Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.92

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.92.1

तथा तु दृष्ट्वा बहु तत्र देवीं ।
रोरूयमाणां कुररीमिवार्ताम्।
नोचुर्वचः साध्वथवाऽप्यसाधु ।
महीक्षितो धार्तराष्ट्रस्य भीताः ॥ २.९२.१ ॥

众王见王后在那里大哭,如雌鹗般痛苦,因惧怕持国之子,不敢说一句对的或错的话。

2.92.2

दृष्ट्वा तथा पार्थिवपुत्रपौत्रां-
स्तूष्णींभूतान्धृतराष्ट्रस्य पुत्रः।
स्मयन्निवेदं वचनं बभाषे ।
पाञ्चालराजस्य सुतां तदानीम् ॥ २.९२.२ ॥

见诸王及其子孙如此沉默,持国之子仿佛微笑着,便对般遮罗王之女(德罗波蒂)说了这些话。

2.92.3

तिष्ठत्वयं प्रश्न उदारसत्वे ।
भीमेऽर्जुने सहदेवे तथैव।
पत्यौ च ते नकुले याज्ञसेनि ।
वदन्त्वेते वचनं त्वत्प्रसूतम् ॥ २.९२.३ ॥

此问暂且搁置,高贵的女子啊!让怖军、阿周那、偕天,以及你的丈夫无种,祭授之女啊,说出从你而生的话语吧。

2.92.4

अनीश्वरं विब्रुवन्त्वार्यमध्ये ।
युधिष्ठिरं तव पाञ्चालि हेतोः।
कुर्वन्तु सर्वे चानृतं धर्मराजं ।
पाञ्चालि त्वं मोक्ष्यसे दासभावात् ॥ २.९२.४ ॥

让他们在高贵者之中宣称,坚战因你之故并非主人,让众人都把法王说成说谎者。般遮罗女啊,那样你便能脱离奴仆之境。

2.92.5

धर्मे स्थितो धर्मसुतो महात्मा ।
स्वयं चेदं कथयत्विन्द्रकल्पः।
ईशो वा ते ह्यनीशोऽथवैष ।
वाक्यादस्य क्षिप्रमेकं भजस्व ॥ २.९२.५ ॥

愿住于法的法子、与因陀罗相等的大心者亲自说出:他是你的主人还是不是?依此言语,快速择取其一。

2.92.6

सर्वे हीमे कौरवेयाः सभायां ।
दुःखान्तरे वर्तमानास्तवैव।
न विब्रुवन्त्यार्यसत्वा यथाव-
त्पतींश्च ते समवेक्ष्याल्पभाग्यान् ॥ २.९२.६ ॥

在此集会中,这些俱卢族人,身处你的苦难之中,虽有高贵的品性,却不如理发言;即便看着你那些命薄的丈夫。

2.92.7

ततः सभ्याः कुरुराजस्य तस्य ।
वाक्यं सर्वे प्रशशंसुस्तथोच्चैः।
चेलावेधांश्चापि चक्रुर्नदन्तो ।
हाहेत्यासीदपि चैवार्तनादः ॥ २.९२.७ ॥

于是集会中所有人都大声称赞俱卢王的那番话;他们呼啸着挥动衣袍,并发出“哎呀,哎呀”的哀叹之声。

2.92.8

श्रुत्वा तुं तद्वाक्यमनोहरं त-
द्धर्षश्चासीत्कौरवाणां सभायाम्।
सर्वे चासन्पार्थिवाः प्रीतिमन्तः ।
कुरुश्रेष्ठं धार्मिकं पूजयन्तः ॥ २.९२.८ ॥

听了这番动人的话,集会中的俱卢族人感到振奋,所有国王心生欢喜,敬重俱卢族中最为正法的那位。

2.92.9

युधिष्ठिरं च ते सर्वे समुदैक्षन्त पार्थिवाः ।
किं नु वक्ष्यति धर्मज्ञ इति साचीकृताननाः ॥ २.९२.९ ॥

