摩诃婆罗多 · 章 3.105
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.105.1
तानुवाच समेतांस्तु ब्रह्मा लोकपितामहः ।
निर्ह्रादिन्या गिरा राजन्देवानाश्वासयंस्तदा ॥ ३.१०५.१ ॥
洛摩舍说:大王,那时世界的祖父梵天以雷鸣般的声音对聚集的诸神讲话,安慰了他们。
3.105.2
गच्छध्वं विबुधाः सर्वे यथाकामं यथेप्सितम् ।
महता कालयोगेन प्रकृतिं यास्यतेऽर्णवः ॥ ३.१०५.२ ॥
诸神啊,你们都可以按自己的意愿、去你们想去的地方;经过漫长的时间之运,大海将恢复其本然的状态。
3.105.3
ज्ञातींश्च कारणं कृत्वा महाराजो भगीथः ।
पूरयिष्यति तोयौघैः समुद्रं निधिमम्भसाम् ॥ ३.१०५.३ ॥
大王婆吉罗陀以其亲族为缘由,将以水流注满这大海——水之宝库。
3.105.4
पितामहवचः श्रुत्वा सर्वे विबुधसत्तमाः ।
कालयोगं प्रतीक्षन्तो जग्मुश्चापि यथागतम् ॥ ३.१०५.४ ॥
诸神中的至尊者们听了祖父的话,等待时间之运,便沿着来时的路返回了。
3.105.5
कथं वै ज्ञातयोब्रह्मन्कारणं चात्र किं मुने ।
कथं समुद्रः पूर्णश्च भगीरथपरिश्रमात् ॥ ३.१०५.५ ॥
婆罗门啊,圣者啊,亲族是如何(得以解脱)的?其中的缘由是什么?婆吉罗陀的辛劳又如何使大海充满的?
3.105.6
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन ।
कथ्यमानं त्वया विप्र राज्ञां चरितमुत्तमम् ॥ ३.१०५.६ ॥
苦行的宝藏啊,婆罗门啊,我愿详细聆听您所讲述的这些国王的卓越事迹。
3.105.7
एवमुक्तस्तु विप्रेन्द्रो धर्मराज्ञा महात्मना ।
कथयामास माहात्म्यं सगरस्य महात्मनः ॥ ३.१०५.७ ॥
法王大德如此请求之后,婆罗门之首讲述了大德萨加罗的伟大事迹。
3.105.8
इक्ष्वाकूणां कुले जातः सगरो नाम पार्थिवः ।
रूपसत्वबलोपेतः स चापुत्रः प्रतापवान् ॥ ३.१०५.८ ॥
在伊刹婆迦族中诞生了一位名为萨加罗的国王,他容貌端正、刚毅有力、威势赫赫,却没有儿子。
3.105.9
स हैहयान्समुत्साद्य तालजङ्घांश्च भारत ।
वशे च कृत्वा राजन्यान्स्वराज्यमनुशिष्टवान् ॥ ३.१०५.९ ॥
婆罗多之子啊,他彻底消灭了海哈耶人和多拉江伽人,使刹帝利诸王臣服,并治理自己的王国。
3.105.10
तस्य भार्ये त्वभवतां रूपयौवनदर्पिते ।
वैदर्भी भरतश्रेष्ठ शैव्या च भरतर्षभ ॥ ३.१०५.१० ॥
他有两位妻子,都因容貌与青春而自负:维达尔毗与设婆耶。婆罗多中最优秀者啊,婆罗多之牛啊。
3.105.11
सपुत्रकामो नृपतिस्तप्यते स्म महत्तपः ।
पत्नीभ्यां सह राजेन्द्र कैलासं गिरिमाश्रितः ॥ ३.१०५.११ ॥
国王渴望有子,与两位王后一同隐居在凯拉萨山上,行了极大的苦行。诸王之主啊。
3.105.12
स तप्यमानः सुमहत्तपोयोगसमन्वितः ।
आससाद महात्मानं त्र्यक्षं त्रिपुरमर्दनम् ॥ ३.१०५.१२ ॥
他修持极大的苦行与瑜伽,来到了大德三目之神那里,那位摧毁三城者。
3.105.13
शंकरं भवमीशानं पिनाकिं शूलपाणिनम् ।
