Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 2.90

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

2.90.1

भवन्ति गेहे बन्धक्यः कितवानां युधिष्ठिर ।
भवन्ति दीव्यन्ति दया चैवास्ति तावस्वपि ॥ २.९०.१ ॥

ユディシュティラよ、博打打ちの家には遊女がいる。彼女たちもまた賽を振り、今のところまだ慈悲心もある。

2.90.2

काश्यो यद्धनमाहार्षीद्द्रव्यं यच्चान्यदुत्तमम् ।
तथाऽन्ये पृथिवीपाला यानि रत्नान्युपाहरन् ॥ २.९०.२ ॥

カーシーの王が持ってきた富と、その他の優れた財物、そして他の大地の王たちが献上した宝石。

2.90.3

वाहनानि धनं चैव कवचान्यायुधानि च ।
राज्यमात्मा वयं चैव कैतवेन हृतं परैः ॥ २.९०.३ ॥

乗り物、財産、鎧と武器、王国、そして我々自身までも、敵に詐術によって奪われた。

2.90.4

न च मे तत्र कोपोऽभूत्सर्वस्येशो हि नो भवान् ।
इमं त्वतिक्रमं मन्यो द्रौपदी यत्र पण्यते ॥ २.९०.४ ॥

それについて私は怒りを覚えなかった。あなたは我らすべての主だからだ。しかしドラウパディーが賭けられたこの逸脱こそ、私は許しがたいと考える。

2.90.5

एषा ह्यनर्हती बाला पाण्डवान्प्राप्य कौरवैः ।
त्वत्कृते क्लिश्यते क्षुद्रैर्नृशंसैरकृतात्मभिः ॥ २.९०.५ ॥

この不相応な少女は、パーンダヴァを得ながら、あなたのせいで、卑しく残忍で心の未熟なカウラヴァたちに苦しめられている。

2.90.6

अस्याः कृते मन्युरयं त्वयि राजन्निपात्यते ।
बाहू ते सम्प्रधक्ष्यामि सहदेवाग्निमानयः ॥ २.९०.६ ॥

彼女のために、この怒りはあなたに向けられている、王よ。私はあなたの両腕を焼き尽くそう。サハデーヴァよ、火を持ってこい。

2.90.7

न पुरा भीमसेन त्वमीदृशीर्वदिता गिरः ।
परैस्ते नाशितं नूनं नृशंसैर्धर्मगौरवम् ॥ २.९०.७ ॥

ビーマセーナよ、以前そなたはこのような言葉を口にしたことはなかった。残酷な敵がそなたの法の威厳を確かに壊したのだ。

2.90.8

न सकामाः परो कार्या धर्ममेवाचरोत्तमम् ।
भ्रातरं धार्मिकं ज्येष्ठं कोऽतिवर्तितुमर्हति ॥ २.९०.८ ॥

他人の思いのままに動くべきではなく、ただ最上の法を行うべきである。法に従う長兄に背くことができる者がいようか。

2.90.9

आहूतो हि परै राजा क्षात्रं व्रतमनुस्मरन् ।
दीव्यते परकामेन तन्नः कीर्तिकरं महत् ॥ २.९०.९ ॥

敵に招かれた王は、王族の誓いを思い起こし、他者の望みによりさいころ遊びをした。それは我らに大いなる名誉をもたらすものだ。

2.90.10

एवमस्मिन्कृतं विद्यां यदि नाहं धनञ्जय ।
दीप्तेऽग्नौ सहितौ बाहू निर्दहेयं बलादिव ॥ २.९०.१० ॥

ダナンジャヤよ、もし私がこの技をこのように成し遂げなければ、燃え盛る火の中で私の両腕を無理にでも焼き尽くすであろう。

2.90.11

तथा तान्दुः खितान्दृष्ट्वा पाण्डवान्धृतराष्ट्रजः ।
कृष्यमाणां च पाञ्चालीं विकर्ण इदमब्रवीत् ॥ २.९०.११ ॥

パーンダヴァたちがこのように苦しむのを見、パーンチャーリーが引きずられるのを見て、ドリタラーシュトラの子ヴィカルナはこのように言った。

2.90.12

याज्ञसेन्या यदुक्तं तद्वाक्यं विब्रूत पार्थिवाः ।
अविवेकेन वाक्यस्य नरकः सद्य एव नः ॥ २.९०.१२ ॥