所有国王都望着坚战,心想:“知法者将说什么?”并侧转着脸。

2.92.10

किं नु वक्ष्यति बीभत्सुरजितो युधि पाण्डवः ।
भीमसेनो यमौ चोभौ भृशं कौतूहलान्विताः ॥ २.९२.१० ॥

不可战胜的毗跋蹉(阿周那)、战场上不败的般度之子、毗摩犀那和两位孪生兄弟将说什么?他们充满了极大的好奇。

2.92.11

तस्मिन्नुपरते शब्दे भीमसेनोऽब्रवीदिदम् ।
प्रगृह्य रुचिरं दिव्यं भुजं चन्दनचर्चितम् ॥ २.९२.११ ॥

那声音停止后,毗摩犀那举起他涂抹檀香的美丽神圣手臂,说了这些话。

2.92.12

यद्येष गुरुरस्माकं धर्मराजो महामनाः ।
न प्रभुः स्यात्कुलस्यास्य न वयं मर्षयेमहि ॥ २.९२.१२ ॥

若此人——我们的导师、大度的法王——不是这个家族的主宰,我们便不会忍受。

2.92.13

ईशो नः पुण्यतपसां प्राणानामपि चेश्वरः ।
मन्यते जितमात्मानं यद्येष विजिता वयम् ॥ २.९२.१३ ॥

他是我们的主宰,甚至是那些虔诚苦行者的生命之主。若他认为自己已被征服,那么我们也已被征服。

2.92.14

न हि मुच्येत मे जीवन्पदा भूमिमुपस्पृशन् ।
मर्त्यधर्मा परामृश्य पाञ्चाल्या मूर्धजानिमान् ॥ २.९२.१४ ॥

触碰般遮罗女这些头发的人,只要他还用双脚踏在大地上活着,我就不会放过他。

2.92.15

पश्यध्वं ह्यायतौ वृत्तौ भुजौ मे परिघाविव ।
नैतयोरन्तरं प्राप्य मुच्येतापि शतक्रतुः ॥ २.९२.१५ ॥

请看,我这长而圆的双臂如同铁杵。落入其间的人,即使是百祭之主因陀罗也无法脱身。

2.92.16

धर्मपाशसितस्त्वेवमधिगच्छामि सङ्कटम् ।
गौरवेण निरुद्धश्च निग्रहादर्जुनस्य च ॥ २.९२.१६ ॥

我被法之绳索所缚,如此陷入困境,被敬重所阻,也被阿周那的约束所制。

2.92.17

धर्मराजनिसृष्टस्तु सिंहः क्षुद्रमृगानिव ।
धार्तराष्टारानिमान्पापान्निष्पषेयं तलासिभिः ॥ २.९२.१७ ॥

我被法王释放,将以手掌和刀剑碾碎这些恶毒的持国之子,如狮子碾碎小兽。

2.92.18

तमुवाच तदा भीष्मो द्रोणो विदुर एव च ।
क्षम्यतामिदमित्येवं सर्वं सम्भाव्यते त्वयि ॥ २.९२.१८ ॥

于是毗湿摩、德罗纳和维杜罗对他说:“请宽恕此事”;如此,在你身上一切都被视为可能。

2.92.19

त्रयः किलेमे ह्यधना भवन्ति ।
दासः पुत्रश्चास्वतन्त्रा च नारी।
दासस्य पत्नी त्वधनस्य भद्रे ।
हीनश्वरा दासधनं च सर्वम् ॥ २.९२.१९ ॥

这三者实际上是无财之人:奴仆、儿子,以及不自主的女子。奴仆之妻,善良的女士,如同无财之人;奴仆的财产和一切都无力。

2.92.20

प्रविश्य राज्ञः परिवारं भजस्व ।
तत्ते कार्यं शिष्टमादिश्यतेऽत्र।
ईशास्तु सर्वे तव राजपुत्रि ।
भवन्ति वै धार्तराष्ट्रा न पार्थाः ॥ २.९२.२० ॥

