Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.96

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.96.1

अनुज्ञातांस्तान्विदित्वा सरत्नधनसञ्जयान् ।
पाण्डवान्धार्तराष्ट्राणां कथमासीन्मनस्तदा ॥ २.९६.१ ॥

得知他们已携珠宝、财富与积蓄被遣返,那时持国之子们对般度五子的心意如何?

2.96.2

अनुज्ञातांस्तान्विदित्वा धृतराष्ट्रेण धीमता ।
राजन्दुः शासनः क्षिप्रं जगाम भ्रातरं प्रति ॥ २.९६.२ ॥

得知智慧的持国已遣送他们,大王啊,难敌之弟难降迅速前往其兄处。

2.96.3

दुर्योधनं समासाद्य सामात्यं भरतर्षभ ।
दुःखार्तो भरतश्रेष्ठ इदं वचनमब्रवीत् ॥ २.९६.३ ॥

他与大臣们一同来到难敌身边,巴拉塔之牛啊,他被悲痛所折磨,巴拉塔之最啊,说出了这些话。

2.96.4

दुःखेनैतत्समानीतं स्थविरो नाशयत्यसौ ।
शत्रुसाद्गमयद्द्रव्यं तद्बुध्यध्वं महारथाः ॥ २.९६.४ ॥

这些财富是费尽千辛万苦才聚集的,那老人却在毁掉它并将其交予敌人。大车战士们,你们要明白这一点。

2.96.5

अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः ।
मिथः सङ्गम्य सहिताः पाण्डवान्प्रति मानिनः ॥ २.९६.५ ॥

于是难敌、迦尔纳,以及苏跋罗之子沙恭尼,相聚一处,心高气傲,共同对付般度五子。

2.96.6

वैचित्रवीर्यं राजानं धृतराष्ट्रं मनीषिणम् ।
अभिगम्य त्वरायुक्ताः श्लक्ष्णं वचनमब्रुवन् ॥ २.९६.६ ॥

他们急速来到持国王面前,他是毗其特拉毗利耶之子、智者,并以温和的言辞说道。

2.96.7

न त्वयेदं श्रुतं राजन्यज्जगाद बृहस्पतिः ।
शक्रस्य नीतिं प्रवदन्विद्वान्देवपुरोहितः ॥ २.९६.७ ॥

大王啊,你没有听过智者、天神的祭司布利哈斯帕蒂阐述因陀罗之策所说的话吗?

2.96.8

सर्वोपायैर्निहन्तव्याः शत्रवः शत्रुसूदन ।
पुरा युद्धाद्बलाद्वापि प्रकुर्वन्ति तवाहितम् ॥ २.९६.८ ॥

灭敌者啊,敌人必须用一切手段消灭,趁他们尚未以战争或武力加害于你。

2.96.9

ते वयं पाण्डवधनैः सर्वान्सम्पूज्य पार्थिवान् ।
यदि तान्योधयिष्यामः किं वै निः परिहास्यति ॥ २.९६.९ ॥

如果我们用般度子孙的财富厚待所有国王,使他们与之作战,般度子孙还会放过我们吗?

2.96.10

अहीनाशीविषान्क्रुद्धान्नाशाय समुपस्थितान् ।
कृत्वा कण्ठे च पृष्ठे च कः समुत्स्रष्टुमर्हति ॥ २.९६.१० ॥

谁能放开那些前来毁灭、愤怒的毒蛇,而它们曾被置于自己的喉间与背上?

2.96.11

आत्तशस्त्रा रथगताः कुपितास्तात पाण्डवाः ।
निःशेषान्नः करिष्यन्ति क्रुद्धा ह्याशीविषा इव ॥ २.९६.११ ॥

父亲啊,持械乘车、愤怒的般度子孙,将像愤怒的毒蛇一样把我们彻底消灭。

2.96.12

सन्नद्धो ह्यर्जुनो याति विधृत्य परमेषुधी ।
गाण्डीवं मुहुरादत्ते निःश्वसंश्च निरीक्षते ॥ २.९६.१२ ॥

