Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.85

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.85.1

उपोह्यमाने द्यूते तु राजानः सर्व एव ते ।
धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां ततः ॥ २.८५.१ ॥

骰子游戏正在筹备之时,所有那些国王以持国置于前列,走进了那座议事厅。

2.85.2

भीष्मो द्रोणः कृपश्चैव विदुरश्च महामतिः ।
नातिप्रीतेन मनसा तेऽन्ववर्तन्त भारत ॥ २.८५.२ ॥

毗湿摩、德罗纳、克里巴,以及大智的维杜罗,也不甚欢喜地跟随着他们,婆罗多啊。

2.85.3

ते द्वन्द्वशः पृथच्कैव सिंहग्रीवा महौजसः ।
सिंहासनानि भूरिणी विचित्राणि च भेजिरे ॥ २.८५.३ ॥

那些狮颈、大力的诸王,两两或单独地坐上了许多奇异的狮子宝座。

2.85.4

शुशुभे सा सभा राजन्राजभिस्तैः समागतैः ।
देवैरिव महाभागैः समवेतैस्त्रिविष्टपम् ॥ २.८५.४ ॥

大王啊,那座大厅因聚集而来的诸王而光彩照人,犹如诸大福德之天神聚集时的三界。

2.85.5

सर्वे वेदविदः शूराः सर्वे भास्वरमूर्तयः ।
प्रवर्तत महाराज सुहृद्द्यूतमनन्तरम् ॥ २.८५.५ ॥

众人皆通晓吠陀,皆为勇士,形貌皆光辉;大王啊,此后便开始了友人之间的骰子赌局。

2.85.6

अयं बुहधनो राजन्सागरावर्तसम्भवः ।
मणिर्हारोत्तरः श्रीमान्कनकोत्तमभूषणः ॥ २.८५.६ ॥

大王啊,这是一颗价值巨大的宝珠,诞生于海洋的漩涡之中;光彩夺目,以项链为冠,饰以上等黄金。

2.85.7

एतद्राजन्मम धनं प्रतिपाणोऽस्ति कस्तव ।
येन मां त्वं महाराज धनेन प्रतिदीव्यसे ॥ २.८५.७ ॥

国王啊,这是我的财富。你的赌注是什么?伟大的国王啊,你将以何种财富与我博弈?

2.85.8

सन्ति मे मणयश्चैव धनानि सुबहूनि च ।
मत्सरश्च न मेऽर्थेषु जयस्वैनं दुरोदरम् ॥ २.८५.८ ॥

我有宝石和许多财富,在赌注上我并无妒意。赢下这场骰子游戏吧。

2.85.9

ततो जग्राह शकुनिस्तानक्षानक्षतत्त्ववित् ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ २.८५.९ ॥

于是精通骰子之道的沙古尼拿起那些骰子,对坚战说:“赢了!”

2.85.10

मत्त कैतकेनैव यज्जितोऽस्मि दुरोदरे ।
शकुने हन्त दीव्यामो ग्लहमानाः परस्परम् ॥ २.८५.१० ॥

沙古尼啊,我是因为诡计才在这场骰子游戏中落败的。来吧,我们彼此下注,再来一局。

2.85.11

सन्ति निष्कसहस्रस्य भाण्डिन्यो भरिताः शुभाः ।
कोशो हिरण्यमक्षय्यं जातरूपमनेकशः।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ॥ २.८५.११ ॥

有装满千尼斯卡的精美器皿;有取之不尽的黄金宝库,各种形式的精炼黄金。国王啊,这是我的财富;我将以此与你博弈。

2.85.12

कौरवाणां कुलकरं ज्येष्ठं पाण्डवमच्युतम् ।
इत्युक्तः शकुनिः प्राह जितमित्येव तं नृपम् ॥ २.८५.१२ ॥

被如此称呼之后,沙古尼对那位国王——作为俱卢族之源的长子般度族坚战——说:“赢了!”