王たちよ、ヤージュニャセニーが言ったことに答えよ。分別なく言葉を発すれば、我らにただちに地獄が降りかかるであろう。

2.90.13

भीष्मश्च धृतराष्ट्रश्च कुरुवृद्धतमावुभौ ।
समेत्य नाहतुः किञ्चिद्विदुरश्च महामतिः ॥ २.९०.१३ ॥

クルの最年長の二人、ビーシュマとドリタラーシュトラは集まっても何も言わず、賢明なヴィドゥラもそうであった。

2.90.14

भारद्वाजश्च सर्वेषामाचार्यः कृप एव च ।
कुत एतावपि प्रश्नं नाहतुर्द्विजसत्तमौ ॥ २.९०.१४ ॥

万人の師であるバーラドヴァージャの子ドローナ、そしてクリパもまた、なぜこの二人の最も優れたバラモンも問いに答えなかったのか。

2.90.15

ये त्वन्ये पृथिवीपालाः समेताः सर्वतोदिशम् ।
कामक्रोधौ समुत्सृज्य ते ब्रुवन्तु यथामति ॥ २.९०.१५ ॥

しかし四方から集まった他の大地の守護者たちは、欲と怒りを捨て、各自の思慮に従って語るがよい。

2.90.16

यदितं द्रौपदी वाक्यमुक्तवत्यसकृच्छुभा ।
विमृश्य कस्य कः पक्षः पार्थिवा वदतोत्तरम् ॥ २.९०.१६ ॥

吉祥なドラウパディーがこの言葉を幾度も述べたのならば、諸王よ、よく考えて、誰の側に何があるかを述べ、答えよ。

2.90.17

एवं स बहुशः सर्वानुक्तवांस्तान्सभासदः ।
न च ते पृथिवीपालास्तमूचुः साध्वसाधु वा ॥ २.९०.१७ ॥

このように彼は会衆とそれらの王たちに幾度も語ったが、大地の守護者たちは彼に「正しい」とも「誤り」とも言わなかった。

2.90.18

उक्त्वाऽसकृत्तथा सर्वान्विकर्णः पृथिवीपतीन् ।
पाणौ पाणिं विनिष्पिष्य निःश्वसन्निदमब्रवीत् ॥ २.९०.१८ ॥

このように地上の君主たち全員に幾度も語ったのち、ヴィカルナは手に手を押しつけ、深く嘆息して次のように言った。

2.90.19

विब्रूत पृथिवीपाला वाक्यं मा वा कथञ्चनि ।
मन्ये न्याय्यं यदत्राहं तद्वि वक्ष्यामि कौरवाः ॥ २.९०.१९ ॥

大地の守護者たちよ、何か言うのも言わぬのも自由だ。クル族の者たちよ、私が正しいと思うことを私は語ろう。

2.90.20

चत्वार्याहुर्नश्रेष्ठा व्यसनानि महीक्षिताम् ।
मृगयां पानमक्षांश्च ग्राम्ये चैवातिरक्तताम् ॥ २.९०.२० ॥

人中の最上の者たちよ、王たちには四つの悪習があると言われる。狩猟、飲酒、賭博、そして女性への過度の執着である。

2.90.21

एतेषु हि नरः सक्तो धर्ममुत्सृज्य वर्तते ।
यथाऽयुक्तेन च कृतां क्रियां लोको न मन्यते ॥ २.९०.२१ ॥

これらに執着する人は法を捨てて振る舞う。資格のない者が行った行為を人々が尊ばないように、人々は彼の行為も尊ばない。

2.90.22

तथेयं पाण्डुपुत्रेण व्यसने वर्तता भृशम् ।
समाहूतेन कितवैरास्थितो द्रौपदीपणः ॥ २.९०.२२ ॥

同様に、悪習に深く溺れた パーンドゥの息子は、賭博師たちに呼ばれたとき、このドラウパディーを賭けに差し出した。

2.90.23

साधारणी च सर्वेषां पाण्डवानामनिन्दिता ।
जितेन पूर्वं चानेन पाण्डवेन कृतः पणः ॥ २.९०.२३ ॥

この非の打ち所のない女性はパーンダヴァ全員に共通のものである。先に、このパーンダヴァ自身が敗れて、彼女を賭けたのだ。

2.90.24

इयं च कीर्तिता कृष्णा सौबलेन पणार्थिना ।
एतत्सर्वं विचार्याहं मन्ये न विजितामिमाम् ॥ २.९०.२४ ॥