身披铠甲的阿周那背负两只上好的箭囊前行;他一次又一次拿起甘狄拔弓,叹息着四处张望。

2.96.13

गदां गुर्वी समुद्यम्य त्वरितश्च वृकोदरः ।
स्वरथं योजयित्वाऽशु निर्यात इति नः श्रुतम् ॥ २.९६.१३ ॥

据我们所闻,狼腹(怖军)举起沉重的狼牙棒,迅速套好自己的战车,随即出发了。

2.96.14

नकुलः खह्गमादाय चर्म चाप्यर्धचन्द्रवत् ।
सहदेवश्च राजा च चक्रुराकारमिङ्गितैः ॥ २.९६.१४ ॥

无种拿起剑和半月形的盾牌;偕天与国王也以手势表明了他们的意图。

2.96.15

ते त्वास्थाय रथान्सर्वे बहुशस्त्रपरिच्छदान् ।
अभिघ्नान्तो रथव्रातान्सेनायोगाय निर्ययुः ॥ २.९६.१५ ॥

他们都登上装备了许多武器的战车,击杀战车部队,出发去与大军会合。

2.96.16

न क्षंस्यन्ते तथाऽस्माभिर्जातु विप्रकृता हि ते ।
द्रौपद्याश्च परिक्लेशं कस्तेषां क्षन्तुमर्हति ॥ २.९६.१६ ॥

我们所侮辱的他们,永远不会原谅我们;又有谁能替他们原谅德罗波蒂所受的苦难?

2.96.17

न पश्यामि रणे क्रद्धुं बीभत्सुं प्रतिवारणम् ।
भीष्मो द्रोणश्च कर्णश्च द्रौणिश्च रथिनां वरः ॥ २.९६.१७ ॥

我看不到有谁能在战场上抵挡愤怒的毗菩蒂苏(阿周那):无论是毗湿摩、德罗纳、迦尔纳,还是德罗纳之子——战车武士中的最强者。

2.96.18

कृपश्च वृषसेनश्च विकर्णश्च जयद्रथः ।
वाह्लीकः सोमदत्तश्च भूरिर्भूरिश्रवाः शलः ॥ २.९६.१८ ॥

还有慈悲、跋利舍娑纳、毗迦尔纳、胜车、伐希迦、苏摩达多、布利、布利室罗婆,以及沙利耶。

2.96.19

शकुनिः ससुतश्चैव नृपाश्चान्ये च कौरवाः ।
नैते सर्वे रणोद्युक्ताः पार्थं सोढुमशक्नुवन् ॥ २.९६.१९ ॥

沙古尼与他的儿子,以及其他诸王和俱卢族人——他们虽然都已准备好作战,却无法抵挡帕尔塔。

2.96.20

अर्जुनेन समो लोके नास्ति वीर्ये धनुर्धरः ।
योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना ॥ २.९६.२० ॥

世上在勇力上无人能与阿周那相比的弓手;与阿周那相当的双臂者,便等同于多臂者。

2.96.21

कस्त्वयोक्तः पुमान्वीरो बीभत्सुसमविक्रमः ।
तं ये व्रूहि महावीर्यं श्रोतुमिच्छामि पुत्रक ॥ २.९६.२१ ॥

孩儿啊,请告诉我,你所描述的那位英雄是谁,他的勇武与比毗咤苏(阿周那)相当——那位大力之人;我愿意听闻。

2.96.22

कार्तवीर्यस्य चरितं शृणु राजन्महात्मनः ।
अव्यक्तप्रभवो ब्रह्मा सर्वलोकपितामहः ॥ २.९६.२२ ॥

大王,请听伟大之人卡尔塔维里耶的事迹。梵天,其本源未显,乃一切世界的祖父。

2.96.23

ब्रह्मणोऽत्रिः सुतो विद्वानत्रेः पुत्रो निशाकरः ।
सोमस्य तदु बुधः पुत्रो बुधस्य तु पुरूरवाः ॥ २.९६.२३ ॥

梵天生阿特里;阿特里的博学之子是尼舍迦罗(月亮)。月神之子是菩陀,菩陀之子是普如罗婆。

2.96.24

तस्याप्यध सुतोऽप्यायुरायोस्तु नहुषः सुतः ।
नहुशस्य ययातिस्तु ययातेस्तनुजो यदुः ॥ २.९६.२४ ॥

