摩诃婆罗多 · 章 2.89
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.89.1
एहि क्षत्तर्द्रौपदीमानस्व ।
प्रियां भार्यां संमतां पाण्डवानाम्।
संमार्जतां वेश्म परैतु शीघ्रं ।
तत्रास्तु दासीभिरपुण्यशीला ॥ २.८९.१ ॥
来吧,维杜罗,把般遮罗公主德罗波蒂——般度五子所爱敬的妻子——带来。让她快去打扫房屋,与女仆们一同待在那里,品行不善。
2.89.2
दर्विभाषं भाषितं त्वादृशेन ।
न मन्द सम्बुद्ध्यसि पाशबद्धः।
प्रपाते त्वं लम्बमानो न वेत्सि ।
व्याघ्रान्मृगः कोपयसेऽतिवेलम् ॥ २.८९.२ ॥
像你这样的人竟说出如此恶言。愚蠢的人啊,你已被罗网缠住却不自知。悬于深渊边缘而不察觉;如同鹿遇见老虎,你过度地激起愤怒。
2.89.3
आशीविषास्ते शिरसि पूर्णकोपा महाविषाः ।
मा कोपिष्ठाः सुमन्दात्मन्मा गमस्त्वं यमक्षयम् ॥ २.८९.३ ॥
你头上有充满愤怒、剧毒无比的蛇。愚蠢的人啊,不要激怒它们;不要前往阎摩的居所。
2.89.4
न हि दासीत्वमापन्ना कृष्णा भवितुमर्हति ।
जनीशेन हि राज्ञैषा पणे न्यस्तेति मे मतिः ॥ २.८९.४ ॥
黑公主不配陷入奴隶的境地;依我之见,她是由国王本人押上赌注的。
2.89.5
अयं दत्ते वेणुरिवात्मघाती ।
फलं राजा धृतराष्ट्रस्य पुत्रः।
द्यूतं हि वैराय महाभयाय ।
मत्तो न बुध्यत्ययमन्तकालम् ॥ २.८९.५ ॥
此人如竹子般自我毁灭。这位持国王之子,即国王,正在收获自己的果实。赌博必定带来仇恨与巨大的恐惧。即便听了我的话,他也不明白自己的死期将至。
2.89.6
नारुन्तुदः स्यान्न नृशंसवादी ।
न हीनताः परमभ्याददीत।
ययास्य वाचा पर उद्विजेत ।
न तां वदेदुशती पापलोक्याम् ॥ २.८९.६ ॥
不should以严厉之言伤人,不说残忍之语,也不可贬低他人。不说那使他人惊扰的话语,那导向罪恶世界的言辞。
2.89.7
समुच्चरन्त्यतिवादाश्च वक्त्रा-
ध्यौराहतः शोचति रात्र्यहानि।
परस्य नामर्मसु ते पतन्ति ।
तान्पण्डितो नावसृजेत्परेषु ॥ २.८९.७ ॥
口中吐出的严厉之言伤及心神,受伤者日夜悲伤。这些话落在他人的要害之处。智者不应将其加诸他人。
2.89.8
अजो हि शस्त्रमगिलत्किलैकः ।
शस्त्रे विपन्ने शिरसास्य भूमौ।
निकृन्तनं स्वस्य कण्ठस्य घोरं ।
तद्वद्वेरं मा कृथाः पाण्डुपुत्रैः ॥ २.८९.८ ॥
据说一只山羊吞下了一件兵器;兵器卡住后,它将头撞向地面,可怕地割断了自己的喉咙。同样,不要与般度之子结下仇怨。
2.89.9
न किञ्चिदित्थं प्रवदन्ति पार्था ।
वनेचरं वा गृहमेधिनं वा।
तपस्विनं वा परिपूर्णविद्यं ।
भषन्ति हैवं श्वनराः सदैव ॥ २.८९.९ ॥
普利塔之子不说这样的话,无论那人是林居者、居家者、苦行者还是博学之人。只有如狗般的人才总是这样吠叫。
2.89.10
द्वारं सुघोरं नरकस्य जिह्यं ।
न बुध्यते धृतराष्ट्रस्य पुत्रः।
तमन्वेतारो बहवः कुरूणां ।