このクリシュナーは賭けを望むサウバラによって名指しされた。これらすべてを考えると、私は彼女は勝ち取られたものではないと思う。

2.90.25

एतच्छ्रुत्वा महान्नादः सभ्यानामुदतिष्ठत ।
विकर्णं शंसमानानां सौबलं चापि निन्दताम् ॥ २.९०.२५ ॥

これを聞くと、集会の人々の間に大きなざわめきが起こった。ある者はヴィカルナを称賛し、ある者はサウバラ(シャクニ)を非難した。

2.90.26

तस्मिन्नुपरते शब्दे राधेयः क्रोधमूर्छितः ।
प्रगृह्य रुचिरं बाहुमिदं वचनमब्रवीत् ॥ २.९०.२६ ॥

その喧騒が静まると、怒りに我を失ったラーダーの子(カルナ)は、美しい腕を振り上げてこの言葉を述べた。

2.90.27

दृश्यन्ते वै विकर्णेह वैकृतानि बहून्यपि ।
तज्जातस्तद्विनाशाय यथाऽग्निररणिप्रजः ॥ २.९०.२७ ॥

ヴィカルナよ、ここには確かに多くの凶兆が見える。火打ち木から生まれた火がその火打ち木を焼き尽くすように、これ(一族)は己の破滅のために生まれたのだ。

2.90.28

एते न किञ्चिदप्याहुश्चोदिता ह्यपि कृष्णया ।
धर्मेण विजितामेतां मन्यन्ते द्रपदात्मजाम् ॥ २.९०.२८ ॥

クリシュナー(ドラウパディー)にうながされても、彼らは何も言わない。彼らはドルパダの娘がダルマによって勝ち取られたものと見なしているのだ。

2.90.29

त्वं तु केवलबाल्येन धार्तराष्ट्र विदीर्यसे ।
यद्ब्रवीषि सभाम्ध्ये बालः स्थविरभाषितम् ॥ २.९०.२९ ॥

ドリタラーシュトラの子よ、お前はただ幼さゆえに引き裂かれている。集会の真ん中で、子供のように年長者の言葉を口にしている。

2.90.30

न च धर्म यथावत्त्वं कृष्णां च जितेति सुमन्दधीः ।
यद्ब्रवीषि जितां कृष्णां न जितेति सुमन्दधीः ॥ २.९०.३० ॥

お前はダルマを正しく知らず、クリシュナーが勝ち取られたことも理解していない。愚かな者よ、お前はクリシュナーは勝ち取られたと言うが、彼女は勝ち取られてなどいない——愚かな者よ!

2.90.31

कथं ह्यविजितां कृष्णां मन्यसे धृतराष्ट्रज ।
यदा सभायां सर्वस्वं न्यस्तवान्पाण्डवाग्रजः ॥ २.९०.३१ ॥

ドリタラーシュトラの息子よ、パーンドゥ家の長兄が集会で全財産を賭けたとき、どうしてクリシュナーを征服されていないと考えるのか。

2.90.32

अभ्यन्तर च सर्वस्वे द्रौपदी भरतर्षभ ।
एवं धर्मजितां कृष्णां मन्यसे न जितां कथम् ॥ २.९०.३२ ॥

バラタの雄牛よ、全財産の中にドラウパディーも含まれていた。法によって勝ち取られたクリシュナーを、どうして勝たれていないと考えるのか。

2.90.33

कीर्तिता द्रौपदी वाचा अनुज्ञाता च पाण्डवैः ।
भवत्यविजिता केन हेतुनैषा मता तव ॥ २.९०.३३ ॥

パーンダヴァたちは言葉でドラウパディーの名を挙げ、彼女を賭けることを許した。ではどんな理由で、彼女が征服されていないとあなたは考えるのか。

2.90.34

मन्यसे वा सभामेतामानीतामेकवाससम् ।
अधर्मेणेति तत्रापि शृणु मे वाक्यमुत्तमम् ॥ २.९०.३४ ॥

あるいは、彼女が一枚の衣だけで集会に連れて来られたことを、あなたは不法と考えるのか。その点についても私の優れた言葉を聞け。

2.90.35

एको भर्ता स्त्रिया देवैर्विहितः कुरुनन्दन ।
इयं त्वनेकवशगा बन्धकीति विनिश्चिता ॥ २.९०.३५ ॥

