摩诃婆罗多 · 章 2.94
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.94.1
या नः श्रुता मनुष्येषु स्त्रियो रूपेण संमताः ।
तासामेतादृशं कर्म न कस्याश्चन शुश्रुम ॥ २.९४.१ ॥
我们听说过人间那些因美貌而受尊敬的女子,却从未听说过有谁做出过这样的事。
2.94.2
क्रोधाविष्टेषु पार्थेषु धार्तराष्ट्रेषु चाप्यति ।
द्रौपदी पाण्डुपुत्राणां कृष्णा शान्तिरिहाभवत् ॥ २.९४.२ ॥
在愤怒的般度之子与持国之子之间,唯有黑天女德罗波蒂在此为般度之子带来了安宁。
2.94.3
अप्लवेऽम्भसि मग्नानामप्रतिष्ठे निमज्जताम् ।
पाञ्चाली पाण्डुपुत्राणां नौरेषां पारगाऽभवत् ॥ २.९४.३ ॥
对于在没有筏子的水中沉没、无处立足而下沉的般度之子,般遮离成了将他们渡到彼岸的船。
2.94.4
तद्वै श्रुत्वा भीमसेनः कुरुमध्येऽत्यमर्षणः ।
स्त्री गतिः पाण्डुपुत्राणामित्युवाच सुदुर्मनाः ॥ २.९४.४ ॥
毗摩娑那听后,在俱卢人中间极度愤怒,心中十分懊恼,说道:“般度之子的依靠竟是一个女人吗?”
2.94.5
त्रीणि ज्योतींषि पुरुष इति वै देवलोऽब्रवीत् ।
अपत्यं कर्म विद्या च यतः सृष्टाः प्रजास्ततः ॥ २.९४.५ ॥
“提婆罗说过,人有三盏明灯:子嗣、行为与学识;众生正是由此被创造出来的。”
2.94.6
अमेध्ये वै गतप्रामे शून्ये ज्ञातिभिरुज्झिते ।
देहे त्रितयमेवैतत्पुरुषस्योपयुज्यते ॥ २.९४.६ ॥
“即使身体不洁,村落荒废空无,又被亲族所弃,人所能依赖的也正是这三者。”
2.94.7
तन्नो ज्योतिरभिहतं दाराणामभिमर्शनात् ।
धनञ्जय कथं स्वित्स्यादपत्यमभिमृष्टजम् ॥ २.९४.७ ॥
德南遮耶啊,因为妻子们遭受玷污,我们的光明已被熄灭;被玷污者所生之子嗣,又怎能有光明?
2.94.8
न चैवोक्ता न चानुक्ता हीनतः परुषा गिरः ।
भारत प्रतिजल्पन्ति सदा तूत्तमपूरुषाः ॥ २.९४.८ ॥
婆罗多啊,卑劣者的粗暴言语,无论是否说出,上等人从不回应。
2.94.9
स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि ।
सन्तः प्रतिविजानन्तो लब्धसम्भावनाः स्वयम् ॥ २.९४.९ ॥
善人只记得所行的善事,不记得所作的仇怨;得到尊重后,他们自己也会回报。
2.94.10
इहैवैतानहं सर्वान्हन्मि शत्रून्समागतान् ।
अथ निष्क्रम्य राजेन्द्र समूलान्हन्मि भारत ॥ २.९४.१० ॥
就在这里,我将杀尽这些聚集的敌人;或者,王中之王啊,婆罗多啊,我出去后将把他们连根除尽。
2.94.11
किं नो विवदितेनेह किमुक्तेन च भारत ।
अद्यैवैतान्निहन्मीह प्रशाधि पृथिवीमिमाम् ॥ २.९४.११ ॥
婆罗多啊,在这里争论或说什么又有何益?今天我就在此杀死他们;请您统治这片大地。
2.94.12
इत्युक्त्वा भीमसेनस्तु कनिष्ठैर्भ्रातृभिः सह ।
मृगमध्ये यथा सिंहो मुहुर्मुहुरुदैक्षत ॥ २.९४.१२ ॥
说完这话,毗摩娑那与幼弟们一起,一次又一次地环顾四周,如同鹿群中的狮子。
2.94.13
सान्त्व्यमानो वीक्षमाणः पार्थेनाक्लिष्टकर्मणा ।
खिद्यत्येव महाबाहुरन्तर्दाहेन वीर्यवान् ॥ २.९४.१३ ॥
虽然被行事不费力的贝尔塔(阿周那)安慰,那大臂的勇士仍凝视着,因内心的灼烧而痛苦。
2.94.14
क्रुद्धस्य तस्य स्रोतोभ्यः कर्णादिभ्यो नराधिप ।
सधूमः सस्फुलिङ्गार्चिः पावकः समजायत ॥ २.९४.१४ ॥
人主啊,从那愤怒者的孔窍、耳等处,升起了带烟、火星与火焰的火。
2.94.15
भ्रुकुटीकृतदुष्प्रेक्ष्यमभवत्तस्य तन्मुखम् ।
युगान्तकाले सम्प्राप्ते कृतान्तस्येव रूपिणः ॥ २.९४.१५ ॥
他紧蹙眉头,那张脸变得令人不敢直视,仿佛劫末之时已到,化为形体的死神(克利坦塔)降临。
2.94.16
युधिष्ठिरस्तमावार्य बाहुना बाहुशालिनम् ।
मैवमित्यब्रवीच्चैनं जोषमास्वेति भारत ॥ २.९४.१६ ॥
坚战以手臂拦住那位臂力强大者,说:“不要这样。”又对他说:“安静地坐下吧,婆罗多后裔啊。”
2.94.17
निवार्य च महाबाहुं कोपसंरक्तलोचनम् ।
पितरं समुपातिष्ठद्धृतराष्ट्रं कृताञ्जलिः ॥ २.९४.१७ ॥
他拦住那双眼因愤怒而通红的大臂者,合掌走到父亲持国面前站立。