进入国王的家室侍奉他们;你剩余的职责在此被命定。公主啊,你所有的主人都是持国之子,而非普利塔之子。

2.92.21

अन्यं वृणीष्व पतिमाशु भामिनि ।
यस्माद्दास्यं न लभसि देवनेन।
अवाच्या वै पतिषु कामवृत्ति-
र्नित्यं दास्ये विदितं तत्तवास्तु ॥ २.९२.२१ ॥

光彩照人的女子啊,快另选一位丈夫吧,因为你因赌博而沦为奴仆。对丈夫任意妄为的女人不足称道;她永远是奴婢。这你是知道的。

2.92.22

पराजितो नकुलो भीमसेनो ।
युधिष्ठरः सहदेवार्जुनौ च।
दासीभूता त्वं हि वै याज्ञसेनि ।
पराजितास्ते पतयो नैव सन्ति ॥ २.९२.२२ ॥

那枸罗、毗摩先那、坚战、偕天与阿周那皆已战败。耶季纳塞尼啊,你已成为婢女;你的丈夫们已被击败,实际上他们已不复存在。

2.92.23

प्रयोजनं जन्मनि किं न मन्यते ।
पराक्रमं पौरुषं चैव पार्थटः।
पाञ्चाल्यस्य द्रुपदस्यात्मजामिमां ।
सभामध्ये यो व्यदेवीद्ग्लहेषु ॥ २.९२.२३ ॥

难道不认为出生有其目的吗?普利塔之子阿周那不是已显示了勇武与男儿气概吗?这位般遮罗王德鲁帕达之女,在集会中于掷骰之戏中下注的……

2.92.24

तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी ।
भृशं निशश्वास तदाऽर्तरूपः।
राजानुगो धर्मपाशानुबद्धो ।
दहन्निवैनं क्रोधसंरक्तदृष्टिः ॥ २.९२.२४ ॥

毗摩先那听闻此言,极为愤怒。他以悲痛之态深深叹息;受制于国王,被法的绳索所缚,双目因愤怒而赤红,仿佛要将他焚烧。

2.92.25

नाहं कुप्ये सूतपुत्रस्य राज-
न्नेष सत्यं दासधर्मः प्रदिष्टः।
किं विद्विषो वै मामेवं व्याहरेयु-
र्नादेवीस्त्वं यद्यनया नरेन्द्र ॥ २.९२.२५ ॥

国王啊,我并不对御者之子生气;这确实是奴隶所规定的本分。仇敌为何会这样对我说?人主啊,若你没有让她如此行事,仇敌会对我这样说吗?

2.92.26

भीमसेनवचः श्रुत्वा राजा दुर्योधनस्तदा ।
युधिष्ठिरमुवाचेदं तूष्णीम्भूतमचेतनम् ॥ २.९२.२६ ॥

国王难敌听了怖军的话,便对变得沉默而木然的坚战说道:

2.92.27

भीमार्जुनौ यमौ चैव स्थितौ ते नृप शासने ।
प्रश्नं ब्रूहि च कृष्णां त्वमजितां यदि मन्यसे ॥ २.९२.२७ ॥

国王啊,怖军、阿周那和双生子都听从你的命令。若你认为黑公主是不可征服的,那就提出你的问题吧。

2.92.28

एवमुक्त्वा तु कौन्येयमपोह्य वसनं स्वकम् ।
स्मयन्निवेक्ष्य पाञ्चालीमैश्वर्यमदमोहितः ॥ २.९२.२८ ॥

说完这话,他在贡蒂之子面前撩开自己的衣服,被权势的醉意迷惑,微笑着看向般遮罗公主。

2.92.29

कदलीदण्डसदृशं सर्वलक्षणसंयुतम् ।
गजहस्तप्रतीकाशं वज्रप्रतिमगौरवम् ॥ २.९२.२९ ॥

如芭蕉之干,具足一切吉相,如象鼻一般,重如金刚。

2.92.30

अभ्युत्स्मयित्वा राधेयं भीममाधर्षयन्निव ।
द्रौपद्याः प्रेक्षमाणायाः सव्यमूरुमदर्शयत् ॥ २.९२.३० ॥

