摩诃婆罗多 · 章 2.99
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.99.1
ततः पराजिताः पार्था वनावासाय दीक्षिताः ।
अजिनान्युत्तरीयाणि जगृहुश्च यथाक्रमम् ॥ २.९९.१ ॥
于是战败的普利塔之子们受戒准备林居,依次披上鹿皮与上衣。
2.99.2
अजिनैः संवृतान्दृष्ट्वा हृतराज्यानरिन्दमान् ।
प्रस्थितान्वनवासाय ततो दुःशासनोऽब्रवीत् ॥ २.९९.२ ॥
见诸降敌者披鹿皮、失王国、将赴林居,于是难敌之弟难降开口说道。
2.99.3
प्रवृत्तं धार्तराष्ट्रस्य चक्रं राज्ञो महात्मनः ।
पराजिताः पाण्डवेया विपत्तिं परमां गताः ॥ २.९९.३ ॥
大德王持国之子的轮盘已经转动;败北的般度之子陷入了极大的灾难。
2.99.4
अद्य देवाः सम्प्रयाताः समैर्वर्त्मभिरस्थलैः ।
गुणज्येष्ठास्तथा श्रेष्ठाः श्रेयांसो यद्वयं परैः ॥ २.९९.४ ॥
今日诸神走上平坦无阻之路;而我们德行为长、最为卓越与吉祥,却被敌人所败。
2.99.5
नरकं पातिताः पार्था दीर्घकालमनन्तकम् ।
मुखाच्च हीना राज्याच्च विनष्टाः शाश्वतीः समाः ॥ २.९९.५ ॥
普利塔之子被投入地狱,历时长久而无尽;失去荣誉与王国,将在永恒的岁月中沉沦毁灭。
2.99.6
धनेन मत्ता ये ते स्म धार्तराष्ट्रान्प्रहासिषुः ।
ते निर्जिता हृतधना वनमेष्यन्ति पाण्डवः ॥ २.९९.६ ॥
曾因财富而骄狂、嘲笑持国之子的般度五子,如今战败、失去财富,将要前往森林。
2.99.7
चित्रान्सन्नाहानवमुञ्चन्तु चैषां ।
वासांसि दिव्यानि च भानुमन्ति
विवास्यन्तां रुरुचर्माणि सर्वे ।
यथा ग्लहं सौबलस्याभ्युपेताः ॥ २.९९.७ ॥
让他们脱去五彩的铠甲,也脱去他们光辉的神圣衣裳。让他们全都穿上鹿皮,如同在苏巴拉之子的骰子赌局中被押上并输掉的人一样。
2.99.8
न सन्ति लोकेषु पुमांस ईदृशा ।
इत्येव ये भावितबुद्धयः सदा।
ज्ञास्यन्ति तेत्मानमिमेऽद्य पाण्डवा ।
विपर्यये पाण्ढतिला इवाफलाः ॥ २.९९.८ ॥
世间没有像他们这样的人——心智常常明澈的人明白这一点;今天这些般遮人将认识自己。在命运逆转之中,他们如同般度家族的芝麻,已变得毫无结果。
2.99.9
इदं हि वासो यदि वेदृशानां ।
मनस्विनां रौरवमाहवेषु
आदीक्षितानामजिनानि यद्व-
द्वलीयसां पश्यत पाण्डवानाम् ॥ २.९९.९ ॥
若这样心胸高尚的人在战场上以罗露鹿皮为衣,那么请看:如同受戒者披着羚羊皮,这些强大的般遮人也是如此。
2.99.10
महाप्राज्ञः सौमकिर्यज्ञसेनः ।
कन्यां पाञ्चालीं पाण्डवेभ्यः प्रदाय।
अकार्षिद्वै सुकृतं नेह किञ्चित् ।
क्लीबाः पार्थाः पतयो याज्ञसेन्याः ॥ २.९९.१० ॥
极具智慧的索马卡之裔祭财王,将般遮罗的少女嫁给般遮人,却在此未做任何善举;作为耶贾塞尼之夫的普利塔之子们,是无能之辈。
2.99.11
