्वमेव समागताः ।
दुःशासनेन वीरेण सर्वैर्भ्रातृभिरेव च ॥ २.८३.५० ॥
还有先前已在那里聚集的其他国王,以及英勇的难敌弟难降和所有兄弟。
2.83.51
जयद्रथेन च तथा कुरुभिश्चापि सर्वशः ।
ततः सर्वैर्महाबाहुर्भ्रातृभिः पिरवारितः ॥ २.८३.५१ ॥
与胜车及所有俱卢人同在;那时,这位大臂者被所有兄弟簇拥着(来到那里)。
2.83.52
प्रविवेश गृहं राज्ञो धृतराष्ट्रस्य धीमतः ।
ददर्श तत्र गान्धारीं देवीं पतिमनुव्रताम् ॥ २.८३.५२ ॥
他进入智慧之王持国的宫殿,在那里看见了忠于丈夫的女神甘陀利。
2.83.53
स्नुषाभिः संवृतां शश्वत्ताराभिरिव रोहिणीम् ।
अभिवाद्य स गान्धारीं तया च प्रतिनन्दितः ॥ २.८३.५३ ॥
他向甘陀利行礼,她总被儿媳们簇拥,如同罗诃尼被群星环绕;她也欢迎了他。
2.83.54
ददर्श पितरं वृद्धं प्रज्ञाचक्षुषमीश्वरम् ॥ २.८३.५४ ॥
他看见了年迈的父亲,那位以智慧之眼视物、却双目失明的主君。
2.83.55
राज्ञा मूर्धन्युपाघ्रातास्ते च कौरवनन्दनाः ।
चत्वारः पाण्डवा राजन्भीमसेनपुरोगमाः ॥ २.८३.५५ ॥
这些俱卢族的喜悦——以怖军为首的四位般度子——被国王亲吻了头顶,啊,国王。
2.83.56
ततो हर्षः समभवत्कौरवाणां विशाम्पते ।
तान्दृष्ट्वा पुरुषव्याघ्रान्पाण्डवान्प्रियदर्शनान् ॥ २.८३.५६ ॥
此时,俱卢族人心中生起喜悦,啊,民之主!他们看见般度五子——人中虎,令人悦目。
2.83.57
विविशुस्तेऽभ्यनुज्ञाता रत्नवन्ति गृहाणि च ।
ददृशुश्चोपयातारो द्रोपदीप्रमुखाः स्त्रियः ॥ २.८३.५७ ॥
得到允许后,他们进入装满珠宝的宅第,并看见以德罗波蒂为首前来的女子们。
2.83.58
याज्ञसेन्याः परामृद्धिं दृष्ट्वा प्रज्वलितामिव ।
स्नुषास्ता धृतराष्ट्रस्य नातिप्रमनसोऽभवन् ॥ २.८३.५८ ॥
看见耶克娑娜(德罗波蒂)至高的富足,犹如熊熊燃烧,持国王的儿媳们并不十分欢喜。
2.83.59
ततस्ते पुरुषव्याघ्रा ग्तवा स्त्रीभिस्तु संविदम् ।
कृत्वा व्यायामपूर्वाणि कृत्यानि प्रतिकर्म च ॥ २.८३.५९ ॥
此后,那些人中虎与妇女们商定,先行锻炼,然后履行日常职责与补救之事。
2.83.60
ततः कृताह्निकाः सर्वे दिव्यचन्दनभूषिताः ।
कल्याणमनसश्चैव ब्राह्मणान्स्वस्ति वाच्य च ॥ २.८३.६० ॥
此后,众人完成日常仪轨,以天上檀香装饰,心怀吉祥,向婆罗门说吉祥祝语。
2.83.61
मनोज्ञमशनं भुक्त्वा विविशुः शरणान्यथ ।
उपगीयमाना नारीभिरस्वपन्कुरुपुङ्गवाः ॥ २.८३.६१ ॥
用过美味的餐食后,他们进入休息之处,俱卢族中的雄牛们在女子们的歌声中入睡。
2.83.62
जगाम तेषां सा रात्रिः पुण्या रतिविहारिणाम् ।
स्तूयमानाश्च विश्रान्ताः काले निद्रामथात्यजन् ॥ २.८३.६२ ॥
那吉祥的夜晚在沉溺欢愉的他们身上过去了。受到赞颂、得到休息的他们,在适当的时候起身离开了睡眠。
2.83.63
मुखोषितास्ते रजनीं प्रातः सर्वे कृताह्निकाः ।
सभां रम्यां प्रविविशुः कितवैरभिनन्दिताः ॥ २.८३.६३ ॥
度过夜晚,漱口后,清晨完成了日常的仪式,他们众人在赌徒们的致意下,走进了美丽的议事厅。