他的儿子是阿育斯,阿育斯之子是那呼莎。那呼莎之子是耶耶提,耶耶提之子是亚度。

2.96.25

यदोः पुत्रो महाराज सहस्रैजेति विश्रुतः ।
सहसौजसुतो राजञ्छक्रदासेति विश्रुतः ॥ २.९६.२५ ॥

大王啊,雅度之子以萨诃室罗遮之名闻名。王啊,萨诃室罗遮斯之子以释迦陀萨之名闻名。

2.96.26

शक्रदानस्य दायादो हेहयो नाम पार्थिवः ।
हेहयस्याभवत्पुत्रो धर्मनेत्र इति श्रुतः ॥ २.९६.२६ ॥

释迦陀那的后裔名为海哈耶的国王。海哈耶之子以达摩内特罗之名闻名。

2.96.27

धर्मनेत्रस्य तु कृती कृतवीर्यस्तु कार्तिजः ।
कृतवीर्यस्य तनयो ह्यर्जुनो बलिनां वरः ॥ २.९६.२७ ॥

达摩内特罗之子是熟练的克里提;克里提之子是克里塔вирья。克里塔вирья之子是阿周那,是强者中最优秀的。

2.96.28

स चार्जुनो महाराज तपो घोरं चकार ह ।
साग्रं वर्षायुतं जज्ञ इत्येवं मे श्रुतं पुरा ॥ २.९६.२८ ॥

大王啊,那阿周那修了猛烈的苦行。我先前听说,这苦行整整持续了一万年。

2.96.29

तथेयं पृथिवी राजन्सप्तद्वीपा सपत्तना ।
ससमुद्राकरा तात विधिनोग्रेण वै जिता ॥ २.९६.२९ ॥

同样,王啊,这大地连同七洲、城邑、海洋与矿藏,亲爱的孩子,确实是以那猛烈的法度被征服的。

2.96.30

स चार्जुनोऽथ तेजस्वी तपः परमदुश्चरम् ।
दत्तमाराधयामास सोऽर्जुनोऽत्रिसुतं मुनिम् ॥ २.९६.३० ॥

于是光明的阿周那修了极其艰难的苦行,这位阿周那使阿特里之子那位仙人欢喜。

2.96.31

तस्य दत्तो वरान्प्रादाच्चतुरः पार्थिवस्य वै ।
पूर्वं बाहुसहस्रं तु प्रार्थितः परमो वरः ॥ २.९६.३१ ॥

达陀授予该王四个恩赐。他首先请求千臂,这是最殊胜的恩赐。

2.96.32

अधर्मे प्रीयमाणस्य सद्भिस्तत्र निवारणम् ।
धर्मेण पृथिवीं जित्वा धर्मेणैव हि रञ्जनम् ॥ २.९६.३२ ॥

在那里,善人阻止那位以不义为乐的人。以法得地,又以法令其欢喜。

2.96.33

सङ्ग्रामान्सुबहून्कृत्वा हत्वा चारीन्सहस्रशः ।
सङ्ग्रामे यतमानस्य वधश्चैवाधिकाद्रणै ॥ २.९६.३३ ॥

他进行了无数次战斗,杀死了成千上万的敌军战士,而在战争中奋力作战者的死亡,也多发生在战阵之中。

2.96.34

तस्य बाहुसहस्रं तु युध्यतः किल भारत ।
रथो ध्वजश्च सञ्जज्ञ इत्येवं मे श्रुतं परा ॥ २.९६.३४ ॥

婆罗多啊,据说他作战时有千臂,他的战车和旗帜也显现出来。我如此听闻,最为殊胜。

2.96.35

तथेयं पृथिवी राजन्त्सप्तद्वीपा सपत्तना ।
ससमुद्राकरा तात विधिनोग्रेण वै जिता ॥ २.९६.३५ ॥