クルの喜びよ、神々は女性に一人の夫を定めた。しかしこの女は、多くの者に従う遊女と断じられている。

2.90.36

अस्याः सभामानयनं न चित्रमिति मे मतिः ।
एकाम्बरधरत्वं वाऽप्यथवाऽपि विवस्त्रता ॥ २.९०.३६ ॥

私の考えでは、彼女を集会に連れて来ることは奇妙ではない。一枚の衣をまとっていること、あるいは裸にされていることさえも奇妙ではない。

2.90.37

यच्चैषां द्रविणं किञ्चिद्य चैषा ये च पाण्डवाः ।
सौबलेनेह तत्सर्वं धर्मेण विजितं वसु ॥ २.९०.३७ ॥

彼らのわずかな財産も、このドラウパディーも、ここにいるパーンダヴァたちも、すべてサウバラの子が賭博の規則により勝ち取ったのだ。

2.90.38

दुःशासन सुबालोऽयं विकर्णः प्राज्ञवादिकः ।
पाण्डवानां च वासांसि द्रौपद्याश्चाप्युपाहर ॥ २.९०.३८ ॥

ドゥフシャーサナよ、この賢者のように語るスバーラの子ヴィカルナがいる。パーンダヴァたちとドラウパディーの衣服も持って来い。

2.90.39

तच्छ्रुत्वा पाण्डवाः सर्वे स्वानि वासांसि भारत ।
अवकीर्योत्तरीयाणि सभायां समुपाविशन् ॥ २.९०.३९ ॥

バーラタよ、それを聞いて、パーンダヴァたちは皆、上衣を脱ぎ捨て、議場に座った。

2.90.40

ततो दुःशासनो राजन्द्रौपद्या वसनं बलात् ।
सभामध्ये सभाक्षिप्य व्यपाक्रष्टुं प्रचक्रमे ॥ २.९०.४० ॥

王よ、するとドゥフシャーサナは力ずくでドラウパディーの衣を剥ぎ取ろうと、彼女を議場の中央へ引きずり出し始めた。

2.90.41

आकृष्यमाणे वसने विललाप सुदुःखिता ।
ज्ञातं मया वसिष्ठेन पुरा गीतं महात्मना ॥ २.९०.४१ ॥

衣をはぎ取られながら、彼女は深く悲しみ嘆いた。「昔、偉大なヴァシシュタが歌ったことを、私は知っている。」

2.90.42

महत्यापदि सम्प्राप्ते स्मर्तव्यो भगवान्हरिः ।
इति निश्चित्य मनसा शरणागतवत्सलम्।
आकृष्यमाणे वसने द्रौपदी कृष्णमस्तरत् ॥ २.९०.४२ ॥

「大いなる危難に遭えば、尊いハリを念じるべし」と心に決め、衣をはぎ取られながら、ドラウパディーは帰依者を慈しむクリシュナに呼びかけた。

2.90.43

शङ्खचक्रगदापाणे द्वारकानिलयाच्युत ।
गोविन्द पुण्डरीकाक्ष रक्ष मां शरणागताम् ॥ २.९०.४३ ॥

ほら貝、円盤、棍棒を手にする者よ、ドヴァーラカーの住人、不滅なる者、ゴーヴィンダよ、蓮華眼の者よ!帰依した私を守りたまえ。

2.90.44

हा कृष्ण द्वारकावासिन्क्वासि यादवन्दन ।
इमामवस्थां सम्प्राप्तामनाथां किमुपेक्षसे ॥ २.९०.४४ ॥

ああ!クリシュナよ、ドヴァーラカーの住人、ヤーダヴァの喜びよ、あなたはどこにいるのか。保護者もなくこの状態に陥った私を、なぜ顧みないのか。

2.90.45

गोविन्द द्वारकावासिन्कृष्ण गोपीजनप्रिय ।
कौरवैः परिभूतां मां किं न जानासि केशव ॥ २.९०.४५ ॥

ゴーヴィンダよ、ドヴァーラカーの住人、クリシュナよ、牧女たちの愛する者よ、クル族に辱められた私を、あなたは知らないのか。ケーシャヴァよ!

