Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.100

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.100.1

ततः स वज्री बलभिद्दैवतैरभिरक्षितः ।
आससाद ततो वृत्रं स्थितमावृत्य रोदसी ॥ ३.१००.१ ॥

于是持金刚杵、摧毁巴拉的因陀罗,在诸神四面护卫下,来到了遮蔽天地而立的弗栗多面前。

3.100.2

कालकेयैर्महाकायै समन्तादभिरक्षितम् ।
समुद्यतप्रहरणैः सशृङ्गैरिव पर्वतैः ॥ ३.१००.२ ॥

他四面被身躯庞大的迦拉刻亚所护卫;他们高举兵器,如同有峰顶的群山。

3.100.3

ततो युद्धं समभवद्देवानां दानवैः सह ।
मुहूर्तं भरतश्रेष्ठ लोकत्रासकरं महत् ॥ ३.१००.३ ॥

于是诸神与檀那婆之间爆发了战斗,婆罗多之最啊,那场大战曾使诸世界恐惧片刻。

3.100.4

उद्यतप्रतिविद्धानां स्वङ्गानां वीरबाहुभिः ।
आसीत्सुतुमुः शब्दः शरीरेष्वभिपात्यताम् ॥ ३.१००.४ ॥

英雄们的手臂挥起并击中肢体,倒下的身躯落在尸身之上,发出了巨大的声响。

3.100.5

शिरोभिः प्रपतद्भिश्चाप्यन्तरिक्षान्महीतलम् ।
तालैरिव महाराज वृन्ताद्भ्रष्टैरदृश्यत ॥ ३.१००.५ ॥

大王啊,从天空带着头颅坠向大地的人,看去就像从枝柄上脱落的棕榈果。

3.100.6

ते हेमकवचा भूत्वा कालेयाः परिघायुधाः ।
त्रिदशानभ्यवर्तन्त दावदग्धा इवाद्रयः ॥ ३.१००.६ ॥

身披金甲、手持铁杵的那些迦拉刻亚扑向诸神,如同被林火烧焦的群山。

3.100.7

तेषां वेगवतां वेगं सहितानां प्रधावताम् ।
न शेकुस्त्रिदशाः सोढुं ते भग्नाः प्राद्रवन्भयात् ॥ ३.१००.७ ॥

众天神无法承受那些迅猛而协同冲击的力量,溃散之下惊恐逃遁。

3.100.8

तान्दृष्ट्वा द्रवतो भीतान्सहस्राक्षः पुरंदरः ।
वृत्रे विवर्धमाने च कश्मलं महदाविशत् ॥ ३.१००.८ ॥

见众天神惊恐奔逃,而弗栗多日益壮大,千眼的补罗陀罗陷入极大的迷惘。

3.100.9

तं शक्तं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः ।
जगाम शरणं शीघ्रं तं तु नारायणं प्रभुम् ॥ ३.१००.९ ॥

毗湿奴见释迦陷入迷惘,便速往投奔那主宰那罗延。

3.100.10

तं शक्रं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः ।
स्वतेजो व्यदधच्छक्रे बलमस्य विवर्धयन् ॥ ३.१००.१० ॥

毗湿奴见释迦陷入迷惘,便将自身的光辉注入释迦,增长他的力量。

3.100.11

विष्णुना गोपितं शक्रं दृष्ट्वादेवगणास्ततः ।
स्वं स्वंतेजः समादध्युस्तथा ब्रह्मर्षयोऽमलाः ॥ ३.१००.११ ॥

众天神见释迦受毗湿奴护持,便各自将光辉注入他身;无垢的梵仙也如此行。

3.100.12

स समाप्यायितः शक्रो विष्णुना दैवतैः सह ।
ऋषिभिश्च महाभागैर्बलवान्समपद्यत ॥ ३.१००.१२ ॥

释迦受毗湿奴、众天神与大德仙人滋补,遂变得强大。

3.100.13

ज्ञात्वा बलस्थं त्रिदशाधिपं तु ।
ननाद वृत्रो महतो निनादान्।
तस् प्रणादेन धरा दिशश्च ।
खं द्यौर्नगाश्चापि चचाल सर्वम् ॥ ३.१००.१३ ॥

瓦特罗知道三十神之主已振作其力,便发出巨大的吼声。其吼声所及,大地、方位、天空、天界与群山,一切都为之震动。

3.100.14

ततो महेन्द्रः परमाभितप्तः ।
श्रुत्वा रवं घोररूपं महान्तम्।
भये निमग्नस्त्वरितो मुमोच ।
वज्रं महत्तस्य वधाय राजन् ॥ ३.१००.१४ ॥

