Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.86

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.86.1

एवं प्रवर्तिते द्यूते घोरे सर्वापहारिणि ।
सर्वसंशयनिर्मोक्ता विदुरो वाक्यमब्रवीत् ॥ २.८६.१ ॥

如此,可怕的、夺去一切的赌博开始之时,解除一切疑惑的毗杜罗说了这些话。

2.86.2

महाराज विजानीहि यत्त्वां वक्ष्यामि भारत ।
मुमूर्षोरौषधमिव न रोचेतापि ते श्रुतम् ॥ २.८६.२ ॥

伟大的君王,婆罗多的后裔,请明白我要对你说的话;如同药物不合垂死之人的口味,这些话你或许听了也不喜欢。

2.86.3

यद्वै पुरा जातमात्रो रुराव ।
गोमायुवद्विस्वरं पापचेताः।
दुर्योधनो भारतानां कुलघ्नः ।
सोऽयं युक्तो भवतां कालहेतुः ॥ २.८६.३ ॥

从前刚出生便像豺狼一样以粗哑的声音哀嚎的、心怀恶念的杜尔约达那,婆罗多族的灭族者——正是此人成为你们毁灭的缘由。

2.86.4

गृहे वसन्तं गोमायुं त्वं वै मोहान्न बुध्यसे ।
दुर्योधनस्य रूपेण शृणु काव्यां गिरं मम ॥ २.८६.४ ॥

你因迷惑而不察觉住在你家里的豺狼;它以杜尔约达那的形象出现。请听我这富有智慧的话。

2.86.5

मधु वै माध्विको लब्ध्वा प्रपातं नैव बुध्यते ।
आरुह्य तं मज्जति वा पतनं चाधिगच्छति ॥ २.८६.५ ॥

得到蜂蜜的嗜蜜者,察觉不到悬崖;登上悬崖之后,他或沉没,或遭坠落。

2.86.6

सोऽयं मत्तोऽक्षद्यूतेन मधुवन्न पीरक्षते ।
प्रपातं बुध्यते नैव वैरं कृत्वा महारथैः ॥ २.८६.६ ॥

这个醉心于赌博的人,像得到蜂蜜一样欢喜,却不守护悬崖;与大车战士结怨之后,他仍然察觉不到。

2.86.7

विदितं मे महाप्राज्ञ भोजेष्वेवासमञ्जसम् ।
पुत्रं संत्यक्तवान्पूर्वं पौराणां हितकाम्यया ॥ २.८६.७ ॥

大智者啊,我清楚地知道,在诸婆阇中,往昔为了民众的福祉,曾经舍弃过一个儿子。

2.86.8

अन्धका यादवा भोजाः समेताः कंसमत्यजन् ।
नियोगात्तु हते तस्मिन्कृष्णेनामित्रघातिना ॥ २.८६.८ ॥

安陀迦、耶达瓦与诸婆阇聚集一起舍弃了刚萨;然而当他被灭敌者克里希纳奉命杀死之后……

2.86.9

एवं ते ज्ञातयः सर्वे मोदमानाः शतं समाः ।
त्वन्नियुक्तः सव्यसाची निगृह्णातु सुयोधनम् ॥ २.८६.९ ॥

如此,愿你所有亲族欢喜百年;愿你所派遣的萨维亚萨钦(阿周那)制服苏提那。

2.86.10

निग्रहादस्य पादस्य मोदन्तां कुरवः सुखम् ।
काकेनेमांश्चित्रवर्हाञ्शार्दूलान्क्रोष्टुकेन च।
क्रीणीष्व पाण्डवान्राजन्मा मज्जीः शोकसागरे ॥ २.८६.१० ॥

凭借制服他的脚,愿俱卢人欢喜安乐;正如以乌鸦换得彩羽之鸟、以豺狼换得虎,国王啊,请赎回班度之子;不要沉没在忧愁的海洋中。

2.86.11

त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ २.८६.११ ॥

为了家族,应舍弃一人;为了村庄,应舍弃家族;为了国土,应舍弃村庄;为了自身,应舍弃大地。

2.86.12

सर्वज्ञः सर्वभावज्ञः सर्वशत्रुभयङ्करः ।
इति स्म भाषते काव्यो जम्भत्यागे महाऽसुरान् ॥ २.८६.१२ ॥

“他全知,知晓一切存在之状,为一切敌人之恐怖”——在舍弃然婆之时,迦耶(优舍那)对诸大阿修罗如是说。

2.86.13

हिरण्यष्ठीविनः कांश्चित्पक्षिणो वनगोचरान् ।
गृहे किल कृतावासाँल्लोभाद्राजा न्यपीडयत्।
स चोपभोगलोभान्धो हिरण्यार्थी परन्तप ॥ २.८६.१३ ॥

国王出于贪欲,折磨了一些吐金的鸟,它们本在林中游荡,后来在屋中筑巢。他被享乐的贪欲蒙蔽,渴求黄金,哦,敌人的焚烧者,

2.86.14

आयतिं च तदात्वं च उभे सद्यो व्यनाशयत् ।
तदर्थकामस्तद्वत्त्वं माद्रुहः पाण्डवान्नृप ॥ २.८६.१४ ॥

他顷刻之间毁灭了未来与现在。哦,国王,贪图他们的财富,你也同样敌视摩德利之子般度五子。

2.86.15

मोहात्मा तप्स्यसे पश्चात्पत्रिहा पुरुषो यथा ।
जातञ्जातं पाण्डवेभ्यः पुष्पमादत्स्व भारत ॥ २.८६.१५ ॥