2.90.46

हे नाथ हे रमानाथ व्रजनाथार्तिनाशन ।
कौरवार्णवमग्नां मामुद्धरस्व जनार्दन ॥ २.९०.४६ ॥

主よ、ラマーの主よ、ヴラジャの主の苦悩を除く者よ!クル族の海に沈んだ私を引き上げたまえ、ジャナールダナよ。

2.90.47

कृष्णकृष्ण महायोगिन्विश्वात्मन्विश्वभावन ।
प्रपन्नां पाहि गोविन्द कुरुमध्येऽवसीदतीम् ॥ २.९०.४७ ॥

クリシュナよ、クリシュナよ!偉大なるヨーギンよ、宇宙の魂よ、宇宙の養育者よ!帰依しながらクル族の只中に沈む私を守りたまえ、ゴーヴィンダよ。

2.90.48

इत्यनुस्मृत्य कृष्णं सा हरिं त्रिभुवनेश्वरम् ।
प्रारुदद्दुःखिता राजन्मुखमाच्छाद्य भामिनी ॥ २.९०.४८ ॥

このようにクリシュナ、三界の主ハリを念じて、その悲しみに沈む誇り高き女性は、王よ、顔を覆って声を上げて泣いた。

2.90.49

तस्य प्रसाद्द्रौपद्याः कृष्यमाणेऽम्बरे तदा ।
तद्रूपमपरे वस्त्रं प्रादुरासीदनेकशः ॥ २.९०.४९ ॥

そのとき、クリシュナの恩寵により、ドラウパディーの衣が引かれているとき、同じ姿の多くの別の衣が現れた。

2.90.50

नानारागविरागाणि वसनान्यथ वै प्रभो ।
प्रादुर्भवन्ति शतशो धर्मस्य परिपालनात् ॥ २.९०.५० ॥

そのとき、主よ、ダルマを守ったがゆえに、さまざまな色と濃淡の衣が数百も現れ始めた。

2.90.51

ततो हलहलाशब्दस्तत्रासीद्घोरदर्शनः ।
तदद्भुततमं लोके वीक्ष्य सर्वे महीभृतः ॥ २.९०.५१ ॥

そのとき、そこに恐ろしいどよめきが起こった。世にもっとも不思議なその出来事を見て、王たちはみな、

2.90.52

शशंसुर्द्रौपदीं तत्र कुत्सन्तो धृतराष्ट्रजम् ।
धिग्धिगित्यशिवां वाचमुत्सृजन्कौरवान्प्रति ॥ २.९०.५२ ॥

そこで人々はドラウパディーを称え、ドリタラーシュトラの息子を非難し、クル族に向かって「恥だ!恥だ!」という不吉な侮りの言葉を叫んだ。

2.90.53

यदा तु वाससां राशिः सभामध्ये समाचितः ।
तदा दुःशासनः श्रान्तो व्रीडितः समुपाविशत् ॥ २.९०.५३ ॥

衣の山が集会の真ん中に積み上がったとき、疲れ果てて恥じ入ったドゥフシャーサナは腰を下ろした。

2.90.54

शशाप तत्र भीमस्तु राजमध्ये बृहत्स्वनः ।
क्रोधाद्विस्फुरमाणौष्ठो विनिष्पिष्य करे करम् ॥ २.९०.५४ ॥

そのときビーマは王たちの中で大声で誓いを立てた。怒りに唇を震わせ、片手をもう一方の手にこすりつけながら。

2.90.55

इदं मे वाक्यमादध्वं क्षत्रिया लोकवासिनः ।
नोक्तपूर्वं नरैरन्यैर्न चान्यो यद्वदिष्यति ॥ २.९०.५५ ॥

クシャトリヤたちよ、世に住む者たちよ、私のこの言葉を聞け。他の人々が以前言わなかったこと、そして他の誰も言わないであろうことを、私は言う。

2.90.56

यद्येतदेवमुक्त्वाऽहं न कुर्यां पृथिवीश्वराः ।
पितामहानां पूर्वेषां नाहं गतिमवाप्नुयाम् ॥ २.९०.५६ ॥

大地の王たちよ、このように言っておきながら私がそれを行わなければ、私は先祖たちの行く道に至らないだろう。

2.90.57

अस्य पापस्य दुर्बुद्धेर्भारतापसदस्य च ।
न पिबेयं बलाद्वक्षो भित्त्वा चेद्रुधिरं युधि ॥ २.९०.५७ ॥

