摩诃婆罗多 · 章 2.87
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.87.1
परेषामेव यशसा श्लोघसे त्वं ।
सदा क्षत्तः कुत्सयन्धार्तराष्ट्रान्।
जानीमहे विदुर यत्प्रियस्त्वं ।
बालानिवास्मानवमन्यसे नित्यमेव ॥ २.८७.१ ॥
维杜尔啊,你总是借他人的名声自夸,并诋毁持国王的儿子们。我们知道你偏爱谁;你总是像轻视孩子一样轻视我们。
2.87.2
स विज्ञेयः पुरुषोऽन्यत्रकामो ।
निन्दाप्रशंसे हि तथा युनक्ति।
जिह्वाऽऽत्मनो हृदयस्थं व्यनक्ति ।
जानीमहे त्वन्मनसः प्रातिकूल्यम् ॥ २.८७.२ ॥
心志在别处的人是可以被看出来的;在毁谤与赞美之中,舌头会泄露心中所藏。我们知道你的心与我们作对。
2.87.3
उत्सङ्गे च व्याल इवाहितोऽसि ।
मार्जरवत्पोषकं चोपहंसि।
भर्तृघ्नं त्वां न हि पापीय आहु-
स्तस्मात्क्षत्तः किं न बिभेषि पापात् ॥ २.८७.३ ॥
你如同藏在怀中的毒蛇,又像猫一样伤害养育你的人。人们说,没有比背叛主人的人更大的罪人;那么,维杜尔啊,你为何不怕罪过?
2.87.4
जित्वा शत्रून्फलमाप्तं महद्वै ।
माऽस्मान्क्षत्तः परुषामीह वोचः।
द्विषद्भिस्त्वं सम्प्रयोगाभिनन्दी ।
मुहुर्देषं यासि नः सम्प्रयोगात् ॥ २.८७.४ ॥
我们已经战胜敌人,获得了巨大的成果;维杜尔啊,不要在这里对我们说严厉的话。你乐于与敌人交往,因此与我们的交往使你一再招致憎恨。
2.87.5
अमित्रतां याति नरोऽक्षमं ब्रुव-
न्निगूहते गुह्यममित्रसंस्तवे।
तदाश्रितोऽपत्रप किं नु बाधसे ।
यदिच्छसि त्वं तदिहाभिभाषतसे ॥ २.८७.५ ॥
言语不当之人招致敌意;在敌人的陪伴中隐藏秘密。无耻之人啊,你为何依仗此事来扰乱我们?你在此说出的,正是你所想要的。
2.87.6
मा नोऽवमंस्था विद्य मानस्तवेदं ।
शिक्षस्व बुद्धिं स्थविराणां सकाशात्।
यशो रक्षस्व विदुर सम्प्रणीतं ।
मा व्यापृतः परकार्येशु भूस्त्वम् ॥ २.८७.६ ॥
智者啊,不要轻视我们;这正是你自己的荣誉。向长辈学习智慧。维杜罗啊,守护好良好的名声。不要插手他人之事。
2.87.7
अहं कर्तेति विदूर मा च मंस्था ।
मा नो नित्यं परुषाणीह वोचः।
न त्वां पृच्छामि विदुर यद्धितं मे ।
स्वस्ति क्षत्तर्मा तितिक्षून् क्षिण् त्वम् ॥ २.८७.७ ॥
维杜罗啊,不要以为是我在做主。不要在这里总对我们说严厉的话。维杜罗啊,我并不问你对我有益的事。御者啊,愿你安好;不要削弱那些忍耐的人。
2.87.8
एकः शास्ता न द्वितीयोऽस्ति शास्ता ।
गर्भे शयानं पुरुषं शास्ति शास्ता।
तेनानुशिष्टः प्रवणादिवाम्भो ।
यथा नियुक्तोऽस्ति तथा भवामि ॥ २.८७.८ ॥
只有一位主宰,并没有第二位主宰。主宰甚至统治那躺在母胎中的人。受他教导,如同水从斜坡流下,我便成为被安排的样子。
2.87.9
भिनत्ति शिरसा शैलमहिं भोजयते च यः ।
धीरेव कुरुते तस्य कार्याणामनुशासनम्।
यो बलादनुशास्तीह सोऽमित्रं तेन विन्दति ॥ २.८७.९ ॥
能以头碎岩、以饲喂蛇者,如坚毅之人般主宰自己的事务。在此以力强制统治者,因此便会得到敌人。
2.87.10
मित्रतामनुवृत्तं तु समुपेक्षत्यपण्डितः ।
दीप्य यः प्रदीप्ताग्निं प्राच्किरं नाभिधावति।