द्यूतोदये सह दुःशासनेन ॥ २.८९.१० ॥
这是地狱极其可怕的曲折之门,而持国之子并不明白这一点。赌博兴起之时,许多俱卢族人与难降一同追随他。
2.89.11
मज्जन्त्यलाबूनि शिलाः प्लवन्ते ।
मुह्यन्ति नावोम्भसि शश्वदेव।
मूढो राजा धृतराष्ट्रस्य पुत्रो ।
न मे वाचः पथ्यरूपाः शृणोति ॥ २.८९.११ ॥
葫芦沉没,石头浮起;水上的船只总是迷失方向。愚昧的国王,持国之子,不听我有益的话语。
2.89.12
अन्तो नूं भवितायं करूणां ।
सुदारुणः सर्वहरो विनाशः।
वाचः काव्याः सुहृदां पथ्यरूपा ।
न श्रूयन्ते वर्धते लोभ एव ॥ २.८९.१२ ॥
库鲁族的末日必将到来,一场极其可怕、吞噬一切的毁灭。朋友们智慧而有益的话无人聆听;只有贪欲在增长。
2.89.13
धिगस्तु क्षत्तारमिति ब्रुवाणो ।
दर्पेण मत्तो धृतराष्ट्रस्य पुत्रः।
अवैक्षत प्रातिकामीं सभाया-
मुवाच चैनं परमार्यमध्ये ॥ २.८९.१३ ॥
他说:“让这个刹帝(管家)蒙羞!”持国之子因傲慢而迷醉,在集会中看向般提伽彌,在尊贵者中对他说道。
2.89.14
त्वं प्रातिकामिन्द्रौपदीमानयस्व ।
न ते भयं विद्यते पाण्डवेभ्यः।
क्षत्ता ह्ययं विवदत्येव भीतो ।
न चास्माकं वृद्धिकामः सदैव ॥ २.८९.१४ ॥
“般提伽彌,你去把德劳帕蒂带来。你不必惧怕般度之子。这管家只是出于恐惧才说话;他从不希望我们昌盛。”
2.89.15
एवमुक्तः प्रातिकामी स सूतः ।
प्रायाच्छीघ्रं राजवचो निशम्य।
प्रविश्य च श्वेव हि सिंहगेष्ठं ।
समासदन्महिषीं पाण्डवानाम् ॥ २.८९.१५ ॥
如此吩咐之后,御者般提伽彌听了国王的话,迅速前往。像狗闯进狮子的洞穴一样,他走进去,来到了般度之子的王后面前。
2.89.16
युधिष्ठिरो द्यूतमदेन मत्तो ।
दुर्योधनो द्रौपदि त्वामजैषीत्।
सा त्वं प्रपद्यस्व धृतराष्ट्रस्य वेश्म ।
नयामि त्वां कर्मणि याज्ञसेनि ॥ २.८९.१६ ॥
尤提希提罗因赌博的迷醉而神志昏乱,德罗波蒂啊,难敌赢得了你。你现在去持国王的宫殿吧。苏摩耶那之女啊,我将带你去做你的差事。
2.89.17
कथं त्वेवं वदसि प्रातिकामि-
को हि दीव्येद्भार्यया राजपुत्रः।
मूडो राजा द्यूतमदेन मत्तो ।
ह्यभून्नान्यत्कैतवमस्य किञ्चित् ॥ २.८९.१७ ॥
提罗,你怎能这样说?哪位王子会拿自己的妻子去赌博?愚蠢的国王因赌博的迷醉而神志昏乱,他身上并没有任何其他的诡计。
2.89.18
यदा नाभूत्कैतवमन्यदस्य ।
तदाऽदेवीत्पाण्डवोऽजातशत्रुः।
न्यस्ताः पूर्वं भ्रातरस्तेन राज्ञा ।
स्वयं चात्मा त्वमथो राजपुत्रि ॥ २.८९.१८ ॥
当他身上并无其他诡计时,无敌者般度子(尤提希提罗)便去赌博。那位国王先押上了兄弟们,然后是自己,然后是你,公主啊。
2.89.19
गच्छ त्वं कितवं गत्वा सभायां पृच्छ सूतज ।
किं तु पूर्वं पराजैषीरात्मानमथवा नु माम् ॥ २.८९.१९ ॥
你去议会找那个赌徒问问,御者之子:他先输掉的是自己,还是我?