他对罗陀之子笑了笑,仿佛在羞辱怖军,在黑公主注视下,露出了自己的左大腿。

2.92.31

भीमसेनस्तमालोक्य नेत्रे उत्फाल्य लोहिते ।
प्रोवाच राजमध्ये तं सभां विश्रावयन्निव ॥ २.९२.३१ ॥

怖军看着他,睁大血红的双眼,在众王之中对他说话,仿佛要让整个大会听见。

2.92.32

पितृभिः सह सालोक्यं मा स्म गच्छेद्वृकोदरः ।
यद्येतमूरुं गदया न भिन्द्यां ते महाहवे ॥ २.९२.३२ ॥

若我在大战中不以铁棒击碎你这大腿,愿狼腹者不与祖先同往一界。

2.92.33

क्रुद्धस्य तस्य सर्वेभ्यः स्रोतोभ्यः पावकार्चिषः ।
वृक्षस्येव विनिश्वेरुः कोटरेभ्यः प्रदह्यतः ॥ २.९२.३३ ॥

怒极的他,从全身各处孔窍中迸出火焰,如同燃烧的树木从树洞中喷出一般。

2.92.34

परं भयं पश्यत भीमसेना-
त्तद्बुध्यध्वं पार्थिवाः प्रातिपेयाः।
दैवेरितो नूनमयं पुरस्ता-
त्परोऽनयो भरतेषूदपादि ॥ २.९२.३४ ॥

诸王啊,请看从毘摩森那而来的大恐惧;普罗提波之后裔啊,请当明白。确实是天命所驱,这大灾祸已先在婆罗多族中生起。

2.92.35

अतिद्यूतं कृतमिदं धार्तराष्ट्र ।
यस्मात्स्त्रियं विवदध्वं सभायाम्।
योगक्षेमौ नश्यतो वः समग्रौ ।
पापान्मन्त्रान्कुरवो मन्त्रयन्ति ॥ २.९२.३५ ॥

般度之子啊,此事因过度赌博而起,因为你们在会堂里为一女子争论。你们的所得与安稳正在全然灭亡;诸俱卢正在商议罪恶之计。

2.92.36

इमं धर्मं कुरवो जानताशु ।
ध्वस्ते धर्मे परिषत्सम्प्रदुष्येत्।
इमां चेत्पूर्वं कितवोऽग्लहिष्य-
दीशोऽभविष्यदपराजितात्मा ॥ २.९२.३६ ॥

诸俱卢啊,请速知此法。法若毁灭,议会也会败坏。若此赌徒先前已赢得此物,他便会成为心不可胜的主宰。

2.92.37

स्वप्ने यथैतद्विजितं धनं स्या-
देवं मन्ये यस्य दीव्यत्यनीशः।
गान्धारराजस्य वचो निशम्य ।
धर्मादस्मात्कुरवो माऽपयात ॥ २.९२.३७ ॥

我认为,若无自制而赌博,此财富便如梦中所赢。闻听犍陀罗王之言,诸俱卢啊,不要背离此法。

2.92.38

भीमस्य वाक्ये तद्वदेवार्जुनस्य ।
स्थितोऽहं वै यमयोश्चैवमेव।
युधिष्ठिरं ते प्रवदन्त्वनीश-
मथो दास्यान्मोक्षसे याज्ञसेनि ॥ २.९२.३८ ॥

我与怖军、阿周那之言同立,双生子之言亦然。若让他们宣称坚战无权,那么,惹那塞尼啊,你便可脱离奴役。

2.92.39

ईशो राजा पूर्वमासीद्ग्लहे नः ।
कुन्तीसुतो धर्मराजो महात्मा।
ईशस्त्वयं कस्य पराजितात्मा ।
तज्जानीध्वं कुरवः सर्व एव ॥ २.९२.३९ ॥