如此,国王啊,这大地连同七洲、城市、海洋与矿藏,亲爱的,以严酷的方式被征服了。

2.96.36

चार्जुनोऽथ तेजस्वी सप्तद्वीपेश्वरो।़भवत् ।
च राजा महायज्ञानाजहार महाबलः।
प्रशशास महाबाहुर्महीं स च समा बहूः ॥ २.९६.३६ ॥

于是光辉的阿周那成为七洲之主。那位大力之王举行大祭,那位大臂者统治大地许多年。

2.96.37

ततोऽर्जुनः कदाचिद्वै राजन्माहिष्मतीपतिः ।
नर्मदां भरतश्रेष्ठं तां तु दारैर्ययौ सह ॥ २.९६.३७ ॥

那时,摩希什玛蒂之主阿周那,有一次,哦国王,与他的妻子们一同前往纳尔马达河,哦婆罗多中最优秀者。

2.96.38

ततस्तां स नदीं गत्वा प्रविश्यन्तर्जले तदा ।
कर्तुं राजञ्जलक्रीडां ततो राजोपचक्रमे ॥ २.९६.३८ ॥

于是他来到那条河,进入水中,哦国王,开始在水中嬉戏;此时国王便开始了。

2.96.39

तस्मिन्नेव ततः काले रावमो राक्षसैः सह ।
लङ्काया ईश्वरस्तात तं देशं प्रययौ बली ॥ २.९६.३९ ॥

就在那时,楞伽之主罗波那,与罗刹们一同,亲爱的,强大地前往那个地方。

2.96.40

ततस्तमर्जुनं दृष्ट्वा नर्मदायां दशाननः ।
नित्यं क्रोधपरो धीरो वरदानेन मोहितः ॥ २.९६.४० ॥

于是十首罗波那在纳尔马达河中看见阿周那,他总是倾向愤怒,坚定,被所赐的恩惠所迷惑。

2.96.41

अभ्यघावत्सुसङ्क्रुद्धो महेन्द्रं शम्बरो यथा ।
अर्जुनोऽप्यथ तं दृष्ट्वा रावणं प्रत्यवारयत् ॥ २.९६.४१ ॥

他极度愤怒,冲向阿周那,如同商跋罗冲向因陀罗;阿周那见到他,便反过来阻挡罗波那。

2.96.42

ततस्तौ चक्रतुर्युद्धं रावणश्चार्जुनश्च वै ।
ततस्तु दुर्जयं वीरं वरदानेन दर्पितम् ॥ २.९६.४२ ॥

于是罗波那与阿周那二人果然交战;那位因恩惠而骄傲的不可战胜的英雄。

2.96.43

राक्षसेन्द्रं मनुष्येन्द्रो जित्वा बध्वा रणे बलात् ।
बध्वा धनुर्ज्यया राजन्विवेशाथ पुरीं स्वकाम् ॥ २.९६.४३ ॥

人王在战场上以武力战胜罗刹之王,用弓弦将其捆绑,大王啊,随后进入了自己的城市。

2.96.44

स तु तं बन्धितं श्रुत्वा पुलस्त्यो रावणं तदा ।
मोक्षयाणास बन्धाद्वै पुरे दृष्ट्वाऽर्जुनं तदा ॥ २.९६.४४ ॥

然而,补罗私耶听闻罗波那被缚,便在城中见到阿周那,于是使罗波那从束缚中解脱。

2.96.45

ततः कदाचित्तेजस्वी कार्तवीर्योर्जुनो बली ।
समुद्रतीरं गत्वाथ विरचन्दर्पमोहितः ॥ २.९६.४५ ॥

后来有一次,光辉而强大的迦尔塔维尔亚·阿周那来到海边,被傲慢迷惑,开始(做某事)。

2.96.46

अवाकिरच्छितशरैः समुद्रं स तु भारत ।
तं समुद्रो नमस्कृत्य कृताञ्जलिरभाषत ॥ २.९६.४६ ॥

婆罗多啊,他用利箭射满海洋。于是大海向他行礼,合掌说道。

2.96.47

आशुगान्वीर मा मुञ्च ब्रूहि किं करवाणि ते ।
मदाश्रयाणि सत्वानि त्वद्विसृष्टैर्महेषुभिः।
बाध्यन्ते राजशार्दूल तेभ्यो देह्यभयं विभो ॥ २.९६.४७ ॥