त्र्यम्बकं शिवमुग्रेशं बहुरूपमुमापतिम् ॥ ३.१०५.१३ ॥
他看见了湿婆(Śaṅkara)、婆婆(Bhava)、伊萨那(Īśāna)、持弓者(Pinākin)、持三叉戟者、三目者(Tryambaka)、吉祥者(Śiva)、猛威之主(Ugreśa)、多形者、乌玛之夫(Umāpati)。
3.105.14
स तं दृष्ट्वैव वरदं पत्नीभ्यां सहितो नृपः ।
प्रणिपत्य महाबाहुः पुत्रार्थे समयाचत ॥ ३.१०५.१४ ॥
国王一见赐福者,便偕两位王后,这位大臂者俯身礼拜,为求子嗣而祈请。
3.105.15
तं प्रीतिमान्हरः प्राह सभार्यं नृपसत्तमम् ।
यस्मिन्वृतो मुहूर्तेऽहं त्वयेह नृपते वरम् ॥ ३.१०५.१५ ॥
于是哈罗(Hara)欢喜,对那位最优秀的国王及其王后说:「国王啊,你在此向我求得恩惠的那一刻,
3.105.16
षष्टिः पुत्रसहस्राणि शूराः परमदर्पिताः ।
एकस्यां संभविष्यन्ति पत्न्यां नरवरोत्तम ॥ ३.१०५.१६ ॥
六万个儿子,勇猛而极为骄傲,将从一位妻子所生,啊人中之最优者。
3.105.17
ते चैवसर्वे सहिताः क्षयं यास्यन्ति पार्थिव ।
एको वंशधरः शूर एकस्यां संभविष्यति ॥ ३.१०५.१७ ॥
他们全部将一同灭亡,啊国王;唯有一位英勇的、延续家族血脉的人,将从一位妻子所生。
3.105.18
एवमुक्त्वा तु तं रुद्रस्तत्रैवान्तरधीयत ।
स चापि सगरो राजा जगाम स्वं निवेशनम् ॥ ३.१०५.१८ ॥
说完这话,楼陀罗便在那里隐没,国王萨加拉也回到了自己的住所。
3.105.19
पत्नीभ्यां सहितस्तत्र होऽतिहृष्टमनास्तदा ।
कालं शंभुवरप्राप्तं प्रतीक्षन्सगरोऽनयत् ॥ ३.१०५.१९ ॥
萨伽罗与两位妻子在那里心中大喜,等待湿婆所赐之恩赐的时刻。
3.105.20
तस्य तेमनुजश्रेष्ठ भार्ये कललोचने ।
वैदर्भी चैव शैब्या च गर्भिण्यौ संबभूवतुः ॥ ३.१०५.२० ॥
人中之最啊,他那两位莲花眼的妻子,毗达婆与希拜亚,怀孕了。
3.105.21
ततः कालेन वैदर्भी गर्भालाबुं व्यजायत ।
शैव्या च सुषुवे पुत्रं कुमारं देवरूपिणम् ॥ ३.१०५.२१ ॥
此后时候到了,毗达婆生下一个葫芦,希拜亚生下一个形如天神的少年之子。
3.105.22
तदाऽलाबुं समुत्स्रष्टुं मनश्चक्रे स पार्थिवः ।
अथान्तरिक्षाच्छुश्राव वाचं गंभीरनिःस्वनाम् ॥ ३.१०५.२२ ॥
那时国王决意要丢弃那葫芦;这时他从空中听到一个深沉洪亮的声音。
3.105.23
राजन्मा साहसंकार्षीः पुत्रान्न त्यक्तुमर्हसि ।
अलाबुमध्यान्निष्कृष्य वीजं यत्नेन गोप्यताम् ॥ ३.१०५.२३ ॥
国王啊,不要轻率行事;你不应抛弃你的儿子。从葫芦中间取出种子,小心地保存好。
3.105.24
सोपस्वेदेषु पात्रेषु घृतपूर्णेषु भागशः ।
ततः पुत्रसहस्राणि षष्टिं प्राप्स्यसि पार्थिव ॥ ३.१०५.२४ ॥
将它们分份放入盛满酥油的器皿中,并配以蒸房;那时,国王啊,你将得到六万个儿子。
3.105.25
महादेवेन दिष्टं ते पुत्रजन्म नराधिप ।
अनेन क्रमयोगेन मा ते बुद्धिरतोऽन्यथा ॥ ३.१०५.२५ ॥
人主啊,大天(摩诃提婆)已为你注定了子嗣的诞生。依此次第与方法,此事必成;你的心意不可另有他想。