Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.88

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.88.1

बहुवित्तं पराजैषीः पाण्डवानां युधिष्ठिर ।
आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम् ॥ २.८८.१ ॥

坚战啊,你已赢得了般度五子的大量财富。贡蒂之子,如果你还有未被征服的财富,就说出来吧。

2.88.2

मम वित्तमसङ्ख्येयं यदहं वेद सौबल ।
अथ त्वं शकुने कस्माद्वित्तं समनुपृच्छसि ॥ २.८८.२ ॥

我的财富无数,我都知道。苏波罗之子沙古尼啊,既然如此,你为何还要问我的财富呢?

2.88.3

अयुतं प्रयुतं चैव शङ्कुं पद्मं तथार्बुदम् ।
खर्वं शङ्खं निखर्वं च महापद्मं च कोटयः ॥ २.८८.३ ॥

阿由多、普拉由多、商古、莲花、阿尔布达、克尔瓦、海螺、尼克尔瓦、大莲花,以及千万亿,都是我的财富。

2.88.4

मध्यं चैव परार्धं च सपरं चात्र पण्यताम् ।
एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया ॥ २.८८.४ ॥

中数、半极数,以及至极之数,都请在此作为赌注。大王啊,我以此财富与你博弈。

2.88.5

एतच्छुत्वा व्यवसितो निकृतिं समुपाश्रितः ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ २.८८.५ ॥

沙古尼听了这话,便决意借助诡计,对坚战说:“我赢了。”

2.88.6

गवाश्वं बहुधेनूकमसङ्ख्येयमजाविकम् ।
यत्किञ्चिदनु पर्णाशां प्राक् सिन्धोरपि सौबल।
एतन्मम धनं सर्वं तेन दीव्याम्यहं त्वया ॥ २.८८.६ ॥

牛马、许多乳牛、无数的山羊与绵羊,凡在帕尔纳沙河畔及印度河以前的一切——苏波罗之子啊,这一切都是我的财富。我以此财富与你博弈。

2.88.7

एतच्छुत्वा व्यवसितो निकृतिं समुपाश्रितः ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ २.८८.७ ॥

沙恭尼听罢,决意借助诈术,对坚战说:"赢了!"

2.88.8

पुरं जनपदो भूमिरब्राह्मणधनैः सह ।
अब्राह्मणाश्च पुरुषा राजञ्शिष्टं धनं मम।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ॥ २.८८.८ ॥

城市、国土、土地,连同非婆罗门的财富,以及非婆罗门之人——王啊,这便是我剩下的财富。王啊,这便是我的财富;我以此与你对赌。

2.88.9

एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ २.८८.९ ॥

沙恭尼听罢,决意借助诈术,对坚战说:"赢了!"

2.88.10

राजपुत्रा इमे राजञ्छोमन्ते यैर्विभूषिताः ।
कुम्डलानि च निष्काश्च सर्वं राजविभूषणम्।
एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया ॥ २.८८.१० ॥

这些是王子,他们以此装饰而光彩照人;耳环与金饰,所有王者的珠宝也在其中。王啊,这便是我的财富;我以此与你对赌。

2.88.11

एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ २.८८.११ ॥

沙恭尼听罢,决意借助诈术,对坚战说:"赢了!"

2.88.12

श्यामो युवा लोहिताक्षः सिंहस्कन्धो महाभुजः ।
नकुलो ग्लह एवैकी विद्ध्येतन्मम तद्धनम् ॥ २.८८.१२ ॥

肤色黝黑、年轻、红眼、狮肩、臂膀强健的无种,正是唯一的赌注;须知这便是我的那份财富。

2.88.13

प्रियस्ते नकुलो राजन्राजपुत्रो युधिष्ठिर ।
अस्माकं वशतां प्राप्तो भूयः केनेह दीव्यसे ॥ २.८८.१३ ॥

国王啊,尤提斯提罗,你亲爱的王子那库拉如今已落入我们的掌控。你还要用什么在这里赌博?