2.85.13

अयं सहस्रसमितो वैयाघ्रः सुप्रतिष्ठितः ।
सुचक्रोपस्करः श्रीमान्किङ्किणीजालमण्डितः ॥ २.८५.१३ ॥

此车值千金:以虎皮覆盖,安置稳固,车轮与器具精美,华丽,饰有铃铛网。

2.85.14

संह्रादनो राजरथो य इहास्मानुपावहत् ।
जौत्रो रथवरः पुण्यो मेघसागरनिः स्वनः ॥ २.८५.१४ ॥

名为Saṃhrādana的王车,曾把我们带到这里;Jautra的最好的吉祥战车,其声如云与海。

2.85.15

अष्टौ यं कुररच्छायाः सदश्वा राष्ट्रसंमताः ।
वहन्ति नैषां मुच्येत पदाद्भूमिमुपस्पृशन्।
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥ २.८५.१५ ॥

八匹色如鹗的良马,为国中所尊,拉着它,且它们的蹄子从不触地。国王啊,此财富属于我;我以此与你博弈。

2.85.16

एवं श्रुत्वा व्यवसितो निकृतिं समुपाश्रितः ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ २.८५.१६ ॥

闻此言,遂决意依仗诡计,沙古尼对坚战说:“已胜!”

2.85.17

शतं दासीसहस्राणि तरुण्यो हेमभद्रिकाः ।
कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलङ्कृताः ॥ २.८५.१७ ॥

十万侍女,年轻女子饰以黄金,佩戴贝壳与臂钏,戴金项链,装饰精美。

2.85.18

महार्हमाल्याभरणाः सुवस्त्राश्चन्दनोक्षिताः ।
मणीन्हेम च बिभ्रत्यश्चतुःषष्टिविशारदाः ॥ २.८५.१८ ॥

佩戴贵重的花环与饰物,衣着华美,洒有檀香,佩戴珠宝与黄金,精通六十四艺。

2.85.19

अनुसेवां चरन्तीमाः कुशला नृत्तसामसु ।
स्नातकानाममात्यानां राज्ञां च मम शासनात्।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ॥ २.८५.१९ ॥

这些擅长舞蹈与歌唱的女子,遵从我的命令侍奉学成的梵行者、大臣和诸王。大王,这便是我的财富;我以此与你掷骰。

2.85.20

एतच्छुत्वा व्यवसितो निकृतिं समुपाश्रितः ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ २.८५.२० ॥

沙古尼听后,决意借助诡计,对坚战说:“你赢了!”

2.85.21

एतावन्ति च दासानां सहस्राण्युत सन्ति मे ।
प्रदक्षिणानुलोमाश्च प्रावारवसनाः सदा ॥ २.८५.२१ ॥

我还有这样的奴仆数千,他们谦恭顺从,常年披着外袍。

2.85.22

प्राज्ञा मेधाविनो दान्ता युवानो मृष्टकुण्डलाः ।
पात्रीहस्ता दिवारात्रमतिथीन्भोजयन्त्युत।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ॥ २.८५.२२ ॥

聪慧、有识、克己的青年,佩戴光亮的耳环,手持器皿,日夜为宾客供食。大王,这便是我的财富;我以此与你掷骰。

2.85.23

एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः ।
जितमित्येव शकुनिर्युधिष्ठिरभाषत ॥ २.८५.२३ ॥

沙古尼听后,决意借助诡计,对坚战说:“你赢了!”

2.85.24

सहस्रसङ्ख्या नगा मे मत्तास्तिष्ठन्ति सौबल ।
हेमकक्षाः कृतापीडाः पद्मिनो हेममालिनः ॥ २.८५.२४ ॥

萨鲍罗啊,我有数千头狂暴的象立于一旁,系着金制腹带,头饰华美,饰以莲花,挂着金制花环。

2.85.25

सुदान्ता राजवहनाः सर्वशब्दक्षमा युधि ।
ईषादन्ता महाकायाः सर्वे चाष्टकरेणवः ॥ २.८५.२५ ॥

训练有素的王家坐骑,能在战阵中忍受一切喧声,獠牙如犁辕,身躯庞大,都是八头母象。

2.85.26

सर्वे च पुरभेत्तारो नवमेघनिभा गजाः ।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ॥ २.८५.२६ ॥