この罪深く邪悪な心の、バーラタ族の恥辱である者の胸を裂いて、戦いで無理やりその血を飲まないならば……

2.90.58

तस्य ते तद्वचः श्रुत्वा रौद्रं लोमप्रहर्षणम् ।
प्रचक्रुर्बहुलां पूजां कुसन्तो धृतराष्ट्रजम् ॥ २.९०.५८ ॥

彼のその恐ろしく身の毛もよだつ言葉を聞いて、彼らはドリタラーシュトラの息子を大いにほめたたえた。

2.90.59

न विब्रुवन्ति कौरव्याः प्रश्नमेतमिति स्म ह ।
सुजनः क्रोशति स्मात्र धृतराष्ट्रं विगर्हयन् ॥ २.९०.५९ ॥

クル族の者たちはこの問いに答えなかった。ここで善き人々はドリタラーシュトラを非難して叫んだ。

2.90.60

ततो बाहू समुक्षिप्य निवार्य च सभासदः ।
विदुरः सर्वधर्मज्ञ इदं वचनमब्रवीत्। ॥ २.९०.६० ॥

そこで、一切のダルマに通じたヴィドゥラは腕を上げ、列席者を制止してこの言葉を述べた。

2.90.61

द्रौपदी प्रश्नमुक्त्वैवं रोरवीति त्वनाथवत् ।
न च विब्रूत तं प्रश्नं सभ्या धर्मोऽत्र पीड्यते ॥ २.९०.६१ ॥

ドラウパディーはこの問いを発し、庇護者のない者のように泣いている。列席者よ、その問いに答えなければ、ここで法が傷つけられる。

2.90.62

सभां प्रपद्यते प्रश्नः प्रज्वलन्निव हव्यवाद् ।
तं वै सत्येन धर्मेण सभ्याः प्रशमयन्त्युत ॥ २.९०.६२ ॥

この問いは燃え上がる供犠の火のように集会に届いた。列席者は真実と法によってそれを鎮めよ。

2.90.63

धर्म्यं प्रश्नमतो ब्रूयादार्यः सत्येन मानवः ।
विब्रूयुस्तत्र तं प्रश्नं कामक्रोधबलातिगाः ॥ २.९०.६३ ॥

ゆえに高貴な人は真実をもって法にかなった問いに答えるべきであり、欲と怒りの力を超えた者たちがそこでその問いに答えるべきである。

2.90.64

विकर्णेन यथाप्रज्ञमुक्तः प्रश्नो नराधिपाः ।
भवन्तोऽपि हि तं प्रश्नं विब्रुवन्तु यथामति ॥ २.९०.६४ ॥

人の主たちよ、ヴィカルナは自らの知恵に従ってこの問いを発した。あなたがたもまた、自らの思慮に従ってその問いに答えよ。

2.90.65

यो हि प्रश्नं न विब्रूयाद्धर्मदर्शी सभां गतः ।
अनृते या फलावाप्तिस्तस्याः सोऽर्धं समश्नुते ॥ २.९०.६५ ॥

法を見る者が集会に入りながら問いに答えないならば、その者は虚偽から得られる果報の半分を享受する。

2.90.66

यः पुनर्वितथं ब्रूयाद्धर्मदशीं सभां गतः ।
अनृतस्य फलं कृत्स्नं स प्राप्नोतीति निश्चयः ॥ २.९०.६६ ॥

しかし法を見る者が集会に入って虚偽を語るならば、その者は虚偽の果報をすべて得る。これは確かである。

2.90.67

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
प्रह्लादस्य च संवादं मुनेराङ्गिरसस्य च ॥ २.९०.६७ ॥

ここでも人々はこの古い物語、プラフラーダと聖仙アンギラサの対話を引き合いに出す。

2.90.68

प्रह्लादो नाम दैत्येन्द्रस्तस्य पुत्रो विरोचनः ।
कन्याहेतोराङ्गिरसं सुधन्वानमुपाद्रवत् ॥ २.९०.६८ ॥

プラフラーダという阿修羅王がいた。その息子ヴィローチャナは、ある乙女のためにアンギラサの末裔スダンヴァンを襲った。

2.90.69

अहं ज्यायानहं ज्यायानिति कन्येप्सया तदा ।
तयोर्देवनमत्रासीत्प्राणयोरिति नः श्रुतम् ॥ २.९०.६९ ॥

「私が年長だ、私が年長だ」と、少女への欲望から、そのとき二人の間で命を賭けた賭博が行われた、と我々は聞いている。

2.90.70

तयोः प्रश्नविवादोऽभूत्प्रह्लादं तावपृच्छताम् ।
ज्यायान्क आवयोरेकः प्रश्नं प्रब्रूहि मा मृषा ॥ २.९०.७० ॥