于是大因陀罗极为痛苦,听到那巨大可怖的吼声,陷入恐惧,急忙投出大金刚杵,要杀死他,大王啊。

3.100.15

स चक्रवज्राभिहतः पपात ।
महासुरः काञ्चनमाल्यधारी।
यथा महाशैलवरः पुरस्ता-
त्स मन्दरो विष्णुकराद्विमुक्तः ॥ ३.१००.१५ ॥

那位佩戴金色花环的大阿修罗被轮与金刚杵击中,倒了下去,犹如昔日从毗湿奴手中脱落的大山曼陀罗。

3.100.16

तस्मिन्हते दैत्यवरे भयार्तः ।
शक्रः प्रदुद्राव सरः प्रवेष्टुम्।
वज्रं न मेने स्वकराद्विमुक्तं ।
वृत्रं भयाच्चापि हतं न मेने ॥ ३.१००.१६ ॥

那位最优秀的达提耶被杀之后,因恐惧而受折磨的帝释天奔逃,要躲入一座湖中。他不相信从自己手中掷出的金刚杵,也因恐惧而不相信瓦特罗已被杀死。

3.100.17

सर्वे च देवा मुदिताः प्रहृष्टा ।
महर्षयश्चन्द्रमभिष्टुवन्तः।
वृत्रं हतं संददृशुः पृथिव्यां ।
वज्राहतं शैलमिवावदीर्णम् ॥ ३.१००.१७ ॥

诸神皆欢喜雀跃,大仙人们赞颂月神,看见瓦特罗在地上被杀,如同被金刚杵击裂的山岳。

3.100.18

सर्वांश्च दैत्यांस्त्वरिताः समेत्य ।
जघ्नुः सुरा वृत्रवधाभितप्तान्।
ते वध्यमानास्त्रिदशैः समेतैः ।
समुद्रमेवाविविशुर्भयार्ताः ॥ ३.१००.१८ ॥

众天神急速会合,杀尽了所有达提耶。遭受弗栗多之死痛苦的他们,被聚集的三十神所击杀,在恐惧中竟然进入了大海。

3.100.19

प्रविश्य चैवोदधिमप्रमेयं ।
झषाकुलं नक्रसमाकुलं च।
तदा स्म मन्त्रं सहिताः प्रचक्रु-
स्त्रैलोक्यनाशार्थमभिप्रयत्नात् ॥ ३.१००.१९ ॥

他们进入那无量的、充满鱼和鳄鱼的大海,随后聚集在一起,竭力谋划毁灭三界。

3.100.20

तत्रस्म केचिन्मतिनिश्चयज्ञा-
स्तांस्तानुपयानुपवर्णयन्ति।
तेषां तु तत्रक्रमकालयोगा-
द्धोरा मतिश्चिन्तयतां बभूव ॥ ३.१००.२० ॥

那里,懂得坚定决断的人们陈述各种办法;但其中,因次序与时机的际会,在思虑者的心中升起了一个可怕的念头。

3.100.21

ये सन्ति विद्यातपसोपपन्ना-
स्तेषां विनाशः प्रथमं तु कार्यः।
लोका हि सर्वे तपसा ध्रियन्ते ।
तस्मात्त्वरध्वं तपसः क्षयाय ॥ ३.१००.२१ ॥

凡具备学识与苦行者,应当先行除灭,因为一切世界都由苦行所维系。所以,要急速去毁灭苦行。

3.100.22

येसन्ति केचिच्च वसुंधरायां ।
तपस्विनो धर्मविदश् तज्ज्ञाः।
तेषां वधः क्रियतां क्षिप्रमेव ।
तेषु प्रनष्टेषु जगत्प्रनष्टम् ॥ ३.१००.२२ ॥

大地上那些修苦行、知晓法并精通法者,应当迅速将他们诛杀。他们一旦灭亡,世界也就随之灭亡。

3.100.23

एवं हि सर्वे गतबुद्धिभावा ।
जगद्विनाशे परमप्रहृष्टाः।
दुर्गं समाश्रित्य महोर्मिमन्तं ।
रत्नाकरं वरुणस्यालयं स्म ॥ ३.१००.२३ ॥

如此,他们全都失去了理智与心志,因世界的毁灭而极度欢喜,便以那波涛汹涌的宝藏之海、伐楼那的居所作为堡垒来栖身。