2.88.14

एवमुक्त्वा तु तानक्षाञ्शकुनिः प्रत्यदीव्यत ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ २.८८.१४ ॥

沙古尼说完这番话,便又用那些骰子掷了一局;他说道“我赢了”,然后对坚战说。

2.88.15

अयं धर्मान्सहदेवोऽनुशास्ति ।
लोके ह्यस्मिन्पण्डिताख्यां गतश्च।
अनर्हता राजपुत्रेण तेन ।
दीव्याम्यहं चाप्रियवत्प्रियेण ॥ २.८८.१५ ॥

这位萨哈德瓦教导法义,在这世上他已获得智者之名。但那不配的王子让我与所爱之人对局,如同对待不喜之人一般;所以我仍在赌博。

2.88.16

एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ २.८८.१६ ॥

沙古尼听后,决意借助欺诈,对坚战说:“我赢了。”

2.88.17

माद्रीपुत्रौ प्रियौ राजंस्तवेमौ विजितौ मया ।
गरीयांसौ तु मन्ये भीमसेनधनञ्जयौ ॥ २.८८.१७ ॥

国王啊,你所爱的这两位摩德利之子已被我赢去。但我认为,比起他们,毗摩森那与阿周那更为尊贵。

2.88.18

अधर्मं चरसे नूनं यो नावेक्षसि वै नयम् ।
यो नः सुमनसां मूढ विभेदं कर्तुमिच्छसि ॥ २.८८.१८ ॥

你一定是在行不义,因为你不顾正道。愚人啊,你想在我们这些心存善意的人之间挑起分裂。

2.88.19

गर्ते मत्तः प्रपतते प्रमत्तः स्थाणुमृच्छति ।
ज्येष्ठो राजन्व्ररिष्ठोऽसि नमस्ते भरतर्षभ ॥ २.८८.१९ ॥

醉者坠入深坑,疏忽者撞上木桩。王啊,你是长者,也是最优者;婆罗多族的雄牛,向你致敬。

2.88.20

स्वप्ने तानि न दृश्यन्ते जाग्रतो वा युधिष्ठिर ।
कितवा यानि दीव्यन्तः प्रलपन्त्युत्कटा इव ॥ २.८८.२० ॥

唯 युधिष्ठिर,梦中与醒时皆见不到的事物,赌徒在掷骰时却像疯狂之人一样胡言乱语。

2.88.21

यो नः सङ्ख्ये नौरिव पारनेता ।
जेता रिपूणां राजपुत्रस्तरस्वी।
अनर्हता लोकवीरेण तेन ।
दीव्याम्यहं शकुने फाल्गुनेन ॥ २.८८.२१ ॥

在战场上,他是引领我们渡过彼岸的船,是敌人的征服者,是王子,迅捷而有力——世界英雄法尔古那(阿周那)。没有他,我与你掷骰,啊沙恭尼。

2.88.22

एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ २.८८.२२ ॥

沙恭尼听罢,决意诉诸欺诈,对坚战说道:「赢了!」

2.88.23

अयं मया पाण्डवानां धनिर्धरः ।
पराजितः पाण्डवः सव्यसाची।
भीमेन राजन्दयितेन दीव्य ।
यत्कैतवं पाण्डव तेऽवशिष्टम् ॥ २.८८.२३ ॥

这是我从般度族赢来的财富,我是持注者。般度族的萨维亚萨钦(阿周那)已被击败。王啊,与你所爱的毗摩对局吧;般度之子,把你剩下的诡计都使出来吧。

2.88.24

यो नो नेता यो युधि नः प्रणेता ।
यथा वज्री दानवशत्रुरेकः।
तिर्यक्प्रेक्षी सन्नतभ्रूर्महात्मा ।
सिंहस्कन्धो यश्च सदाऽत्यमर्षी ॥ २.८८.२४ ॥