往昔赌局中,我们的君主与主人是昆提之子、大德的法王。然而这个自我败北之人,又是谁的主人?诸位俱卢,你们都应知道此事。

2.92.40

दुश्शासन निबोधेदं वचनं वै प्रभाषितम् ।
किमनेन चिरं वीर नयस्व द्रपदात्मजाम्।
दासीभावेन भुङ्क्ष्व त्वं यथेष्टं कुरुनन्दन ॥ २.९२.४० ॥

难敌之弟,请听此言。勇士啊,拖延许久有何益处?将德罗波蒂之女带走;以奴婢之身份,随你所愿享用吧,俱卢之喜悦啊。

2.92.41

ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत् ।
साधु कर्ण महाबाहो यथेष्टं क्रियतामिति ॥ २.९२.४१ ॥

于是犍陀罗王之子沙恭尼说道:「说得好,迦尔纳,大臂者啊,就按你所愿去做吧。」

2.92.42

ततो दुश्शासनस्तूर्णं द्रुपदस्य सुतां बलात् ।
प्रवेशयितुमारब्धः स चकर्ष दुरात्मवान् ॥ २.९२.४२ ॥

于是难降迅速开始强行拖拽德鲁帕达之女入内;那心怀恶念者将她拖拽而去。

2.92.43

ततो विक्रोशति तदा पाञ्चाली वरवर्णिनी ॥ २.९२.४३ ॥

此时,肤色美丽的般遮利女正在哭喊。

2.92.44

परित्रायस्व मां भीष्ण द्रोण द्रौणे तथा कृप ।
परित्रायस्व विदुर धर्मिष्ठो धर्मवत्सल ॥ २.९२.४४ ॥

啊毗湿摩,啊德罗纳,啊德罗纳之子,还有啊克黎巴,请保护我!啊最守法、热爱法的维杜罗,请保护我!

2.92.45

धृतराष्ट्र महाराज परित्रायस्व वै स्नुषाम् ।
गान्धारि त्वं महाभागे सर्वज्ञे सर्वदर्शिनि।
पिरत्रायस्व मां भीरुं सुयोधनभयार्दिताम् ॥ २.९२.४५ ॥

啊伟大的国王持国,请保护您的儿媳!啊大福的甘陀利,你是全知全见者,请保护我这个被苏yodhana的恐惧折磨的怯懦之人!

2.92.46

त्वमार्ये वीरजननि किं मां पश्यसि यादवीम् ।
क्लिश्यमानामनार्येण न त्रायसिव वधूं स्वकाम् ॥ २.९२.४६ ॥

啊高贵的女士,英雄之母,你为何看着我这位雅达瓦女子?被非雅利安人折磨的我,你却不像保护自己的儿媳那样保护我。

2.92.47

यदि लालप्यमानां मां न कश्चित्किञ्चिदब्रवीत् ।
हा हताऽस्मि सुमन्दात्मा सुयोधनवशं गता ॥ २.९२.४७ ॥

若我悲叹之时竟无一人对我说一句话,哎呀,我便毁了,已落入苏yodhana的掌控之中。

2.92.48

न वै पाण्डुर्नरपतिर्न धर्मो न च देवराट् ।
न चायुर्नाश्विनौ वाऽपि परित्रायन्ति वै स्नुषाम् ॥ २.९२.४८ ॥

既非般度,亦非人主,非法,非天王,非寿命,甚至双生的阿输昆也不能庇护这位儿媳。

2.92.49

धिक्कष्टं यदि जीवेयं मन्दभाग्या पतिव्रता ॥ २.९२.४९ ॥

可耻啊,多么痛苦!若我这薄命而守贞的女子还得活下去!