你心被迷惑,日后将如杀鸟的人一般悔恨。哦,婆罗多,从般度五子那里,只取每一件新生之物的花朵吧。

2.86.16

मालाकार इवारामे स्नेहं कुर्वन्पुनः पुनः ।
वृक्षानङ्गारकारीव मैनाद्याक्षीः समूलकान्।
मा गमः समुतामात्यः सबलश्च यमक्षयम् ॥ २.८६.१६ ॥

如园丁在花园里一次又一次悉心照料,不要像烧炭人那样连根毁掉树木。不要与你的大臣和军队一同前往阎摩的居所。

2.86.17

समवेतान्हि कः पार्थान्प्रतियुध्येत भारत ।
मरुद्भिः सहितो राजन्नपि साक्षान्मरुत्पतिः ॥ २.८६.१७ ॥

哦,婆罗多,当联合起来的普利塔之子在一起时,谁敢与他们交战?哦,国王,即便是与诸风神同在的风神之主、因陀罗本人。

2.86.18

द्यूतं मूलं कलहस्याभ्युपैति ।
मिथो भेदं महते दारुणाय।
तदा स्थितोऽयं धृतराष्ट्रस्य पुत्रो ।
दुर्योधनः सृजते वैरमुग्रम् ॥ २.८६.१८ ॥

赌博成为争吵的根源,相互的分裂导致可怕的毁灭。此时,持国之子难敌正在制造猛烈的仇恨。

2.86.19

प्रातिपेयाः शान्तनवा भीमसेनाः सबाह्निकाः ।
दुर्योधनापराधेन कृच्छ्रं प्राप्स्यन्ति सर्वशः ॥ २.८६.१९ ॥

普拉提帕的后裔与山塔努之子,连同毗摩森的军队及其骑兵,都将因难敌的过错而全面遭受苦难。

2.86.20

दुर्योधनो मदेनैव क्षेमं व्यपोहति ।
विषाणं गौरिव मदात्स्वयमारुजतेत्मनः ॥ २.८६.२० ॥

难敌仅因傲慢便抛弃了自己的安宁,正如发狂的牛自己折断了自己的角。

2.86.21

यश्चित्तमन्वेति परस्य राजन् ।
वीरः कविः स्वामवमत्य दृष्टिम्।
नावं समुद्र इव बालनेत्रा-
मारुह्य घोरे व्यसने निमज्जेत् ॥ २.८६.२१ ॥

国王啊,勇士与智者若轻视自己的判断而追随他人的心意,便会陷入可怕的灾祸之中,如同目光愚钝之人登上海中之船而沉没。

2.86.22

दुर्योधनो ग्लहते पाण्डवेन ।
प्रीयायसे त्वं जयतीति तच्च।
अतिनर्मा जायते संप्रहारो ।
यतो विनाशः समुपैति पुंसाम् ॥ २.८६.२२ ॥

难敌与般度之子赌博,你却高兴他会获胜。过度戏谑产生争斗,由此毁灭便降临人们身上。

2.86.23

आकर्षस्तेऽवाक्फलः सुप्रणीतो ।
हृदि प्रौढो मन्त्रपदः समाधिः।
युधिष्ठिरेण कलहस्तवाय-
मचिन्तितोऽभिमतः स्वबन्धुना ॥ २.८६.२३ ॥

引诱你的这场赌局会带来恶果;与坚战的这场争端是深植于你心中、经过深思的决意,正是你自己的亲族出乎意料所期望的。

2.86.24

प्रातिपेयाः शान्तनवाः शृणुध्वं ।
काव्यां वाचं संसदि कौरवाणाम्।
वैश्वानरं प्रज्वलितं सुघोरं ।
मा यास्यध्वं मन्दमनुप्रपन्नः ॥ २.८६.२४ ॥

普拉提帕的后裔、珊塔努的诸子,请听:在俱卢的议会中,这是明智之言。不要因愚蠢而投身于熊熊燃烧的极可怖之火。

2.86.25

यदा मन्युं पाण्डवोऽजातशत्रु-
र्न संयच्छेदक्षमदाभिभूतः।
वृकोदरः सव्यसाची यमौ च ।
कोऽत्र द्वीपः स्यात्तुमुले वस्तदानीम् ॥ २.८६.२५ ॥

当无敌者般若王坚战因不耐而被愤怒所胜,不能抑制怒火,而狼腹、左手善射者及双生子都在场时,那时在这场混乱中,你们将有何庇护?

2.86.26

महाराज प्रभवस्त्वं धनानां ।
पुरा द्यूतान्मनसा यावदिच्छेः।
बहुवित्तान्पाण्डवांश्चेज्जयस्त्वं ।
किं ते तत्स्याद्वसु विन्देह पार्थान् ॥ २.८६.२६ ॥

大王,你是财富的主人。在赌局之前,你心中所想多少,若你胜了富有的般度诸子,那财富于你又有何用?你将从普利塔之子们那里得到那份财富。

2.86.27

जानीमहे देवितं सौबलस्य ।
वेद द्यूते निकृतिं पार्वतीयः।
यतः प्राप्तः शकुनिस्तत्र यातु ।
मा यूयुधो भारत पाण्डवेयान् ॥ २.८६.२७ ॥

我们知道苏跋罗之子沙恭尼的博戏技艺;这位生于山中的沙恭尼深知赌局中的诡计。让沙恭尼回到他来的地方去吧;婆罗多啊,不要与般度诸子交战。