2.89.20
एतज्ज्ञात्वा समागच्छ ततो मां नयं सूतज ।
ज्ञात्वा चिकीर्षितमहं राज्ञो यास्यामि दुःखिता ॥ २.८९.२० ॥
知道了这一切后,你回来,然后带我去吧。知道了国王的意图,我将悲伤地前往。
2.89.21
सभां गत्वा स चोवाच द्रौपद्यस्तद्वचस्तदा ।
युधिष्ठिरं नरेनद्राणां मध्ये स्थितमिदं वचः ॥ २.८९.२१ ॥
他来到议事厅,对站在众王之中的坚战说出了德罗波蒂的这番话。
2.89.22
कस्येशो नः पराजैषीरिति त्वामाह द्रौपदी ।
किं नु पूर्वं पराजैषीरात्मानमथवापि माम् ॥ २.८९.२२ ॥
德罗波蒂问你:"你是谁的主人,竟把我们输掉了?""你先输掉的是自己,还是我?"
2.89.23
युधिष्ठिरस्तु निश्चेता गतसत्व इवाभवत् ।
न तं सूतं प्रत्युवाच वचनं साध्वसाधु वा ॥ २.८९.२३ ॥
坚战却茫然失神,仿佛失去了生气,对那车夫没有回应任何话语,无论对错。
2.89.24
इहैवागत्य पाञ्चाली प्रश्नमेनं प्रभाषताम् ।
इहैव सर्वे शृण्वन्तु तस्याश्चैतस्य यद्वचः ॥ २.८९.२४ ॥
请般遮罗公主亲自来此提出此问,让在场所有人都听到她的话与他的话。
2.89.25
स गत्वा राजभवनं दुर्योधनवशानुगः ।
उवाच द्रौपदीं सूतः प्रातिकामी व्यथन्निव ॥ २.८९.२५ ॥
那受杜尔约达纳驱使的车夫来到王宫,作为使者,仿佛悲痛地对德罗波蒂说话。
2.89.26
सभ्यास्त्वमी राजपुत्र्याह्वयन्ति ।
मन्ये प्राप्तः संशयः कौरवाणाम्।
न वै समृद्दिं पालयते लघीयान् ।
यस्त्वां सभां नेष्यति राजपुत्रि ॥ २.८९.२६ ॥
这些议员在召唤公主。我想,考拉瓦人陷入了疑虑。卑劣之人不能守护繁荣;公主啊,要带你去议事厅的人,确是卑劣之徒。
2.89.27
एवं नूनं व्यदधात्संविधाता ।
स्पर्शावुभौ स्पृशतो वृद्धबालौ।
धर्मं त्वेकं परमं प्राह लोके ।
स नः शमं धास्यति गोप्यमानः ॥ २.८९.२७ ॥
如此,创造主确已安排:老者与幼童同受一种触碰。世间宣说唯有法为至上;若能守护,它将给予我们和平。
2.89.28
सोऽयं धर्मो मा त्यगात्कौरवान्वै ।
सभ्यान्गत्वा पृच्छ धर्म्यं वचो मे।
ते मां ब्रूयुर्निश्चितं तत्करिष्ये ।
धर्मात्मानो नीतिमन्तो वरिष्ठाः ॥ २.८९.२८ ॥
愿此法不离开俱卢族。去问集会中的诸位,询问我正义的话语;愿他们确定地对我说:“我们将照此行事”——他们心怀正法、精通政事、乃是最优秀的人。
2.89.29
श्रुत्वा सूतस्तद्वचो याज्ञसेन्याः ।
सभां गत्वा प्राह वाक्यं तदानीम्।
अधोमुखास्ते न च किञ्चिदूचु-
र्निर्बन्धं तं धार्तराष्ट्रस्य बुद्ध्वा ॥ २.८९.२९ ॥
御者听闻耶纳塞尼的那番话,便来到集会上,随即说出此言。低头的众人什么也没说,因为他们明白了持国之子的固执。