2.92.50

शृणोमि वाक्यं तव राजपुत्रि ।
नेमे पार्थाः किञ्चिदपि ब्रुवन्ति।
सा त्वं प्रियार्थं शृणु वाक्यमेत-
द्यदुच्यते पापमतिः कृतघ्नः ॥ २.९२.५० ॥

公主,我听到你的话;然而这些普利塔之子一言不发。为了你所爱的人,请听这些关于那恶念而忘恩之人的话。

2.92.51

सुयोधनः सानुचरः सुदुष्टः ।
सहैव राजा निकृतः सूनुना च
यद्येष वाचं महदुच्यमानां ।
न श्रोष्यते पापमतिः सुदुष्टः ॥ २.९२.५१ ॥

苏尤达那及其随从极其邪恶;国王也因其子而与他一同受伤。若这位恶念、极其邪恶之人不听这番正在说出的重要之言……

2.92.52

इत्येवमुक्त्वा द्रुपदस्य पुत्रीं ।
क्षत्ताऽब्रवीद्धृतराष्ट्रस्य पुत्रम्। ॥ २.९२.५२ ॥

对德鲁帕达之女如此说罢,管家(毗杜罗)对持国之子说道。

2.92.53

मा क्लिश्यतां वै द्रुपदस्य पुत्रीं ।
मा त्वं चरीं द्रक्ष्यसि राजपुत्र ॥ २.९२.५३ ॥

莫让德鲁帕达之女受苦;王子啊,你不要看她的悲惨境遇。

2.92.54

यद्येवं त्वं महाराज सङ्क्लेशयसि द्रौपदीम् ।
अचिरेणैव कालेन पुत्रस्ते सह मन्त्रिभिः।
गमिष्यति क्षयं पापः पाण्डवक्षयकारणात् ॥ २.९२.५४ ॥

大王,若您如此折磨德罗波蒂,您那罪恶的儿子连同大臣们不久便会因成为般度五子毁灭的原因而走向灭亡。

2.92.55

भीमार्जुनाभ्यां क्रुद्धाभ्यां माद्रीपुत्रद्वयेन च ।
तस्मान्निवारय सुतं मा विनाशं विचिन्तय ॥ २.९२.५५ ॥

愤怒的毗摩与阿周那,以及摩德利的两个儿子,将带来毁灭。因此请约束你的儿子,不要想着毁灭。

2.92.56

एतच्छुत्वा मन्दबुद्धिर्नोत्तरं किञ्चिदब्रवीत् ।
ततो दुर्योधनस्तत्र दैवमोहबलात्कृतः ॥ २.९२.५६ ॥

听罢此言,愚钝的(难敌)什么也没有回答。于是难敌在那里被天命迷惑之力所驱使,[保持沉默]。

2.92.57

अचिन्त्य क्षत्तुर्वचनं हर्षेणायतलोचनः ।
ऊरू दर्शयते पापो द्रौपद्या वै मुहुर्मुहुः ॥ २.९२.५७ ॥

不顾维都罗的劝告,那双眼睛大睁的罪人欢喜地一再向德罗波蒂露出自己的大腿。

2.92.58

ऊरौ सन्दर्श्यमाने तु निरीक्ष्य तु सुयोधनम् ।
वृकोदरस्तदालोक्य नेत्रे चोल्फाल्य लोहिते ॥ २.९२.५८ ॥

当大腿被展示时,狼腹(毗摩)望向苏由达那,看见他后,转动着通红的双眼。

2.92.59

एतत्समीक्ष्यात्मनि चावमानं ।
नियम्य मन्युं बलनान्स मानी।
राजानुजः संसदि कौरवाणां ।
विनिष्क्रमन्वाक्यमुवाच भीमः ॥ २.९२.५९ ॥

毗摩感到自身受此侮辱,压抑怒火,这位强大而自豪的国王幼弟在走出俱卢人的集会时,说出了这些话。

2.92.60

अहं दुर्योधनं हन्ता कर्णं हन्ता धनञ्जयः ।
शकुनिं चाक्षकितवं सहदेवो हनिष्यति ॥ २.९२.६० ॥