二人の間に一つの問いをめぐって論争が起きた。二人はプラフラーダに尋ねた。「我々二人のうち年長はどちらか。この問いに答えよ、偽りを言うな。」

2.90.71

स वै विवदनाद्भीतः सुधन्वानं विलोकयन् ।
तं सुधन्वाब्रवीत्क्रुद्धो ब्रह्मदम्ड इव ज्वलन् ॥ २.९०.७१ ॥

彼は論争に怯えてスダンヴァンを見つめた。するとスダンヴァンは怒り、梵の杖のように燃え上がって彼に言った。

2.90.72

यदि वै वक्ष्यसि मृषा प्रह्लादाथ न वक्ष्यसि ।
शतघा ते शिरो वज्री वज्रेण प्रहरिष्यति ॥ २.९०.७२ ॥

プラフラーダよ、もし偽りを言えば、あるいは言わなければ——金剛を持つ者が、その金剛であなたの頭を百に砕くだろう。

2.90.73

सुधन्वना तथोक्तः सन्व्यथितोऽश्वत्थपर्णवत् ।
जगाम कश्यपं दैत्यः परिप्रष्टुं महौजसम् ॥ २.९०.७३ ॥

スダンヴァンにこう言われ、その ダイティヤ はアシュヴァッタの葉のように震えながら、大力のカシュyapaに問いに行った。

2.90.74

त्वं वै धर्मस्य विज्ञाता दैवस्येहासुरस्य च ।
ब्राह्मणस्य महाभाग धर्मकृच्छ्रमिदं शृणु ॥ २.९०.७४ ॥

あなたこそ法を知る者であり、ここでは神々とアスラの法も知る者です。バラモンよ、大いなる幸運の方よ、この法の難しい点を聞いてください。

2.90.75

यो वै प्रश्नं न विब्रूयाद्वितथं चैव निर्दिशेत् ।
के वै तस्य परे लोकास्तन्ममाचक्ष्व पृच्छतः ॥ २.९०.७५ ॥

問いに答えない者や、偽りを指し示す者には、どのような他の世界があるのでしょうか。尋ねる私にそれを教えてください。

2.90.76

जानन्नविब्रुवन्प्रश्नान्कामात्क्रोधाद्भयात्तथा ।
सहस्रं वारुणान्पाशानात्मनि प्रतिमुञ्चति ॥ २.९०.७६ ॥

知りながら問いに答えず、欲望、怒り、恐れのためにいる者は、ヴァルナの千の縄を自らに結びつける。

2.90.77

साक्षी वा विब्रुवन्साक्ष्यं गोकर्णशिथिलश्वरन् ।
सहस्रं वारुणान्पाशानात्मनि प्रतिमुञ्जति ॥ २.९०.७७ ॥

証人が牛の耳のようにだらしなくさまよう心で偽りの証言をすれば、彼もまたヴァルナの千の縄を自らに結びつける。

2.90.78

तस्य संवत्सरे पूर्णे पाश एकः प्रमुच्यते ।
तस्मात्सत्यं तु वक्तव्यं जानता सत्यमुञ्जसा ॥ २.९०.७८ ॥

彼に一年が満ちると、一本の縄がほどける。ゆえに知る者は真実を率直に語るべきである。

2.90.79

विद्धो धर्मो ह्यधर्मेण सभां यत्रोपपद्यते ।
न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः ॥ २.९०.७९ ॥

非法によって傷つけられた法が集会にやって来ても、そこで傷ついた列席者はその棘を抜かない。

2.90.80

अर्धं हरति वै श्रेष्ठः पादो भवति कर्तृषु ।
पादश्चैव सभासत्सु ये न निन्दन्ति निन्दितम् ॥ २.९०.८० ॥

最善の人が半分を持ち去る。行為者には四分の一があり、非難されるべきものを非難しない列席者にも四分の一がある。

2.90.81

अनेना भवति श्रेष्ठो मुच्यन्ते च सभासदः ।
एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते ॥ २.९०.८१ ॥

最善の人は無過となり、列席者も解放される。非難されるべきものが非難される所では、罪は行為者に帰する。

2.90.82

वितथं तु वदेयुर्ये धर्मं प्रह्लाद पृच्छते ।
इष्टापूर्तं च ते घ्न्ति सप्तसप्त परावरान् ॥ २.९०.८२ ॥