迅箭的英雄啊,请停止!告诉我,我该为你做什么?依赖于我的众生正被你射出的大箭所伤。王中之虎啊,大能者啊,请赐予他们安全。

2.96.48

देहि सिन्धुपते युद्धमद्यैव त्वरया मम ।
अथवा पीडयामि त्वां तस्मात्त्वं कुरु माचिरम् ॥ २.९६.४८ ॥

海洋之主啊,今日便快快给我一战;否则我将令你受苦。因此不要迟延。

2.96.49

लोके राजन्महावीर्या बहवो निवसन्ति ये ।
तेषामेकेन राजेन्द्र कुरु युद्धं महाबल ॥ २.९६.४९ ॥

啊,国王,世间居住着许多大勇士。啊,诸王之主,啊,大力者,请与他们中的一人交战。

2.96.50

मत्समो यदि सङ्ग्रामे वरायुधधरः क्वचित् ।
विद्यते तं ममाचक्ष्व यः समासेत मा मृधे ॥ २.९६.५० ॥

若有某处有与我相当、执持上好兵器、能在战场上与我交锋的人,请告诉我他的名字。

2.96.51

महर्षिर्जमदग्निस्तु यदि राजन्परिश्रुतः ।
तस्य पुत्रो रणं दातुं यथावद्वै तवार्हति ॥ २.९६.५१ ॥

啊,国王,若大仙人阇摩陀那尼闻名于世,那么他的儿子正配依礼与你交战。

2.96.52

समुद्रस्य वचः श्रुत्वा राजा माहिष्मतीपतिः ।
नारदस्य च वै पूर्वं क्रोधेन महता वृतः ॥ २.९६.५२ ॥

摩希什玛蒂的国王听了大海的话,他先前因那罗陀的话已被大怒所控,此时又被愤怒所包围。

2.96.53

ततः प्रतिययौ शीघ्रं क्रोधेन सह भारत ।
स तमाश्रममागत्य काममेवान्वपद्यत ॥ २.९६.५३ ॥

于是,婆罗多啊,他怀着愤怒急速返回。来到那座修行处后,他便听凭自己的欲望。

2.96.54

स कामं प्रतिकूलानि चकार सह बन्धुभिः ।
आयासं जनयामास रामस्य स महात्मनः ॥ २.९६.५४ ॥

他因欲望,与亲族一同做出了不利之事,使那位大德的罗摩陷入了苦恼。

2.96.55

ततस्तेजः प्रजज्वाल रामस्यामिततेजसः ।
प्रदहन्निव सैन्यानि रश्मिमानिव तेजसा ॥ २.९६.५५ ॥

于是无限光辉的罗摩之光骤然燃起,仿佛要焚烧军队,如太阳以其光芒照耀。

2.96.56

अथ तौ चक्रतुर्युद्धं वृत्रवासवयोरिव ॥ २.९६.५६ ॥

于是二人展开了一场如同弗栗多与因陀罗(帝释)之间的战斗。

2.96.57

ततः परशुमादाय नृपं बाहुसहस्रिणम् ।
चिच्छेद सहसा रामो बहुशाखमिव द्रुमम् ॥ २.९६.५७ ॥

于是罗摩举起斧头,忽然砍倒了那位千臂之王,如同砍倒一棵枝叶繁茂的大树。

2.96.58

तं हतं पतितं दृष्ट्वा समेतास्तस्य बान्धवाः ।
असीनादाय शक्तीश्च रामं ते प्रत्यवारयन् ॥ २.९६.५८ ॥

见他被杀倒地,其亲属们聚集起来,各持刀剑长矛,将罗摩拦住。

2.96.59

रामोऽपि रथमास्थाय धनुरायम्य सत्वरः ।
विसृजन्परमास्त्राणि व्यधमत्पार्थिवान्बली ॥ २.९६.५९ ॥

罗摩也登上战车,迅速拉开弓,射出至上神兵,将强大的诸王驱散。

2.96.60

ततस्तु क्षत्रिया राजञ्जामदग्न्यभयार्दिताः ।
विविशुर्गिरिदुर्गाणि मृगाः सिंहभयादिव ॥ २.९६.६० ॥