他是我们的领袖,是我们在战场上的引导者,如手持金刚杵的因陀罗,独自为阿修罗之敌;那位大德,斜视而眉头低垂,肩如雄狮,且总是极其易怒。

2.88.25

बलेन तुल्यो यस्यप पुमान्न विद्यते ।
गदाभृतामग्र्य इहारिमर्दनः।
अनर्हता राजपुत्रेण तेन ।
दीव्याम्यहं भीमसेनेन राजन् ॥ २.८८.२५ ॥

无人能与他的力量相比;他在此是持杖者中的第一人,是敌人的摧毁者。国王啊,我与这位不配的王子、与毗摩森那一同掷骰子。

2.88.26

एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ २.८८.२६ ॥

沙恭尼听罢,决意诉诸欺诈,对坚战说道:「赢了。」

2.88.27

बहुवित्तं पराजैषीर्भ्रातॄंश्च सहयद्विपान् ।
आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम् ॥ २.८८.२७ ॥

你输掉了许多财富、兄弟,以及马匹和象群。俄罗之子啊,若你尚有未输的财物,便说出来。

2.88.28

अहं विशिष्टः सर्वेषां भ्रातॄणां दयितस्तथा ।
कुर्यामहं जितः कर्म स्वयमात्मन्युपल्पुते ॥ २.८८.२८ ॥

我在诸兄弟中最为杰出、最受喜爱。既然已输,我将自己对自己施行那事。

2.88.29

एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ २.८८.२९ ॥

沙恭尼听罢,决意诉诸欺诈,对坚战说道:「赢了。」

2.88.30

एतत्पापिष्ठमकरोर्यदात्मानं पराजयेः ।
शिष्टे सति धने राजन्पाप आत्मपराजयः ॥ २.८८.३० ॥

你竟输掉了自己,这是你所做的最罪恶之事。国王啊,在尚有财物之时自败,便是罪过。

2.88.31

एवमुक्त्वा मताक्षस्तान् ग्लहे सर्वानवस्थितान् ।
पराजयल्लोकवीरानुक्त्वा राज्ञां पृथक् पृथक् ॥ २.८८.३१ ॥

他如此说完,这位掷骰高手逐一呼唤在场就座的世界英雄国王,使他们全部落败。

2.88.32

अस्ति ते वै प्रिया राजन् ग्लह एकोऽपराजितः ।
पणस्व कृष्णां पाञ्चालीं तयात्मानं पुनर्जय ॥ २.८८.३२ ॥

国王啊,你心爱的一注仍未被击败。请将般遮罗的克里希娜作为赌注,并借她赢回你自己。

2.88.33

नैव ह्रस्वा न महती न कृशा नातिरोहिणी ।
नीलकुञ्चितकशी च तया दीव्याम्यहं त्वया ॥ २.८८.३३ ॥

她既不矮也不高,既不瘦也不过白;她的头发黑而卷曲。我以她与你掷骰。

2.88.34

शारदोत्पलपत्राक्ष्या शारदोत्पलगन्धया ।
शारदोत्पलसेविन्या रूपेण श्रीसमानया ॥ २.८८.३४ ॥

与她同在——她有如秋莲花瓣般的眼睛,散发秋莲的芬芳,喜爱秋莲,容貌与吉祥天女(Śrī)相当。

2.88.35

तथैव स्यादानुशंस्यात्तथ स्याद्रूपसम्पदा ।
तथा स्याच्छीलसम्पत्त्या यामिच्छेत्पुरुषः स्त्रियम् ॥ २.८८.३५ ॥

男人所欲求的女子,应当在仁慈上如此,在容貌之富上如此,在品德之富上也如此。

2.88.36

सर्वैर्गुणैर्हि सम्पन्नामनुकूलां प्रियंवदाम् ।
यादृशीं धर्मकामार्थसिद्धिमिच्छेन्नरः स्त्रियम् ॥ २.८८.३६ ॥