我将杀死难敌;丈夫征服者将杀死迦尔纳;而偕天将杀死掷骰作弊的沙古尼。

2.92.63

दुश्शासनस्य रुधिरं पास्यामि मृगराडिव ॥ २.९२.६३ ॥

我将如狮王一般饮下难降的鲜血。

2.92.64

भीमसेन न ते सन्ति येषां वैरं त्वया सह ।
नन्दा गृहेषु न बुद्ध्यन्ते महद्भयम् ॥ २.९२.६४ ॥

婆罗多之子啊,与你结仇者并非你的真正敌人;在家中,难陀(?)的大恐惧并未被察觉。

2.92.65

नैव वाचा व्यवसितं भीम विज्ञायते सताम् ।
यदि स्थास्यन्ति सङ्ग्रामे क्षत्रधर्मेण वै सह ॥ २.९२.६५ ॥

婆罗多之子啊,善人的决心不能仅凭言语得知;只有他们以刹帝利之法在战场上坚守,才能知晓。

2.92.66

दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः ।
दुश्शासनचतुर्थानां भूमिः पास्यति शोणितम् ॥ २.९२.६६ ॥

大地将饮尽难敌、迦尔纳、恶毒的沙古尼以及以难降为第四者的鲜血。

2.92.67

असूयितारं वक्तारं प्रहृष्टानां दुरात्मनाम् ।
भीमसेन नियोगात्ते हन्ताऽहं कर्णमाहवे ॥ २.९२.६७ ॥

婆罗多之子啊,遵你之命,我将在战场上杀死迦尔纳——他是那善妒多言、欣喜若狂的恶人之一。

2.92.68

कर्णं कर्णानुगांश्चैव रणे हन्ताऽस्मि पत्रिभिः ।
ये चान्ये विप्रयोत्स्यन्ति बुद्धिमोहेन मां नृपाः।
तान्स्म सर्वञ्छितैर्बाणैर्नेताऽस्मि यमसादनम् ॥ २.९२.६८ ॥

在战斗中,我将用箭射杀迦尔纳及其追随者;凡因心智迷惑而与我作战的其他国王,我都将用利箭送往阎摩的居所。

2.92.69

चलेद्वि हिमवान्स्थानान्निष्प्रभः स्याद्दिवाकरः ।
शैत्यं सोमात्प्रणश्येत मत्सत्यं विचलेद्यदि ॥ २.९२.६९ ॥

若我的诚言动摇,愿喜马拉雅离开its位置,太阳失去光辉,月亮的清凉消逝。

2.92.70

उत्युक्तवति पार्थे तु श्रीमान्माद्रवतीसुतः ।
प्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान् ॥ २.९२.७० ॥

当阿周那如此说完,摩德罗之子、光荣而勇武的萨诃提婆举起了他那巨大的手臂。

2.92.71

सौबलस्य वधप्रेप्सुरिदं वचनमब्रवीत् ।
क्रोधसंरक्तनयनो निश्वस्य च मुहुर्मुहुः ॥ २.९२.७१ ॥

他欲杀死沙古尼(萨乌巴拉之子),怒目通红,一次又一次地叹息,说出了这些话。

2.92.72

यानक्षान्मन्यसे मूढ गान्धाराणां यशोहर ।
नैते ह्यक्षाः शिता वाणास्त्वयैते समरे धृताः ॥ २.९२.७२ ॥

愚蠢的人啊,夺取犍陀罗之荣誉的人!你以为是骰子的,并不是骰子。这是你在战场上所持的利箭。

2.92.73

यथा चैवोक्तवान्भीमस्त्वामुद्दिश्य सबान्धवम् ।
कर्ताऽहं कर्मणा चास्य कुरुकार्याणि सर्वशः।
यदि स्थस्यासि सङ्ग्रामे क्षत्रधर्मेण सौबल ॥ २.९२.७३ ॥

正如怖军曾对你和你的亲属所说,我也将以我的行动完全履行俱卢族的职责。苏波罗之子啊,若你依刹帝利之法在战场上屹立……

2.92.74

सहदेववचः श्रुत्वा नकुलोऽपि विशाम्पते ।
दर्शनीयतमो नॄणामिदं वचनमब्रवीत् ॥ २.९२.७४ ॥

