摩诃婆罗多 · 章 2.91
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.91.1
पुरस्तात्करणीयं मे न कृतं कार्यमुत्तरम् ।
विह्वलाऽस्मि कृताऽनेन कर्षता बलिना बलात् ॥ २.९१.१ ॥
我先前应做之事未曾做,如今应做之事亦无力做。这强暴之人用力拖拽,使我惶乱不安。
2.91.2
अभिवादं करोम्येषां कुरूणां कुरुसंसदि ।
न मे स्यादपराधोऽयं तदिदं न कृतं मया
वैशम्पायन उवाच ॥ २.९१.२ ॥
我在俱卢人的集会中向这些俱卢人致敬。愿此非我之过,因我未曾做此事。
2.91.3
सा तेन च समाधूता दुःखेन च तपस्विनी ।
पतिता विललापेदं सभायामतथोचिता ॥ २.९१.३ ॥
她被他推搡,因悲痛而倒地,在集会中如此哀号,这与她的身份不相称。
2.91.4
स्वयंवरे यास्मि नृपैदृष्टा रङ्गे समागतैः ।
न दृष्टपूर्वा चान्यत्र साऽहमद्य सभां गता ॥ २.९१.४ ॥
在选婿大典上,我被聚集在赛场的诸王所看见;我从未在别处被人看见,今日却来到了这个集会。
2.91.5
यां न वायुर्न चादित्यो दृष्टवन्तौ पुरा गृहे ।
साऽहमद्य सभामध्ये दृष्टास्मि जनसंसदि ॥ २.९१.५ ॥
我昔日在家中,连风和太阳都未曾见过;今日却在集会中央、在众人的集会里被人看见。
2.91.6
यां न मृष्यन्ति वातेन स्पृश्यमानां गृहे पुरा ।
स्पृश्यमानां सहन्तेऽद्य पाण्डवास्तां दूरात्मना ॥ २.९१.६ ॥
昔日在家中,连风吹触碰都不能容忍的她,如今般遮们却忍受着那恶人的触摸。
2.91.7
मृष्यन्ति कुरवश्चेमे मन्ये कालस्य पर्ययम् ।
स्नुषां दुहितरं चैव क्लिश्यमानामनर्हतीम् ॥ २.९१.७ ॥
这些俱卢人竟然忍受此事;我想这是时运的逆转,让我这样一个如同儿媳和女儿、并不应受此苦的人遭受折磨。
2.91.8
किंन्वतः कृपणं भूयो यदहं स्त्री सती शुभा ।
सभामध्यं विगाहेऽद्य क्व नु धर्मो महीक्षिताम् ॥ २.९१.८ ॥
还有什么比这更悲惨?我这个贞洁吉祥的女子,今日被带到大厅中央。国王的法在哪里呢?
2.91.9
धर्म्यं स्त्रियं सभां पूर्वे न नयन्तीति नः श्रुतम् ।
स नष्टः कौरवेयेषु पूर्वो धर्मः सनातनः ॥ २.९१.९ ॥
我们听说,古人依法不把女子带入大会。俱卢子孙之中,那古老而永恒的法已经失去了。
2.91.10
कथं हि भार्या पाण्डुनां पार्षतस्य स्वसा सती ।
वासुदेवस्य च सखी पार्थिवानां सभामियाम् ॥ २.९१.१० ॥
我是般度之子的妻子,般诃陀之子(Pārṣata)的妹妹,贞洁之人,婆苏提婆(克里希那)的朋友,怎么会被带到这群国王的大会之中?
2.91.11
तामिमां धर्मराजस्य भार्यां सदृशवर्णजाम् ।
ब्रूत दासीमदासीं वा तत्करिष्यामि कौरवाः। ॥ २.९१.११ ॥
俱卢的子孙们,请告诉我:这位与我同等种姓出生的法王之妻,她是奴婢还是非奴婢?我将依此行事。
2.91.12
अयं मां सुदृढं क्षुद्रः कौरवाणां यशोहरः ।
क्लिश्नाति नाहं तत्सोढुं क्षुद्रः कौरवाणां यशोहरः। ॥ २.९१.१२ ॥
这个卑鄙之人,夺走俱卢子孙声誉的人,极其残酷地折磨我;我无法忍受。这个卑鄙之人正在夺走俱卢子孙的荣耀。
2.91.13
जितां वाऽप्यजितां वापि मन्यध्वं मां यथा नृपाः ।
तथा प्रत्युक्तमिच्छामि तत्करिष्यामि कौरवाः ॥ २.९१.१३ ॥
俱卢们啊,如诸王认为我是被赢得或未被赢得,我便希望如此得到回答;我将照此行事。
2.91.14
उक्तवानस्मि कल्याणि धर्मस्य परमा गतिः ।
लोके न शक्यते ज्ञातुमपि विज्ञैर्महात्मभिः ॥ २.९१.१४ ॥
吉祥的女子啊,我已说过:法的最高归宿,即使在世间,也连有智慧的大德之人也无法知晓。
2.91.15
बलवांश्च यथा धर्मं लोके पश्यति पुरुषः ।
स धर्मो धर्मवेलायां भवत्यभिहतः परः ॥ २.९१.१५ ॥
正如世上强者所见之法,那同一个法,在法的时刻却被他人打倒。
2.91.16
न विवेक्तुं च ते प्रश्नमिमं शक्नोमि निश्चयात् ।
सूक्ष्मत्वाद्गहनत्वाच्च कार्यस्यास्य च गौरवात् ॥ २.९१.१६ ॥
对于你这个问题,我不能确定地加以辨析,因为此事精微、深奥而又重大。
2.91.17
नूनमन्तः कुलस्यास्य भविता न चिरादिव ।
तथा हि कुरवः सर्वे लोभमोहपरायणाः ॥ २.९१.१७ ॥
此族的终结必定不久将至,因为所有俱卢人都沉溺于贪欲与迷惑之中。
2.91.18
कुलेषु जाताः कल्याणि व्यसनैराहता भृशम् ।
धर्म्यान्मार्गान्न च्यवन्ते येषां नस्त्वं बधूः स्थिता ॥ २.९१.१८ ॥
吉祥的女子啊,你是这一家族的媳妇;这一家族的人出身高贵,虽屡遭厄运重击,却从不偏离法的正道。
2.91.19
उपपन्नं च पाञ्चालि तवेदं वृत्तमीदृशम् ।
यत्कृच्छ्रमपि सम्प्राप्ता धर्ममेवान्ववेक्षसे ॥ २.९१.१९ ॥
德罗波蒂啊,你的这种行为确实恰当:虽陷入如此困境,你仍只以法为念。
2.91.20
एते द्रोणादयश्चैव वृद्धा धर्मविदो जनाः ।
शून्यैः शरीरैस्तिष्ठन्ति गतासव इवानताः ॥ २.९१.२० ॥
德罗纳等这些年长而通晓法者,低头站立,身体空虚,仿佛已无生气。
2.91.21
युधिष्ठिरस्तु प्रश्नोऽस्मिन्प्रमाणमिति मे मतिः ।
अजितां वा जितां वेति स्वयं व्याख्यातुमर्हति ॥ २.९१.२१ ॥
我以为,此问题应以坚战为准;请他亲自说明她究竟是未被赢得还是已被赢得。