भस्मापि न स विन्देत शिष्टं क्वचन भारत ॥ २.८७.१० ॥
不明智者即使得到友谊的回报,也加以轻视;不奔向熊熊烈火者——婆罗多之子啊,他将无处找到哪怕是灰烬,剩余之物也不会有。
2.87.11
न वासयेत्पारवर्ग्यं द्विषन्तं ।
विशेषतः क्षत्तरहितं मनुप्यम्।
स यत्रेच्छसि विदुर तत्र गच्छ ।
सुसान्त्विता ह्यसती स्त्री जहाति ॥ २.८७.११ ॥
不应在家中留养敌视般度族一方的人,尤其是没有了执事(维杜罗)的时候。维杜罗啊,你想去哪里就去哪里吧;即使是得到了良好安慰的不贞女子,也会抛弃丈夫。
2.87.12
एतावता पुरुषं ये त्यजन्ति ।
तेषां सख्यमन्तवद्ब्रूहि राजन्।
राज्ञां हि चित्तानि परिप्लुतानि ।
सान्त्वं दत्वा मुसलैर्घातयन्ति ॥ २.८७.१२ ॥
请说,大王:那些因如此小事便抛弃他人的人,其友谊是短暂的。国王之心飘忽不定;给予安慰之后,他们便用木棒将人击杀。
2.87.13
अबालत्वं मन्यसे राजपुत्र ।
बालोऽहमित्येव सुमन्दबुद्धे।
यः सौहृदे पुरुषं स्थापयित्वा ।
पश्चादेनं दूषयते स बालः ॥ २.८७.१३ ॥
王子啊,你以为自己不是孩子。以为“我不是孩子”,愚钝之人啊:那使人在友谊中安立,之后却又玷污他的人,才是孩子,即愚人。
2.87.14
न श्रेयसे नीयते मन्दबुद्धिः ।
स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा।
ध्रुवं न रोचेद्भरतर्षभस्य ।
पतिः कुमार्या इव षष्टिवर्षः ॥ २.८७.१४ ॥
愚钝之人不会被引向善道。就像学者婆罗门家中败坏的妇人,六十岁的丈夫必定不会讨年轻女子的喜欢,婆罗多中的雄牛啊。
2.87.15
अतः प्रियं चेदनुकाङ्क्षसे त्वं ।
सर्वेषु कार्येषु हिताहितेषु
स्त्रियश्च राजञ्जडपङ्गुकांश्च ।
पृच्छ त्वं वै तादृशांश्चैव सर्वान् ॥ २.८७.१५ ॥
因此,若你所求是悦耳之言,国王啊,在一切有关利与害的事务上,去问女人、愚钝者、跛子,以及所有这样的人。
2.87.16
लभ्यते खलु पापीयान्नरोऽनु प्रियवागिह ।
अप्रियस्य हि पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ २.८७.१६ ॥
在此,诚然容易找到说悦耳之言的恶人,但说不悦耳却有益之言的人与听的人,却很稀少。
2.87.17
यस्तु धर्मपरश्च स्याद्धित्वा भर्तुः प्रियाप्रिये ।
अप्रियाण्याह पथ्यानि तेन राजा सहायवान् ॥ २.८७.१७ ॥
若有人奉行法,不顾主人的喜与怒,说出不悦耳却有益的话,国王便因此有了真正的助手。
2.87.18
अव्याधइजं कटुजं तीक्ष्णमुष्णं ।
यशोमुषं परुषं पूतिगन्धिम्।
सतां पेयं यन्न पिबन्त्यसन्तो ।
मन्युं महाराज पिब प्रशाम्य ॥ २.८७.१८ ॥
此怒虽不致病,生于苦涩,锐利、炽热,夺人名誉,粗厉而有恶臭,是善人所饮之物,恶人不饮。大王,请平息它而饮下。
2.87.19
वैचित्रवीर्यस्य यशो धनं च ।
वाञ्छाम्यहं सहपुत्रस्य शश्वत्।
यथा तथा तेऽस्तु नमश्चतेऽस्तु ।
ममापि च स्वस्ति दिशन्तु विप्राः ॥ २.८७.१९ ॥
我始终为您和您的儿子们祈愿毗质力耶的声望与财富。无论如何,向您致敬。愿婆罗门也赐予我福祉。
2.87.20
आशीविषान्नेत्रविषान्कोपयेन्न च पण्डितः ।
एवं तेऽहं वदामीदं प्रयतः कुरुनन्दन ॥ २.८७.२० ॥
智者不应激怒牙中有毒的蛇,也不应激怒眼中有毒的蛇。因此我谨慎地对你说这些,俱卢之喜。