2.89.30
युधिष्ठिरस्तु तच्छ्रुत्वा दुर्योधनचिकीर्षितम् ।
द्रौपद्याः संमतं दूतं प्राहिणोद्भरतर्षभ ॥ २.८९.३० ॥
然而坚战听闻难敌的意图,经德罗波蒂同意,派遣了一位使者,婆罗多族中的雄牛啊。
2.89.31
एकवस्त्र त्वधोनीवो रोदमाना रजस्वला ।
सभामागम्य पाञ्चालि श्वशुरस्याग्रतो भव ॥ २.८९.३१ ॥
身着单衣,下结松散,哭泣着,身处经期,来到集会上,般遮罗女啊,站在公公面前。
2.89.32
अथ त्वामागतां दृष्ट्वा राजपुत्रीं सभां तदा ।
सभ्याः सर्वे विनिन्देरन्मनोर्भिर्धृतराष्ट्रजम् ॥ २.८९.३२ ॥
那时,众议员看见公主你来到议会,都在心里责备持国之子。
2.89.33
स गत्वा त्वरितं दूतः कृष्णाया भवनं नृप ।
न्यवेदयन्मतं धीमान्धर्मराजस्य निश्चितम् ॥ २.८९.३३ ॥
国王啊,那位使者迅速前往黑公主的住所,告知了智慧的法王所定的决议。
2.89.34
पाण्डवाश्च महात्मानो दीना दुःखसमन्विताः ।
सत्येनातिपरीताङ्गा नोदीक्षन्ते स्म किञ्चन ॥ २.८९.३४ ॥
伟大的般度五子悲伤而痛苦,因真实之缚而身体深受折磨,他们什么也不敢看。
2.89.35
ततस्त्वेषां मुखमालोक्य राजा ।
दुर्योधनः सूतमुवाच हृष्टः।
इहैवैतामानय प्रातिकामिन् ।
प्रत्यक्षमस्याः कुरवो ब्रुवन्तः ॥ २.८९.३५ ॥
于是,杜尔奥达那王看着他们的脸,欣喜地对车夫说:“普拉提卡明啊,把她带到这里来;让俱卢族人当着她的面说话。”
2.89.36
ततः सूतस्तस्य वशानुगामी ।
भीतश्च कोपाद्द्रुपदात्मजायाः।
विहाय मानं पुनरेव सभ्या-
नुवाच कृष्णां किमहं ब्रवीमि ॥ २.८९.३६ ॥
于是那听命的车夫,因恐惧和对德鲁帕达之女之怒的畏惧,放下傲慢,再次问众议员:“我该对黑公主说什么呢?”
2.89.37
दुःशासनैष मम सूतपुत्रो ।
वृकोदरादुद्विजतेऽल्पचेताः।
स्वयं प्रगृह्यानय याज्ञसेनीं ।
किं ते करिष्यन्त्यवशाः सपत्नाः ॥ २.८९.३७ ॥
“杜尚娑那啊!我这车夫之子因畏惧狼腹(毗摩)而心志低下。你亲自抓住她,把耶若塞尼带到这里来。那些无力的敌人能对她做什么呢?”
2.89.38
ततः समुत्थाय स राजपुत्रः ।
श्रुत्वा भ्रातुः शासनं रक्तदृष्टिः।
प्रविश्य तद्वेश्म महारथाना-
मित्यब्रवीद्द्रौपदीं राजपुत्रीम् ॥ २.८९.३८ ॥
于是那王子起身,听了兄长的命令,双目赤红,走进那些大车勇士的殿堂,对公主德罗波蒂这样说道。
2.89.39
एह्येहि पाञ्चालि राजपुत्रीम् ।
दुर्योधनं पश्य विमुक्तलज्जा।
कुरून्भजस्वायतपत्रनेत्रे ।
धर्मेण लब्धाऽसि सभां परैहि ॥ २.८९.३९ ॥
