Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.104

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.104.1

समुद्रं स समासाद्य वारुणिर्भगवानृषिः ।
उवाच सहितान्देवानृषींश्चैव समागतान् ॥ ३.१०४.१ ॥

婆罗那之子、尊贵的仙人来到大海边,对聚集在一起的诸天神和仙人说道。

3.104.2

एष लोकहितार्थं वै पिबामि वरुणालयम् ।
भवद्भिर्यदनुष्ठेयं तच्छीघ्रं संविधीयताम् ॥ ३.१०४.२ ॥

为了世界的利益,我要饮尽这婆罗那的居所大海。你们应当做的事,请迅速安排。

3.104.3

एतावदुक्त्वा वचनं मैत्रावरुणिरच्युतः ।
समुद्रमपिबत्क्रुद्धः सर्वलोकस्य पश्यतः ॥ ३.१०४.३ ॥

说完这些话,弥多罗与婆罗那之子不坏者愤怒地在一切世界注视下饮尽了大海。

3.104.4

पीयमानं समुद्रं तं दृष्ट्वा सेन्द्रास्तदाऽमराः ।
विस्मयं परमं जग्मुः स्तुतिभिश्चाप्यपूजयन् ॥ ३.१०४.४ ॥

众天神与因陀罗见到大海正被饮尽,极为惊讶,并以颂歌赞美他。

3.104.5

त्वं नस्त्राता विधाता च लोकानां लोकभावन ।
त्वत्प्रसादात्समुच्छेदं न गच्छेत्सामरं जगत् ॥ ३.१०४.५ ॥

你是我们的守护者,是诸世界的创造者,诸世界的护持者啊。愿借你的恩典,这世界与不死者不致毁灭。

3.104.6

स पूज्यमानस्त्रिदशैर्महात्मा ।
गन्धर्वतूर्येषु नदत्सु सर्वशः।
दिव्यैश्च पुष्पैरवकीर्यमाणो ।
महार्णवं निःसलिलं चकार ॥ ३.१०४.६ ॥

三十三天诸神敬奉他,四面乐神之乐奏响,天上的花纷纷落下,这位伟大的仙人使大海变得无水。

3.104.7

दृष्ट्वा कृतंनिःसलिलं महार्णवं ।
सुराः समस्ताः परमप्रहृष्टाः।
्रगृह्य दिव्यानिवरायुधानि ।
तान्दानवाञ्जघ्रुरदीनसत्वाः ॥ ३.१०४.७ ॥

众天神见大海已无水,皆极为欢喜。他们持取神圣的殊胜兵器,以无畏的勇气击杀了那些檀那婆。

3.104.8

ते वध्यमानास्त्रिदशैर्महात्मभि-
र्महाबलैर्वेगिभिरुन्नदद्भिः।
न सेहिरेवेगवतां महात्मनां ।
वेगं तदा धारयितुं दिवौकसाम् ॥ ३.१०४.८ ॥

他们被那些伟大、强大、迅疾而咆哮的天神所击杀,檀那婆无法承受那些迅疾伟大者的冲击。

3.104.9

ते वध्यमानास्त्रिदशैर्दानवा भीमनिःस्वनाः ।
रचक्रु सुतुमुलं युद्धं मुहूर्तमिव भारत ॥ ३.१०४.९ ॥

檀那婆被天神击杀之时,以可怖的吼声,仿佛片刻之间,进行了极为激烈的战斗,婆罗多啊。

3.104.10

ते पूर्वं तपसा दग्धा मुनिभिर्भावितात्मभिः ।
यतमानाः परं शक्त्या त्रिदशैर्विनिषूदिताः ॥ ३.१०४.१० ॥

他们往昔曾被心意调伏的仙人以苦行焚毁;虽竭尽全力奋战,仍被天神所灭。

3.104.11

तेहेमनिष्काभरणाः कुण्डलाङ्गदधारिणः ।
निहता बह्वशोभन्त पुष्पिता इव किंशुकाः ॥ ३.१०४.११ ॥

他们佩戴金项链与饰物,耳戴耳环、臂戴臂钏,许多人被杀倒地,闪耀如盛开的金合欢树。

3.104.12

हतशेषास्ततः केचित्कालेया मनुजोत्तम ।
विदार्य वसुधां देवीं पातालतलमास्थिताः ॥ ३.१०४.१२ ॥

于是,幸存的一些迦勒耶,人中之最,劈开大地女神,躲入了地底深处。

3.104.13

निहतान्दानवान्दृष्ट्वा त्रिदशा मुनिपुह्गवम् ।
तुष्टुवुर्विविधैर्वाक्यैरिदं वचनमब्रुवन् ॥ ३.१०४.१३ ॥

诸天见达那婆被杀,便以种种言辞赞颂这位最优的仙人,并说了这番话。

3.104.14

त्वत्प्रसादान्महाबाहो लोकैः प्राप्तं महत्सुखम् ।
त्वत्तेजसा च निहताः कालेयाः क्रूरविक्रमाः ॥ ३.१०४.१४ ॥

大臂者啊,因您的恩惠,世界获得了极大的快乐;以您的威光,凶猛勇武的迦罗竭耶被杀了。

3.104.15

पूरस्व महाबाहो समुद्रं लोकभावन ।
यत्त्वया सलिलं पीतं तदस्मिन्पुनरुत्सृज ॥ ३.१०४.१५ ॥

大臂者啊,世界的护持者,请充满大海;您所饮下的那水,请再把它放回这里。

3.104.16

एवमुक्तः प्रत्युवाच भगवान्मुनिपुङ्गवः ।
तांस्तदा सहितान्देवानगस्त्यःसपुरन्दरान् ॥ ३.१०४.१६ ॥

被如此说后,尊贵的最优仙人阿伽斯蒂亚答复了与因陀罗一同聚集的诸天。

3.104.17

जीर्णं तद्धि मया तोयमुपायोऽन्यः प्रचिन्त्यताम् ।
पूरणार्थं समुद्रस्य भवद्भिर्यत्नमास्थितैः ॥ ३.१०४.१७ ॥

那水已经被我消化了;因此,请你们努力去充满大海,另想别的办法吧。

3.104.18

केतच्छ्रुत्वा तु वचनं महर्षेर्भावितात्मनः ।
विस्मिताश्च विषण्णाश्च बभूवुः सहिताः सुराः ॥ ३.१०४.१८ ॥

诸天听到这位心性清净的大仙人的这番话,齐聚的诸天既惊讶又沮丧。

3.104.19

परस्परमनुज्ञाप्यप्रणम्य मुनिपुङ्गवम् ।
प्रजाः सर्वा महाराज विप्रजग्मुर्यथागतम् ॥ ३.१०४.१९ ॥

彼此告别,向最杰出的仙人顶礼之后,大王啊,所有民众都依原路返回了。

3.104.20

त्रिदशा विष्णुना सार्धमुपजग्मुः पितामहम् ।
पूरणार्थं समुद्रस्य मन्त्रयित्वा पुनः पुनः ॥ ३.१०४.२० ॥

诸天神与毗湿奴一同前往祖父处,反复商议如何填满大海之后。

3.104.21

ते धातारमुपागम्य त्रिदशाः सह विष्णुना ।
ऊचुः प्राञ्जलयः सर्वे सागरस्याभिपूरणम् ॥ ३.१०४.२१ ॥

他们一同与毗湿奴来到造物主达多利面前,合掌向他陈说填满大海之事。