所有的象,摧城者,如新云一般,国王啊,这便是我的财富;因此我与你对赌。

2.85.27

इत्येवंवादिनं पार्थं प्रहसन्निव सौबलः ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ २.८५.२७ ॥

对如此说话的般度子,苏巴拉之子沙古尼仿佛笑着对坚战说:"我赢了。"

2.85.28

रथास्तावन्त एवेमे हेमदण्डाः पताकिनः ।
हयैर्विनीतैः सम्पन्ना रथिभिश्चित्रयोधिभिः ॥ २.८५.२८ ॥

战车同样多,金杆旗帜,配有训练有素的马匹、熟练的御者和出色的战士。

2.85.29

एकैको ह्यत्र लभते सहस्रपरमां भृतिम् ।
युध्यतोऽयुध्यतो वापि वेतनं मासकालिकम्।
एतद्राजन्म धनं तेन दीव्याम्यहं त्वया ॥ २.८५.२९ ॥

这里每人,无论战斗与否,每月都得一千的上等俸禄。国王啊,这便是我的财富;因此我与你对赌。

2.85.30

इत्येवमुक्ते वचने कृतवैरो दुरात्मवान् ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ २.८५.३० ॥

这些话说完后,怀有敌意、心怀恶念的沙古尼对坚战说:"我赢了。"

2.85.31

अश्वांस्तित्तिरिकल्माषान्गान्धर्वान्हेममालिनः ।
ददौ चित्ररथस्तुष्टो यांस्तान्गाण्डीवधन्वने ॥ २.८५.३१ ॥

质使心悦,将那些斑点如鹧鸪、佩戴金环的乾闼婆马赠予持甘狄拔弓者。

2.85.32

युद्धे जितः पराभूतः प्रीतिपूर्वमरिन्दमः ।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ॥ २.८५.३२ ॥

战中所获,或败后以情相赠——王啊,此乃我的财富;以此,我与你对赌。

2.85.33

एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः ।
तमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ २.८५.३३ ॥

沙恭尼闻言,决意施以欺诈,遂对坚战如此说道。

2.85.34

रथानां शकटानां च श्रेष्ठानां चायुतानि मे ।
युक्तान्येव हि तिष्ठन्ति वाहैरुच्चावचैस्तथा ॥ २.८५.३४ ॥

我有上万辆上好的战车与车辆,皆已套好驾驭待命,并配有各色高下的牲畜。

2.85.35

एवं वर्णस्य वर्णस्य समुच्चीय सहस्रशः ।
यथा समुदिता वीराः सर्वे वीरपराक्रमाः ॥ २.८५.३५ ॥

如此,从每一种姓中聚集数千人——汇集的英雄,个个都有英勇的武艺。

2.85.36

क्षीरं पिबन्तस्तिष्ठन्ति भुञ्जानाः शालितण्डुलान् ।
षष्टिस्तानि सहस्राणि सर्वे विपुलवक्षसः।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ॥ २.८५.३६ ॥

他们站立着,饮牛奶、食上好的稻米——六万人,个个胸膛宽阔。王啊,此乃我的财富;以此,我与你对赌。

2.85.37

एतच्छ्रत्वा व्यवसितो निकृति समुपाश्रितः ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ २.८५.३७ ॥

沙恭尼闻言,决意借助诡计,对坚战说:“我赢了。”

2.85.38

ताम्रलोहैः परिवृता निधयो ये चतुः शताः ।
पञ्चद्रौणिक एकैकः सुवर्णस्याहतस्य वै ॥ २.८५.३८ ॥

有四百个宝库,周围包着铜和铁;每个都装有五德罗那量的锤打黄金。

2.85.39

जातरूपस्य मुख्यस्य नार्घो यस्य हि भारत ।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ॥ २.८५.३९ ॥

婆罗多啊,这无价的上等黄金,国王啊,便是我的财富;我以它与你对赌。

2.85.40

एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः ।
जितमित्येव शकुनिर्युधिष्ठिरमभापतः ॥ २.८५.४० ॥

沙恭尼闻言,决意借助诡计,对坚战说:“我赢了。”