来吧,来吧,般遮罗公主!抛开羞耻,看看难敌吧。侍奉俱卢族吧,长着莲花般眼睛的人!你是依法赢得的,去议事厅吧。
2.89.40
ततः समुत्थाय सुदूर्मनाः सा ।
विवर्णमामृज्य मुखं करेण।
आर्ता प्रदुद्राव यतः स्त्रियस्ता ।
वृद्धस्य राज्ञः कुरुपुङ्गवस्य ॥ २.८९.४० ॥
于是她悲痛地起身,用手擦去苍白的脸,痛苦地奔向俱卢族之首那位年迈国王的女眷们所在之处。
2.89.41
ततो जवेनाभिससार रोषा-
द्दुःशासनस्तामभिगर्जमानः।
दीर्घेषु नीलेष्वथ चोर्मिमत्सु ।
जग्राह केशेषु नरेन्द्रपत्नीम् ॥ २.८९.४१ ॥
于是难降怒吼着,愤怒地迅速扑向她,抓住了国王之妃那长长的、黑色的、波浪般的头发。
2.89.42
ये राजसूयावभृथे जलेन ।
महाक्रतौ मन्त्रपूतेन सिक्ताः।
ते पाण्डवानां परिभूय वीर्यं ।
बलात्प्रमृष्टा धृतराष्ट्रजेन ॥ २.८९.४२ ॥
那些在大祀王权祭的阿婆利陀沐浴中以咒语净化之水洒过的手,被难降这位坚战之辱、藐视般遮人英勇的德兰陀罗斯特拉之子强行触碰了。
2.89.43
स तां पराकृष्य सभासमीप-
मानीय कृष्णामतिदीर्घकेशीम्।
दुःशासनो नाथवतीमनाथव-
च्चकर्ष वायुः कदलीमिवार्ताम् ॥ २.८९.४३ ॥
他将她拖到议会大厅附近,拉扯着长发极长的克里希纳,仿佛她无人庇护,又如狂风摇撼受难的芭蕉树。
2.89.44
सा कृष्णमाणा नमिताङ्गयष्टिः ।
शनैरुवाचाथ रजस्वलाऽस्मि।
एकं च वासो मम मन्दबुद्धे ।
सभां नेतुं नार्हसि मामनार्य ॥ २.८९.४४ ॥
她被拖拽着,身躯弯曲,轻声说道:“我正值月经期,而且只有一件衣服。愚笨的人啊,卑劣的人啊,你不应当把我带到议会去。”
2.89.45
ततोऽब्रवीत्तां प्रसभं निगृह्य ।
केशेशु कृष्णेषु तदा स कृष्णाम्।
कृष्णं च जिष्णुं च हरिं नरं च ।
त्रायाय विक्रोशति याज्ञसेनि ॥ २.८९.४५ ॥
于是他用力抓住她的黑发,在她呼喊求救时对她说:“呼唤克里希那、胜者(阿周那)、哈里和那罗吧,耶若娜塞尼之女!”
2.89.46
रजस्वला वा भव याज्ञसेनि ।
एकाम्बरा वाप्यथवा विवस्त्रा।
द्यूते जिता चासि कृताऽसि दासी ।
दासीषु वासश्च यथोपजोषम् ॥ २.८९.४६ ॥
“耶若娜塞尼之女啊,无论你正值月经,只穿一件衣服,还是甚至没有衣服,你在掷骰子的赌局中已被赢走,并被变成了奴婢;奴婢的衣着将随人心意而定。”
2.89.47
प्रकीर्णकेशी पतितार्धवस्त्रा ।
दुःशासनेन व्यवधूयमाना।
हीमत्यमर्षेण च दह्यमाना ।
शनैरिदं वाक्यमुवाच कृष्णा ॥ २.८९.४७ ॥
克里希那头发散乱,衣服半脱,被难降那所摇晃,因羞愤而燃烧,轻声说出了这番话。
2.89.48
इमे समायामुपनीतशास्त्राः ।
क्रियावन्तः सर्व एवेन्द्रकल्पाः।
गुरुस्थाना गुरवश्चैव सर्वे ।