सूक्ष्मप्रावारानजिनोत्तरीयान् ।
दृष्ट्वाऽरण्ये निर्धनानप्रतिष्ठान्।
कां त्वं प्रीतिं लप्स्यसे याज्ञसेनि ।
पतिं वृणीष्वेह यमन्यमिच्छसि ॥ २.९९.११ ॥
你看到这些人在森林中,贫穷而无地位,身穿细软的上衣和鹿皮,你在何种喜悦中能得到欢乐,耶compact的女儿啊?在此选择你所愿的另一人为夫。
2.99.12
एते हि सर्वे कुरवः समेताः ।
क्षान्ता दान्ताः सुद्रविणोपपन्नाः।
एषां वृणीष्वैकतमं पतित्वे ।
न त्वां नयेत्कालविपर्ययोऽयम् ॥ २.९९.१२ ॥
此地聚集的所有俱卢人都宽忍、克己,财富丰厚。请从中选一人为夫;愿这时势的逆转不要把你引入歧途。
2.99.13
यथाऽफलाः षण्ढतिला यथा चर्ममया मृगाः ।
तथैव पाण्डवाः सर्वे यथा काकयवा अपि ॥ २.९९.१३ ॥
如同不结果的无实芝麻,如同皮革制成的鹿,如同乌鸦大麦一样无用,所有般度之子也是如此。
2.99.14
किं पाण्डवांस्ते पतितानुपास्य ।
मोघः श्रमः षण्ढतिलानुपास्य।
एवं नृशंसः परुषाणि पार्था-
नश्रावयद्धृतराष्ट्रस्य पुत्रः ॥ २.९९.१४ ॥
侍奉堕落的般度之子有什么益处?侍奉不结果的芝麻是徒劳的辛苦。就这样,残忍的持国之子让般度之子听到了刻薄的言语。
2.99.15
तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी ।
निर्भर्त्स्योच्चैः सन्निगृह्यैव रोषात्।
उवाच चैनं सहसैवोपगम्य ।
सिंहो यथा हैमवतः शृगालम् ॥ २.९९.१५ ॥
毗摩世那听到这话,极为愤怒,大声斥责;他强忍怒火,忽然走到他面前说话,如同喜马拉雅的狮子对豺狼说话一样。
2.99.16
क्रूर पापजनैर्जुष्टमकृतार्थं प्रभाषसे ।
गान्धारविद्यया हि त्वं राजमध्ये विकत्थसे ॥ २.९९.१६ ॥
残忍的人啊,与罪人为伍,你徒然言说。只凭犍陀罗的骰子之术,你才在诸王之中自夸。
2.99.17
यथा तुदसि मर्माणि वाक्छरैरिह नो भृशम् ।
तथा स्मारयिता तेऽहं कृन्तन्मर्माणि संयुगे ॥ २.९९.१७ ॥
你在此以言语之箭猛烈刺伤我们的要害,我也将在战场上斩断你的要害,使你记起。
2.99.18
ये च त्वामनुवर्तन्ते क्रोधलोभवशानुगाः ।
गोप्तारः सानुबन्धांस्तान्नेताऽस्मि यमसादनम् ॥ २.९९.१८ ॥
那些受愤怒与贪婪支配而追随你、保护你的人,连同他们的随从,我都要引向阎摩的居所。
2.99.19
एवं ब्रुवाणमजिनैर्विवासितं ।
दुःशासनस्तं परिनृत्यति स्म।
मध्ये कुरूणां धर्मनिबद्धमार्गं ।
गौर्गौरिति स्माह्वयन्मुक्तलज्जः ॥ २.९९.१९ ॥
当他如此说话、身穿鹿皮时,难降跳舞围绕他并嘲弄他。在俱卢人之中,他无耻地喊道:那位道路受法约束的人啊——“牛,牛!”
2.99.20
नृशंस परुषं वक्तुं दुःशासन त्वया ।
निकृत्या हि धनं लब्ध्वा को विकत्थितुमर्हति ॥ २.९९.२० ॥
残忍的难降啊,你说粗暴的话并不适宜。通过欺诈得到财富的人,谁配得上自夸呢?