于是,大王,被雄狮驱赶时的鹿一般,饱受耶摩达格尼(罗摩)之恐惧的刹帝利们,纷纷躲入山中的险要之地。

2.96.61

तेषां स्वविहितं कर्म तद्भयान्नानुतिष्ठति ।
प्रजा वृषलतां प्राप्ता ब्राह्मणानामदर्शनात् ॥ २.९६.६१ ॥

他们所规定的职责因恐惧而不被履行;因为婆罗门不再出现,民众沦为首陀罗的地位。

2.96.62

तथा च द्रविडाः काचाः पुण्डाश्च शबरैः सह ।
वृषलत्वं परिगता विच्छिन्नाः क्षत्रधर्मिणः ॥ २.९६.६२ ॥

同样,德罗毗荼人、迦恰人和班陀罗人与沙巴罗人一道沦为首陀罗的地位,而遵循刹帝利职责者则被割断。

2.96.63

ततस्तु हतवीरासु क्षत्रियासु पुनः पुनः ।
द्विजैरभ्युदितं क्षत्रं तानि रामो निहत्य च ॥ २.९६.६३ ॥

此后,英勇的刹帝利一再被杀,再生族又重新扶起了刹帝利阶层,而罗摩杀死他们之后,

2.96.64

ततस्त्रिस्मप्तमे याते रामं वागशरीरिणी ।
दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता ॥ २.९६.६४ ॥

此后第二十一次过去时,一个无形的神圣声音,甘美而闻名于一切世界,对罗摩说话。

2.96.65

रामराम निवर्तस्व स्वगुणं नात्र पश्यसि ।
क्षत्रबन्धूनिमान्प्रामैर्विप्रयुज्य पुनः पुनः ॥ २.९६.६५ ॥

罗摩,罗摩,请回头!你在此看不到自己的德性,一再将这些刹帝利亲族与平民隔离。

2.96.66

तथैव तं महात्मानमृचीकप्रमुखास्तथा ।
रामराम महावीर्य निवर्तस्वेत्यथाब्रुवन् ॥ २.९६.६६ ॥

同样,以理奇迦为首的诸位对那位大德者说:罗摩,罗摩,大力者,请回头!

2.96.67

पितुर्वधमसमृष्यंस्तु रामः प्रोवाच तानृषीन् ।
नार्हा हन्त भवन्तो मां निवारयितुमित्युत ॥ २.९६.६७ ॥

罗摩不能忍受父亲被杀,对那些仙人说:"你们不应阻止我。"

2.96.68

नार्हसि क्षत्रबन्धूंस्त्वं निहन्तुं जयतां वर ।
न हि युक्तं त्वया तात ब्राह्मणेनसता नृपान् ॥ २.९६.६८ ॥

胜利者中的最优者啊,你不应杀害堕落的刹帝利。亲爱的儿子,身为婆罗门,杀害国王对你并不合适。

2.96.69

पितॄणां वचनं श्रुत्वा क्रोधं त्यक्त्वा स भार्गवः ।
अश्वमेधसहस्राणि नरमेधशतानि च ॥ २.९६.६९ ॥

婆哩古闻知祖先的话语,便舍弃愤怒,举行了千次马祭与百次人祭。

2.96.70

इष्ट्वा सागरपर्यन्तां काश्यपाय ददौ महीम् ।
तेन रामेण सङ्ग्रामे तुल्यस्तात दयञ्जयः ॥ २.९६.७० ॥

他举行祭祀后,将以大海为界的大地布施给迦叶波。亲爱的,在战斗中达那阇耶(阿周那)与那位罗摩相当。

2.96.71

कार्तवीर्येण च रणे तुल्यः पार्थो न संशयः ।
रणे विक्रम्य राजेन्द्र पार्थं जेतुं न शक्यते ॥ २.९६.७१ ॥

在战斗中,普利塔之子(阿周那)无疑与迦尔达维里耶相等。诸王之主啊,普利塔之子在战场上不能靠勇力被征服。