तेषामग्रे नोत्सहे स्थातुमेवम् ॥ २.८९.४८ ॥
在这里聚集的所有人面前——他们精通经典,行祭礼,如同因陀罗,居于长者之位——我不能这样站立。
2.89.49
नशंसकर्मंस्त्वमनार्यवृत ।
मा मा विवस्त्रां कुरु मा विकार्षीः।
न मर्षयेयुस्तव राजपुत्राः ।
सेन्द्रापि देवा यदि ते सहायाः ॥ २.८९.४९ ॥
你这行残暴之事、品行卑劣之人,不要使我衣不蔽体,不要拖拽我。即便众神与因陀罗都是你的助手,你的王子们也不会容忍此事。
2.89.50
धर्मे स्थितो धर्मसुतो महात्मा ।
धर्मश्च सूक्ष्मो निपुणोपलक्ष्यः।
वाचापि भर्तुः परमाणुमात्र-
मिच्छामि दोषं न गुणान्विसृज्य ॥ २.८९.५० ॥
达摩之子、心胸广大、安住于正法的坚战;正法精微,只有善巧者能够分辨。即使在我丈夫的言语中,我也只想找出一粒微尘大小的过失,而不舍弃其中的美德。
2.89.51
इदं त्वकार्यं कुरुवीरमध्ये ।
रजस्वलां यत्परिकर्षसे माम्।
न चापि कश्चित्कुरुतेऽत्र कुत्सां ।
ध्रुवं तवेदं मतमभ्युपेतः ॥ २.८९.५१ ॥
在库鲁英雄之中做出这等不合宜之事:你拖拽着经期中的我。这里竟无人加以谴责;这必定是你的意见,而众人都已默认。
2.89.52
धिगस्तु नष्टः खलु भारतानां ।
धर्मस्तथा क्षत्रविदां च वृत्तम्।
यत्र ह्यतीतां कुरुधर्मवेलां ।
प्रेक्षन्ति सर्वे कुरवः सभायाम् ॥ २.८९.५२ ॥
可耻!婆罗多族的正法必定已经灭亡,懂得刹帝利之道者的行为也是如此。在这里,库鲁正法的界限正被逾越,而议会中的所有库鲁都在旁观。
2.89.53
द्रोणस्य भीष्मस्य च नास्ति सत्त्वं ।
क्षत्तुस्तथैवास्य चनास्ति सत्त्वं
क्षत्तुस्तथैवास्य महात्मनोपि ।
न लक्षयन्ति कुरुवृद्धमुख्याः ॥ २.८९.५३ ॥
德罗纳和毗湿摩没有勇气,刹多(维杜拉)同样没有勇气;连那位大德也是如此。库鲁长老中的首要之人并未察觉此事。
2.89.54
तथा ब्रुवन्ती करुणं सुमध्यमा ।
भर्तॄन्कटाक्षैः कुपितानपश्यत्।
सा पाण्डवान्कोपपरीतदेहा-
न्सन्दीपयामास कटाक्षपातैः ॥ २.८९.५४ ॥
她如此悲切地说话,以斜视的目光望着愤怒的丈夫们。那纤腰的女子以她斜视的目光,点燃了身体被愤怒占据的般度五子。
2.89.55
हृतेन राज्येन तथा धनेन ।
रत्नैश्च मुख्यैर्न तथा बभूव।
यथा त्रपाकोपसमीरितेन ।
कृष्णाकटाक्षेण बभूव दुःखम् ॥ २.८९.५५ ॥
失去王国、财富和主要珠宝时,都不曾有如此的悲痛;而由羞愧与愤怒所激发的黑公主斜视,却使他们深感痛苦。
2.89.56
दुःशासनश्चापि समीक्ष्य कृष्णा-
मवेक्षमाणां कृपणान्पतींस्तान्।
आधूय वेगेन विसञ्ज्ञकल्पा-
मुवाच दासीति हसन्सशब्दम् ॥ २.८९.५६ ॥
难降也看见黑公主望着她那些可怜的丈夫,便猛力摇晃她,她几近昏迷,他大笑出声地说道:“奴婢!”