2.99.21
मैव स्म सुकृतां लोकान्गच्छेत्पार्थो वृकोदरः ।
यदि वक्षो हि ते भित्त्वा न पिबेच्छोणितं रणे ॥ २.९९.२१ ॥
若我在战场上不撕开你的胸膛、不饮你的血,愿狼腹(毗摩)般的般度之子永不往善人的世界。
2.99.22
धार्तराष्ट्रान्रणे हत्त्वा मिषतां सर्वधन्विनाम् ।
शमं गन्ताऽस्मि नचिरात्सत्यमेतद्ब्रवीमि ते ॥ २.९९.२२ ॥
在战场上杀死持国之子,众多弓手目睹之下,我不久便将获得安宁——此乃我对你的实话。
2.99.23
तस्य राजा सिंहगतेः सखेलं ।
दुर्योधनो भीमसेनस्य हर्षात्।
गतिं स्वगत्याऽनुचकार मन्दो ।
निर्गच्छतां पाण्डवानां सभायाः ॥ २.९९.२३ ॥
愚蠢的难敌欢喜地戏谑模仿了狮子般步态的怖军,当时般度五子正离开议会。
2.99.24
नैतावता कृतमित्यब्रवीत्तं ।
वृकोदरः सन्निवृत्तार्धकायः।
शीघ्रं हि त्वां निहतं सानुबन्धं ।
संस्मार्याहं प्रतिवक्ष्यामि मूढ ॥ २.९९.२४ ॥
“这还算不得什么”,狼腹(怖军)说着,将身子半转向他说道:“愚人啊,不久我将回答你,让你记起你和你的追随者都已被杀。”
2.99.25
एवं समीक्ष्यात्मनि चावमानं ।
नियम्य मन्युं बलवान्स मानी।
राजानुगः संसदि कौरवाणां ।
विनिष्कामन्वाक्यमुवाच भीमः ॥ २.९९.२५ ॥
怖军思量自己受到的侮辱,强压怒火;他随着国王,走出考拉瓦的议会时,说出了这些话。
2.99.26
अहं दुर्योधनं हन्ता कर्णं हन्ता धनञ्जयः ।
शकुनिं चाक्षकितवं सहदेवो हनिष्यति ॥ २.९९.२६ ॥
我将杀死难敌;财主(阿周那)将杀死迦尔纳;偕提婆将杀死掷骰子的沙恭尼。
2.99.27
इदं च भूयो वक्ष्यामि सभामध्ये बृहद्वचः ।
सत्यं देवाः करिष्यन्ति यन्नो युद्धं भविष्यति ॥ २.९९.२७ ॥
我还要在议会之中再说这番豪言:诸神将使之成真,我们之间的战争必将发生。
2.99.28
सुयोधनमिमं पापं हन्ताऽस्मि गदया युधि ।
शिरः पादेन चास्याहमधिष्ठास्यामि भूतले ॥ २.९९.२८ ॥
在战场上我将用铁杵杀死这个恶人苏约达那,并用脚把他的头踩在地上。
2.99.29
वाक्यशूरस्य चैवास्य परुषस्य दुरात्मनः ।
दुःशासनस्य रुधिरं पाताऽस्मि मृगराडिव ॥ २.९९.२९ ॥
这个只会逞口舌之勇、粗暴而心怀恶意的杜夏萨那的血,我要像狮子一样饮尽。
2.99.30
भीमसेन न ते सन्ति येषां वैरं त्वया त्विह ।
मत्ता मृगेषु सुखिनो न बुद्ध्यन्ते महद्भयम् ॥ २.९९.३० ॥
婆罗多之子怖军啊,在此与你结仇的人并非你的亲人。在群鹿之中沉醉而快乐的人,不会察觉巨大的危险。
2.99.31
नैवं वाचा व्यवसितं भीम विज्ञायते सताम् ।
इतश्चतुर्दशे वर्षे द्रष्टारो यद्भविष्यति ॥ २.९९.३१ ॥
婆罗多之子怖军啊,以这样的言语宣告的决心,善人并不认可。从今日起的第十四年,他们将会看到将要发生的事。
2.99.32
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः ।
दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् ॥ २.९९.३२ ॥
大地将饮尽难敌、迦尔纳、心怀恶意的沙古尼以及以杜夏萨那为首的四人之血。
2.99.33
असूयितारं द्रष्टारं प्रवक्तारं विकत्थनम् ।
भीमसेन नियोगात्ते हन्ताहं कर्णमाहवे ॥ २.९९.३३ ॥
怖军啊,依你的命令,我将在战场上杀死迦尔纳——那个善妒、夸夸其谈、口若悬河的人。
2.99.34
अर्जुनः प्रतिजानीते भीमस्य प्रियकाम्यया ।
कर्णं कर्णानुगांश्चैव रणे हन्ताऽस्मि पत्रिभिः ॥ २.९९.३४ ॥
