Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.93

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.93.1

द्रौपद्या वचनं श्रुत्वा चुकोपाथ धनञ्जयः ।
स तदा क्रोधताम्राक्ष इदं वचनमब्रवीत् ॥ २.९३.१ ॥

德罗波蒂的话传入耳中,达难延耶大怒。他怒目赤红,便说出了这番话。

2.93.2

अयं तु मां वारयते धर्मराजो युधिष्ठिरः ।
इत्युक्त्वा क्रोधताम्राक्षो धनुरादाय वीर्यवान् ॥ २.९३.२ ॥

他说:“这位法王坚战阻拦我。”说罢,怒目赤红的勇士拿起了弓。

2.93.3

सव्यसाची समुत्पत्य ताञ्छत्रून्समुदैक्षत ।
उद्यतं फल्गुनं तत्र ददृशुः सर्वपार्थिवाः ॥ २.९३.३ ॥

萨维亚萨钦跃起身来,凝视着那些敌人;在那里,所有的国王都看见了已挺身而起的般古那。

2.93.4

युगान्ते सर्वलोकांस्तु दहन्तमिव पावकम् ।
वीक्षमाणं धनुष्पामिं हन्तुकामं मुहुर्मुहुः ॥ २.९३.४ ॥

如同世纪末焚烧一切世界的烈火,他手持弓,一次次地凝视,渴望出击。

2.93.5

हन्तुकामं पशून्क्रुद्धं रुद्रं दक्षक्रतौ यथा ।
तथाभूतं नरं दृष्ट्वा विषेदुस्तत्र मानवाः ॥ २.९३.५ ॥

众人见那人如同在达刹祭祀中欲杀牲畜、愤怒的楼陀罗,便都惊惶不安。

2.93.6

धनञ्जयस्यव वीर्यज्ञा निराशा जीविते तदा ।
मृतभूता भवन्सर्वे नेत्रैरनिमिषैरिव ॥ २.९३.६ ॥

凡知晓达难延耶威力的人,此时都对生命绝望,如同死去一般,睁大双眼凝视。

2.93.7

अर्जुनं धर्मपुत्रं च समुदैक्षन्त पार्थिवाः ।
क्रुद्धं तदाऽर्जुनं दृष्ट्वा पृथिवी च चचाल ह ॥ २.९३.७ ॥

诸王注视着阿周那与法之子;见阿周那震怒,大地也随之颤动。

2.93.8

खेचराणि च भूतानि वित्रेसुर्वै भयार्दिताः ।
नादित्यो विरराजाथ नापि वान्ति च मारुताः। ॥ २.९३.८ ॥

飞行于空中的生灵因恐惧而战栗;太阳不再照耀,风也停止吹拂。

2.93.9

न चन्द्रो न च नक्षत्रं द्यौर्दिशोन न विभान्ति ह ।
सर्वमाविद्धमभवज्जगत्स्थावरजङ्गमम् ॥ २.९३.९ ॥

月亮不再明亮,星辰、天空与四方也不再光耀;整个世界,动与不动,全都陷入惊扰。

2.93.10

उत्पतन्स वभौ पार्तो दिवाकर इवाम्बरे। ॥ २.९३.१० ॥

跃身而起的普利塔之子在空中光耀如日。

2.93.11

पार्थं दृष्ट्वा क्रुद्धं कालान्तकयमोपमम् ।
भीमसेनो मुदा युक्तो युद्धायैव मनो दधे ॥ २.९३.११ ॥

见愤怒的普利塔之子如时间、终结者与阎摩,毗摩森那满心欢喜,遂决意投入战斗。

2.93.12

पाञ्चाली च ददर्शाथ सुसङ्क्रुद्धं धनञ्जयम् ।
हन्तुकामं रिपून्मर्वान्सुपर्णमिव पन्नगान् ॥ २.९३.१२ ॥

此时般遮利也看见极度愤怒的达难遮耶,他欲杀尽敌人,犹如金翅鸟注视群蛇。

2.93.13

दुष्प्रेक्षः सोऽभवत्क्रुद्धो युगान्ताग्निरिव ज्वलन् ।
तं दृष्ट्वा तेजसा युक्तं विव्यधुः पुरवासिनः ॥ २.९३.१३ ॥