人主啊,偶使听罢,那位在众人中最受敬重的无尼,也说出了这番话。

2.92.75

सुतेयं यज्ञसेनस्य द्यूतेऽस्मिन्धृतराष्ट्रजैः ।
यैर्वाचः श्राविता रूक्षा धूर्तैर्दुर्योधनप्रियैः ॥ २.९२.७५ ॥

此乃般遮罗王(德鲁帕达)之女。在此番赌局中,那些为难ong夺之辈——难敌所亲近的奸徒,德哩多罗湿陀罗的诸子,曾对她说出了刺耳的话语。

2.92.76

धार्तराष्ट्रान्सुदुर्वृत्तान्मुमूर्षून्कालचोदितान् ।
दर्शयिष्यामि भूयिष्ठमहं वैवस्वतक्षयम् ॥ २.९२.७६ ॥

对那些极其恶劣、求死心切、为时间所驱使的德哩多罗湿陀罗诸子,我将让他们大量见到阎摩(毗婆娑多)的住所。

2.92.77

उलूकं च दुरात्मानं सौबलस्य प्रियं सुतम् ।
हन्ताऽहमस्मि समरे मम शत्रुं नराधमम् ॥ २.९२.७७ ॥

我将在战场上杀死乌卢迦——那恶毒的萨巴罗之子沙恭尼所钟爱的儿子,我的仇敌,那人中的败类。

2.92.78

निदेशाद्धर्मराजस्य द्रौपद्याः पदवीं चरन् ।
नर्धार्तराष्टां पृथिवीं कर्तास्मि नचिरादिवा ॥ २.९२.७८ ॥

奉法王(坚战)之命,循着德罗波蒂的足迹,我不久之后就将使大地不再有德哩多罗湿陀罗之子。

2.92.79

यस्माच्चोरुं दर्शयसे यस्माच्चोरुं निरीक्षसे ।
तस्मात्तव ह्यधर्मिष्ठ ऊरौ मृत्युर्भविष्यति ॥ २.९२.७९ ॥

因为你展示你的大腿,又盯着我的大腿,所以,最不义的人啊,你的死亡将降临在你的大腿上。

2.92.80

यस्माच्चैवं क्लेशयति भ्राता ते मां दुरात्मवान् ।
तस्मादुधिरमेवास्य पास्यते वै वृकोदरः ॥ २.९२.८० ॥

因为你那心怀恶意的兄弟如此折磨我,所以狼腹(怖军)必将饮他的血。

2.92.81

इमं च पापिष्ठमतिं कर्णं समुतबान्धवम् ।
सामात्यं सपरीवारं हनिष्यति धनञ्जयः ॥ २.९२.८१ ॥

这位心怀极大罪恶的迦尔纳,连同他的亲族、大臣和随从,财主(阿周那)将杀死。

2.92.82

क्षुद्रधर्मं नैकृतिकं शकुनिं पापचेतसम् ।
सहदेवो रणे क्रुद्धो हनिष्यति सबान्धवम् ॥ २.९२.८२ ॥

卑劣行为、奸诈、心怀罪恶的沙昆尼,在战场上愤怒的偕提婆将与他的亲族一同杀死。

2.92.83

एवमुक्ते तु वचने द्रौपद्या धर्मशीलया ।
ततोऽन्तरिक्षात्सुमहत्पुष्पवर्षमवापततम् ॥ २.९२.८३ ॥

当守法的德罗波蒂说出这些话时,天空中便降下了极大的花雨。

2.92.84

तेषां तु वचनं श्रुत्वा नोचुस्तत्र सभासदः ।
अर्जुनस्य भयाद्राजन्नभून्निश्शब्दमत्र वै ॥ २.९२.८४ ॥

听到他们的话,在场的议会成员无人作声。国王啊,因惧怕阿周那,那里陷入了寂静。