プラフラーダよ、法について問われて偽りを語る者は、祭祀と布施の功徳を滅ぼし、上下の七代ずつの祖先と子孫をも滅ぼす。

2.90.83

हृतस्वस्य हि यद्दुःखं हतपुत्रस्य चैव यत् ।
ऋणिनः प्रति यच्चैव स्वार्थाद्धष्टस्य चैव यत् ॥ २.९०.८३ ॥

財産を奪われた者の苦しみ、息子を殺された者の苦しみ。債務者に対する苦しみ、そして自己の利益のために厚かましくなった者に対する苦しみ。

2.90.84

स्त्रियाः पत्या विहीनाया राज्ञा ग्रस्तस्य चैव यत् ।
अपुत्रायाश्च यद्दुःखं व्याघ्राघ्रातस्य चैव यत् ॥ २.९०.८४ ॥

夫を失った女の苦しみ、王に捕らえられた者の苦しみ。子のない女の苦しみ、虎に噛まれた者の苦しみ。

2.90.85

अध्यूढायाश्च यद्दुःखं व्याघ्राघ्रातस्य चैव यत् ।
एतानि वै समान्याहुर्दुःखानि त्रिदिवेश्वराः ॥ २.९०.८५ ॥

他人に奪われた女の苦しみと、虎に捕らえられた者の苦しみ――これらは等しい苦しみだと三天の主たちは言う。

2.90.86

तानि सर्वाणि दुःखानि प्राप्नोति वितथं ब्रुवन् ।
समक्षदर्शनात्साक्षी श्रवणाच्चेति धारणात् ॥ २.९०.८६ ॥

偽りを語る者は、これらすべての苦しみを得る。目の前で見た者、聞いた者、記憶に留めた者が証人である。

2.90.87

तस्मात्सत्यं ब्रुवत्साक्षी धर्मार्थाभ्यां न हीयते ।
कश्यपस्य वचः श्रुत्वा प्रह्लादः पुत्रमब्रवीत् ॥ २.९०.८७ ॥

ゆえに真実を語る証人は、法も富も損なわれない。カシュヤパの言葉を聞いて、プラフラーダは息子に言った。

2.90.88

श्रेयान्सुधन्वा त्वत्तो वै मत्तः श्रेयांस्तथाङ्गिराः ।
माता सुधन्वाऽयं प्राणानामीश्वरस्तव
विरोचन सुधन्वाऽयं प्राणानामीश्वरस्तव ॥ २.९०.८८ ॥

スダンヴァンはお前より優れ、アンギラスは私より優れている。このスダンヴァンがお前の命の息の主である。ヴィローチャナよ、このスダンヴァンがお前の命の息の主である。

2.90.89

सुधन्वोवाच ।
पुत्रस्नेहं पिरत्यज्य यस्त्वं धर्मे व्यवस्थितः।
अनुजानामि ते पुत्रं जीवत्वेव शतं समाः ॥ २.९०.८९ ॥

スダンヴァンは言った。息子への情愛を捨てて法に堅く立つあなたに、私は許しを与える。あなたの息子は百年生きよ。

2.90.90

एवं वै परमं धर्मं श्रुत्वा सर्वे सभासदः ।
यथाप्रश्नं तु कृष्णाया मन्यध्वं तत्र किं परम् ॥ २.९०.९० ॥

この至高のダルマを聞いた会衆の皆は、クリシュナーの問いに従って、この件で何がより高いのかを考えよ。

2.90.91

विदुरस्य वचः श्रुत्वा नोचुः किञ्चन पार्थिवाः ।
कर्णो दुःशासनं त्वाह कृष्णं दासीं गृहान्नय ॥ २.९०.९१ ॥

ヴィドゥラの言葉を聞いても王たちは何も言わなかった。しかしカルナはドゥフシャーサナに言った。「クリシュナーを女奴隷として家へ連れて行け。」

2.90.92

तां वेपमानां सव्रीडां प्रलपन्तीं स्म पाण्डवान् ।
दुःशासनः सभामध्ये विचकर्ष तपस्विनीम् ॥ २.९०.९२ ॥

震え、恥じらい、パーンダヴァたちを呼んで嘆いているその苦行の女を、ドゥフシャーサナは集会の真ん中へ引きずり出した。