他愤怒之时,燃烧如劫末之火,令人难以直视。горожане见他光辉逼人,皆惊惧不已。

2.93.14

उत्पतन्तं तु वेगेन ततो दृष्ट्वा धनञ्जयम् ।
जग्राह स तदा राजा पुरुहूतो यथा हरिम् ॥ २.९३.१४ ॥

见达南遮耶迅猛跃起,国王便将他擒住,正如因陀罗(布鲁呼陀)曾擒住诃利一般。

2.93.15

उवाच स घृणी ज्येष्ठो धर्मराजो युधिष्ठिरः ।
मा पार्थ साहसं कार्षीर्मा विनाशं गमेद्यशः ॥ २.९३.१५ ॥

于是慈悲的长兄、法王坚战说道:"阿周那,莫行此鲁莽之事,愿你的名声不致毁灭。"

2.93.16

अहमेतान्पापकृतो द्यूतज्ञान्दग्धुमुत्सहे ।
कन्त्त्वसत्यगतिं दृष्ट्वा क्रोधो नाशमुपैति मे ॥ २.९३.१६ ॥

我渴望焚毁这些精通赌术的恶人;然而见其虚妄之行,我的怒气便消散。

2.93.17

त्वमिमं जगतोऽर्थे वै कोपं संयच्छ पाण्डव ॥ २.९३.१७ ॥

为了这个世界,般度之子啊,请克制你的怒气。

2.93.18

एवमुक्तस्तदा राज्ञा पाण्डवोऽथ धनञ्जयः ।
क्रोधं संशमयन्पार्थो धार्तराष्ट्रं प्रति स्थितः ॥ २.९३.१८ ॥

国王如此相劝,般度之子达南遮耶平息怒气,面向持国之子们站定。

2.93.19

तस्मिन्वीरे प्रशान्ते तु पाण्डवे फल्गुने पुनः ।
सुसम्प्रहृष्टमभवज्जगत्स्थावरजङ्गमम् ॥ २.९३.१९ ॥

当那位英雄、潘度之子法尔古那再次平静下来时,动与不动的整个世界都极度欢喜。

2.93.20

वारितं च तथा दृष्ट्वा भ्रात्रा पार्थं वृकोदरः ।
बभूव विमना राजन्नभून्निश्शब्दमत्र वै ॥ २.९३.२० ॥

看见阿周那被兄长如此制止,婆罗多啊,狼腹(怖军)心中郁郁,在那里完全沉默了。

2.93.21

ततो राज्ञो धृतराष्ट्रस्य गेहे ।
गोमायुरुच्चैर्व्याहरदग्निहोत्रे।
तं रासभाः प्रत्यभाषन्त राज-
न्समन्ततः पक्षिणश्चैव रौद्राः ॥ २.९३.२१ ॥

此时,在王者持国的宫中,圣火旁,一只豺狼高声嚎叫。大王啊,四面八方的驴子回应它,可怖的鸟儿也是如此。

2.93.22

तं वै शब्दं विदुरस्तत्त्ववेदी ।
शुश्राव घोरं सुबलात्मजा च।
भीष्मो द्रोणो गौतमश्चापि विद्वान् ।
स्वस्तिस्वस्तीत्यपि चैवाहुरुच्चैः ॥ २.९३.२२ ॥

知晓真理的维杜罗听到了那可怕的声音,苏巴拉之女也听到了。毗湿摩、德罗纳和博学的乔答摩也高声呼喊:“吉祥!吉祥!”

2.93.23

ततो गान्धारी विदुरश्चापि विद्वां-
स्तमुत्पातं घोरमालक्ष्य राज्ञे।
निवेदयामासतुरार्तवत्तदा ।
ततो राजा वाक्यमिदं बभाषे ॥ २.९३.२३ ॥

随后,甘陀利与博学的维杜罗目睹那可怕的凶兆,忧心忡忡地禀报了国王。于是国王说出了这些话。

2.93.24

हतोऽसि दुर्योधन मन्दबुद्धे ।
यस्त्वं सभायां कुरुपुङ्गवानाम्।
स्त्रियं समाभाषसि दुर्विनीत ।
विशेषतो द्रौपदीं धर्मपत्नीम् ॥ २.९३.२४ ॥

愚蠢的难敌啊,你已经毁灭了!你在俱卢英杰的集会上对一个女子说话,尤其是对正法之妻德劳帕蒂,你这无礼之人!