具备一切德行、顺从且言语和悦的女子,正如男人为求得法、欲与财的成就所愿求者。

2.88.37

चरमं संविशति या प्रथमं प्रतिबुध्यते ।
आगोपालाविपालेभ्यः सर्वं वेद कृताकृतम् ॥ २.८८.३७ ॥

她最后入睡、最先醒来,连牧牛人和牧羊人所做与未做之事,她都一清二楚。

2.88.38

आभाति पद्मवद्वक्त्रं सस्वेदं मल्लिकेव च ।
वेदीमध्या दीर्घकेशी ताम्रास्या नातिलोमशा ॥ २.८८.३८ ॥

她的面容如莲花般明艳,汗水中又如茉莉般清丽。腰肢纤细如祭坛,长发,朱唇,体毛不多。

2.88.39

तयैवंविधया राजन्पाञ्चाल्याहं सुमध्यमा ।
ग्लहं दीव्यामि चार्वङ्ग्या द्रौपद्या हन्त सौबल ॥ २.८८.३९ ॥

大王啊!我以这位般遮罗公主、腰身纤细、肢体秀美的德劳帕蒂作为赌注而掷骰。唉,苏跋罗之子啊!

2.88.40

एवमुक्ते तु वचने धर्मराजेन धीमता ।
धिग्धिगित्येव वृद्धानां सभ्यानां निः सृता गिरः ॥ २.८८.४० ॥

当智慧的法王说完这番话,长老与与会者的口中只发出了“耻辱!耻辱!”之声。

2.88.41

चुक्षुभे सा सभा राजन्राज्ञां सञ्जत्रिरे शुचः ।
भीष्मद्रोणकृपादीनां स्वेदश्च समजायत ॥ २.८८.४१ ॥

大王啊,那集会顿时骚动;诸王因悲痛而呻吟,毗湿摩、德罗纳、克利巴等人身上竟渗出了汗水。

2.88.42

शिरो गृहीत्वा विदुरो गतसत्व इवाभवत् ।
आस्ते ध्यायन्नधोवक्त्रो निः श्वसन्निव पन्नगः ॥ २.८८.४२ ॥

维杜罗双手抱头,仿佛失了生气。他低着头坐下沉思,像蛇一样长长地叹息。

2.88.43

बाह्लीकः सोमदत्तश्च प्रातिपेयश्च सञ्जयः ।
द्रौणिर्भूरिश्रवाश्चैव युयुत्सुर्धृतराष्ट्रजः।
आसुर्वीक्ष्य त्वधोवक्त्रा निश्वसन्त इवोरगाः ॥ २.८८.४३ ॥

跋利迦、索摩达多、波罗提毗耶、珊阇耶、德罗尼之子、婆利殊罗婆斯,以及持国之子郁由措,见此情景,皆垂首而坐,如蛇般叹息。

2.88.44

धृतराष्ट्रस्तु संहृष्टः पर्यपृच्छत्पुनः पुनः ।
किं जितं किं जितमिति ह्याकारं नाभ्यरक्षत ॥ २.८८.४४ ॥

持国却大喜,屡次问道:“赢了什么?赢了什么?”他竟不能掩饰自己的喜色。

2.88.45

जहर्ष कर्णोऽतिभृशं सह दुःशासनादिभिः ।
इतरेषां तु सभ्यानां नेत्रेभ्यः प्रापतञ्जलम् ॥ २.८८.४५ ॥

迦尔纳与难降等人大为欢喜,然而议会中其他人的眼中却流下了泪水。

2.88.46

सौबलस्त्वभिघायैव जितकाशी मदोत्कटः ।
जितमित्येव तानक्षान्पुररेवान्वपद्यत ॥ २.८८.४६ ॥

然而苏跋罗之子沙恭尼掷出骰子,自以为胜利,骄狂不已,高呼“胜了!胜了!”,便将那些骰子拢到自己面前。