2.89.57
कर्णस्तु तद्वाक्यमतीव हृष्टः ।
सम्पूजयामास हसन्सशब्दम्।
गान्धारराजः सुबलस्य पुत्र-
स्तथैव दुःशासनमभ्यनन्दत् ॥ २.८९.५७ ॥
迦尔纳听了这番话,极为欣喜,大笑出声地加以称赞;苏波罗之子、健陀罗王也同样赞扬了难降。
2.89.58
सभ्यास्तु ये तत्र बभूवुरन्ये ।
ताभ्यामृते धार्तराष्ट्रेण चैव।
तेषामभूद्दुः खमतीव कृष्णां ।
दृष्ट्वा सभायां परिकृष्यमाणाम् ॥ २.८९.५८ ॥
座中其他人,除了那两人与德拉什特拉之子外,见到黑天女在大会上被拖拽,都极为悲痛。
2.89.59
न धर्मसौक्ष्म्यात्सुभगे विवेक्तुं ।
शक्रोमि ते प्रश्नमिमं यथावत्।
अस्वाम्यशक्तः पणितुं परस्वं ।
स्त्रियाश्च भर्तुर्वशतां समीक्ष्य ॥ २.८९.५९ ॥
善良的女子啊,因为法的精微,我无法正确地回答你的这个问题。不是主人、又无权力的人,不能赌押他人的财产;再考虑到妻子从属于丈夫……
2.89.60
त्यजेत सर्वां पृथिवीं समृद्धां ।
युधिष्ठिरो धर्ममथो न जह्यात्।
उक्तं जितोऽस्मीति च पाण्डवेन ।
तस्मान्न शक्नोमि विवेक्तुमेतत् ॥ २.८९.६० ॥
尊者可舍弃整个富饶的大地,却不会舍弃法。般度之子曾说“我已被击败”;因此我无法对此作出裁决。
2.89.61
द्व्यूतेऽद्वितीयः शकुनिर्नरेषु ।
कुन्तीसुतस्तेन निसृष्टकामः।
न मन्यते तां निकृतिं युधिष्ठिर-
स्तस्मान् ते प्रश्नमिमं ब्रवीमि ॥ २.८९.६१ ॥
在赌博中,沙恭尼在人中无与伦比。昆提之子坚战因他而放弃了自己的愿望,且不以那欺骗为欺骗;因此我向你提出这个问题。
2.89.62
आहूय राजा कुशलैरनार्यै-
र्दुष्टात्मभिर्नैकृतिकैः सभायाम्।
द्यूतप्रियैर्नातिकृतप्रयत्नः ।
कस्मादयं नाम निसृष्टकामः ॥ २.८९.६२ ॥
在集会中,那些不高尚、心术不正、狡诈、好赌的熟练赌徒召唤了国王,他并未过分努力。这位为何竟放弃了自己的意愿?
2.89.63
अशुद्धभावैर्निकृतिप्रवृत्तै-
रबुध्यमानः कुरुपाण्डवाग्र्यः।
सम्भूय सर्वैश्च जितोऽपि यस्मा-
त्पश्चादयं कैतवमभ्युपेतः ॥ २.८९.६३ ॥
那些心术不正、专事欺诈的人在他毫不察觉时,联合起来击败了这位库鲁与般度族中的翘楚;之后他便诉诸欺骗。
2.89.64
तिष्ठन्ति चेमे कुरवः सभाया-
मीशाः सुतानां च तथा स्नुपाणाम्।
समीक्ष्य सर्वे मम चापि वाक्यं ।
विब्रूत मे प्रश्नमिमं यथावत् ॥ २.८९.६४ ॥
在这个集会中站着这些库鲁人,他们是儿子们与儿媳们的主人。请你们都留意我的话,将这个问题如实地回答我。
2.89.65
न सा सभा यत्र न सन्ति वृद्धा ।
न ते वृद्धा ये न वदन्ति धर्मम्।
नासौ धर्मो यत्र न सत्यमस्ति ।
न तत्सत्यं यच्छलेनानुविद्धम् ॥ २.८९.६५ ॥
没有长老的地方不是集会;不谈法的人不是长老。没有真实之处便没有法;被欺诈所污染的,便不是真实。
2.89.66
तथा ब्रुवन्तीं करुणं रुदन्ती-
मवेक्षमाणां कृपणान्पतींस्तान्।
दुःशासनः परुषाण्यप्रियाणि ।
वाक्यान्युवाचामधुराणि चैव ॥ २.८९.६६ ॥
她这样悲切地说着、哭泣着,望着那些可怜的丈夫,难敌之弟难降便对德劳帕迪说出粗暴、不悦、苦涩的话语。
2.89.67
तां कृष्यमाणां च रजस्वलां च ।
स्रस्तोत्तरीयामतदर्हमाणाम्।
वृकोदरः प्रेक्ष्य युधिष्ठिरं च ।
चकार कोपं परमार्तरूपः ॥ २.८९.६७ ॥
他看见她被拖拽,她正在月经期,上衣滑落,她本不应遭受这些;他又看向坚战,于是极度痛苦的维柯多罗(怖军)心中生起愤怒。