2.93.25

एवमुक्त्वा धृतराष्ट्रो मनीषी ।
हितान्वेषी बान्धवानामपायात्।
कृष्णां पाञ्चालीमब्रवीत्सान्त्वपूर्वं ॥ २.९३.२५ ॥

智者持国说完这些话,为了亲族免于毁灭而寻求福祉,先以安慰的话语对般遮罗公主黑公主说道。

2.93.26

विमृश्यैतत्प्रज्ञया तत्त्वबुद्धिः ।
वरं वृणीष्व पाञ्चालि मत्तो यदभिवाञ्छसि। ॥ २.९३.२६ ॥

他以智慧审慎考虑之后,这位对真理了然于心的人说:般遮罗女啊,你向我所求的任何恩典,都请选择吧。

2.93.27

वधूनां हि विशिष्टा मे त्वं धर्मपरमा सती ।
ददासि चेद्वरं मह्यंवृणोमि भरतर्षभ।
सर्वधर्मानुगः श्रीमानदासोऽस्तु युधिष्ठिरः ॥ २.९३.२७ ॥

在所有媳妇之中,你对我而言最为出众,是最崇奉正法的贤淑女子。若你赐我恩典,我所求的是:婆罗多族的雄牛啊,愿遵循一切正法的光辉的坚战不要成为奴隶。

2.93.28

मनस्विनमजानन्तो मैवं ब्रूयुः कुमारकाः ।
एतं वै दासपुत्रेति प्रतिविन्ध्यं ममात्मजम् ॥ २.९३.२८ ॥

不知这位高尚之人的孩童不要这样说:我的儿子般提毗陀耶是奴隶之子。

2.93.29

राजपुत्रः पुरा भूत्वा यथा नान्यः पुमान्क्वचित् ।
लालितो दासपुत्रत्वं पश्यन्नश्येद्धि भारत ॥ २.९३.२९ ॥

他曾是王子,被娇养得无人能比,若见自己竟成了奴隶之子,必定会毁灭,婆罗多啊。

2.93.30

एवं भवतु कल्याणि यथा त्वमभिभाषसे ।
द्वितीयं ते वरं भद्रे ददानि वरयस्व ह।
मनो हि मे वितरति नैकं त्वं वरमर्हसि ॥ २.९३.३० ॥

愿如你所言,吉祥的女子。善良的女子,我再赐你第二个恩惠,你可选择。我的心不愿只限于一个恩惠;你理应求取。

2.93.31

सरथौ सघनुष्कौ न भीमसेनधनञ्जयौ ।
यमौ च वरये राजन्नदासान्स्ववशानहम् ॥ २.९३.३१ ॥

大王,我不求带着战车与弓箭的毗摩森那与阿周那,也不求那对孪生兄弟;我愿他们不为奴,而是自主的自由人。

2.93.32

तथाऽस्तु ते महाभागे यथा त्वं नन्दिनीच्छसि ।
तृतीयं वरयास्मत्तो नासि द्वाभ्यां सुसंस्कृता। ॥ २.९३.३२ ॥

愿如你所愿,大福的女子。向我们求第三个恩惠吧;你不止被两个恩惠所尊重。

2.93.33

त्वं हि सर्वस्नुषाणां मे श्रेयसी धर्मचारिणी ।
लोभो धर्मस्य नाशाय भगवन्नाहमुत्सहे।
अनर्हा वरमादातुं तृतीयं राजसत्तम ॥ २.९३.३३ ॥

你是我所有儿媳中最优秀、遵行法道的人。贪欲是法道的毁灭;尊贵者,我不愿如此。王中之最,我不配接受第三个恩惠。

2.93.34

एकामाहुर्वैश्यवरं द्वौ तु क्षत्रस्त्रियो वरौ ।
त्रयस्तु राज्ञो राजेन्द्र ब्राह्मणस्य शतं वराः ॥ २.९३.३४ ॥

人们说,商人之妻有一个恩惠,刹帝利女子有两个;但国王有三个,婆罗门有一百个,王中之王啊。

2.93.35

पापीयांस इमे भूत्वा सन्तीर्णाः पतयो मम ।
वेत्स्यन्ति चैव भद्राणि राजन्पुण्येन कर्मणा ॥ २.९३.३५ ॥

我的这些丈夫,虽已变得更为有罪,却已渡过难关;大王啊,凭功德之行,他们也将获得吉祥。