阿周那为了讨好怖军,发誓:在战场上我要用箭杀死迦尔纳及其随从。
2.99.35
ये चान्ये प्रतियोत्स्यन्ति बुद्धिमोहेन मां नृपाः ।
तांश्च सर्वानहं बाणैर्नेताऽस्मि यमसादनम् ॥ २.९९.३५ ॥
那些因心智迷惑而与我对抗的其他国王,我都要用箭把他们送往阎摩之处。
2.99.36
चलेद्वि हिमवान्स्थानान्निष्प्रभः स्याद्दिवाकरः ।
शैत्यं सोमात्प्रणश्येत मत्सत्यं विचलेद्यदि ॥ २.९९.३६ ॥
若我的真实动摇,愿喜马拉雅离开它的位置,太阳失去光辉,月亮的清凉消逝。
2.99.37
न प्रदास्यति चेद्राज्यमितो वर्षे चतुर्दशे ।
दुर्योधनोऽभिसत्कृत्य सत्यमेतद्भविष्यति ॥ २.९९.३७ ॥
从今起第十四年,若难敌不归还王国,此言便成真。
2.99.38
इत्युक्तवति पार्थे तु श्रीमान्माद्रवतीसुतः ।
प्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान् ॥ २.९९.३८ ॥
阿周那说完这话后,玛德丽之子、光辉而威猛的萨诃提婆高举起他那强壮的臂膀。
2.99.39
सौबलस्य वधं प्रेप्सुरिदं वचनमब्रवीत् ।
क्रोधसंरक्तनयनो निः श्वसन्निव पन्नगः ॥ २.९९.३९ ॥
渴望杀死萨鲍罗(沙恭尼),眼中因愤怒而发红,像毒蛇一样喘息,萨诃提婆说出了这些话。
2.99.40
अक्षान्यान्मन्यसे मूढ गान्धाराणां यशोहर ।
नैतेऽक्षा निशिता बाणास्त्वयैते समरे वृताः ॥ २.९९.४० ॥
愚人啊,夺走犍陀罗人荣誉者!你以为这些是骰子,但它们不是骰子,而是你在战场上所选的锐利箭矢。
2.99.41
यथा चैवोक्तवान्भीमस्त्वामुद्दिश्य सबान्धवम् ।
कर्ताहं कर्मणस्तस्य कुरु कार्याणि सर्वशः ॥ २.९९.४१ ॥
正如婆罗那所说,针对你和你的亲属,那件事的执行者就是我。现在,你要全面地履行你的一切职责。
2.99.42
हन्ताऽस्मि तरसा युद्धे त्वामेवहे सबान्धवम् ।
यदि स्थास्यसि सङ्ग्रामे क्षत्रधर्मेण सौबल ॥ २.९९.४२ ॥
苏跋罗之子啊!如果你与亲属依刹帝利之法坚守在战场上,我将迅速在战斗中杀死你和你的亲属。
2.99.43
सहदेववचः श्रुत्वा नकुलोऽपि विशाम्पते ।
दर्शनीयतमो नॄणामिदं वचनमब्रवीत् ॥ २.९९.४३ ॥
人主啊!听了偕天的话,人中最俊美的无尽也说出了这些话。
2.99.44
सुतेयं यज्ञसेनस्य द्यूतेऽस्मिन्धृतराष्ट्रजैः ।
यैर्वाचः श्राविता रूक्षाः स्थितैर्दुर्योधनप्रिये ॥ २.९९.४४ ॥
在这场赌局中,持国之子们让这位毗诃萨塞那的女儿听到了刻薄的话语;正是那些博得难敌欢心而站立者。
2.99.45
तान्धार्तराष्ट्रान्दुर्वृत्तान्मुमूर्षून्कालनोदितान् ।
गमयिष्यामि भूयिष्ठानहं वैवस्वतक्षयम् ॥ २.९९.४५ ॥
那些被时间驱使、渴望死亡的恶行持国之子,我将把大多数送往阎摩之界。
2.99.46
उलूकं च दुरात्मानं सौबलस्य सुतं प्रियम् ।
क्रूरं हन्ताऽस्मि समरे तं वै क्रूरं नराधमम् ॥ २.९९.४६ ॥
我将在战场上杀死邪恶的乌卢迦,那位萨乌巴拉心爱的儿子,那个残忍的人中最卑贱者。
2.99.47
निदेशाद्धर्मराजस्य द्रौपद्याः पदवीं चरन् ।
निर्धार्तराष्ट्रां पृथिवीं कर्ताऽस्मि नचिरादिव ॥ २.९९.४७ ॥
奉法王(坚战)之命,遵循德罗波蒂的道路,我将很快使大地不再有持国的儿子们。
2.99.48
एवं ते पुरुषव्याघ्राः सर्वे व्यायतबाहवः ।
प्रतिज्ञा बहुलाः कृत्वा धृतराष्ट्रमुपागमन् ॥ २.९९.४८ ॥
于是,那些长臂的人中虎豹,发下许多誓言,走近了持国。