摩诃婆罗多 · 章 3.107
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.107.1
तेतं दृष्ट्वा हयं राजन्संप्रहृष्टतनूरुहाः ।
अनादृत् महात्मानं कपिलं कालचोदिताः ॥ ३.१०७.१ ॥
大王,他们见到那匹马,欣喜得毛发竖立,被时运驱使,轻慢了大德的迦毗罗。
3.107.2
संफुद्धाः संप्रधावन्त वाजिग्रहणकाङ्क्षिणः ।
ततः क्रुद्धो महाराज कपिलो मुनिसत्तमः ॥ ३.१०७.२ ॥
他们心神激荡,渴望夺取那匹马,便冲了上去。那时,大王,诸仙中最杰出的迦毗罗勃然大怒。
3.107.3
वासुदेवेति यं प्राहुः कपिलं मुनिपुङ्गवम् ।
स चक्षुर्विकतं कृत्वा तेजस्तेषु समुत्सृजन् ॥ ३.१०७.३ ॥
那位被称为婆薮提婆的诸仙之牛迦毗罗,扭曲双眼,将光焰投向他们。
3.107.4
ददाह सुमहातेजा मन्दबुद्धीन्स सागरान् ।
षष्टिं रतानि सहस्राणि युगपन्मुनिसत्तमः ॥ ३.१०७.४ ॥
那位光辉极盛的诸仙之最,一时间焚毁了六万愚钝的萨嘎拉之子。
3.107.5
तान्दृष्ट्वा भस्मसाद्भूतान्नारदः सुमहातपाः ।
सगरान्तिकमागत्य तच्च तस्मै न्यवेदयत् ॥ ३.१०७.५ ॥
大苦行者那罗陀见他们化为灰烬,便来到萨嘎拉面前,将此事一一禀告。
3.107.6
स तच्छ्रुत्वा वचो घोरं राजा मुनिमुखोद्गतम् ।
महूर्तं विमना भूत्वा स्थाणोर्वाक्यमचिन्तयत् ॥ ३.१०७.६ ॥
国王听闻那出自仙人之口的可怕之言,片刻间心中郁结,便思量起湿婆(斯坦努)的话语。
3.107.7
स पुत्रनिधनोत्थेन दुःखेन समभिप्लुतः ।
आत्मानमात्मनाऽऽश्वास्य हयमेवान्वचिन्तयत् ॥ ३.१०७.७ ॥
他被因儿子们灭亡而生的悲痛所笼罩。他自我安慰之后,便一心思虑那匹马。
3.107.8
अशुमन्तं समाहूय असमञ्जसुतं तदा ।
पौत्रं भरतशार्दूल इदं वचनमब्रवीत् ॥ ३.१०७.८ ॥
于是婆罗多族中的猛虎召来阿尚末——阿萨曼佳斯之子、他自己的孙子——说了这些话。
3.107.9
षष्टिस्तात सहस्राणि पुत्राणाममितौजसाम् ।
कापिलं तेज आसाद्य मत्कृतेनिधनं गताः ॥ ३.१०७.९ ॥
孩子啊,那六万个力量无量的儿子,因我的缘故遭遇了迦毗罗的光辉,走向了毁灭。
3.107.10
तव चापि पिता तात परित्यक्तो मयाऽनघ ।
धर्मं संरक्षमाणेन पौराणां हितमिच्छता ॥ ३.१०७.१० ॥
孩子啊,无罪的人,我也曾抛弃了你的父亲,为了守护法,并希望城民的福祉。
3.107.11
किमर्थं राजशार्दूलः सगरः पुत्रमात्मजम् ।
त्यक्तवान्दुस्त्यजं वीरं तन्मे ब्रूहि तपोधन ॥ ३.१०७.११ ॥
苦行者啊,请告诉我,王中猛虎萨伽罗为何抛弃了自己那位难以舍弃的英勇之子?
3.107.12
असमञ्ज इति ख्यातः सगरस्य सुतो ह्यभूत् ।
यं शैव्या जनयामास पौराणां स हि दारकान् ॥ ३.१०७.१२ ॥
萨伽罗有一子名为阿萨曼佳,是恃婆所生;他确实曾折磨城中居民的孩童。
3.107.13
क्रीडतः सहसाऽऽसाद्य तत्रतत्र महीपते ।
चूडासु क्रोशतो गृह्यनद्यां चिक्षेप दुर्बलान् ॥ ३.१०७.१३ ॥
君主啊,他玩耍时突然四处扑去,抓住哭喊的弱小孩童的发髻,把他们扔进了河里。
3.107.14
ततः पौराः समाजग्मुर्भयशोकपरिप्लुताः ।
सगरं चाभ्यभाषन्त सर्वे प्राञ्जलयः स्थिताः ॥ ३.१०७.१४ ॥
于是,充满恐惧与悲痛的城民们全都聚集而来,合掌站立,对萨加罗说话。
3.107.15
त्वं नस्त्राता महाराज परचक्रादिभिर्भयात् ।
असमञ्जभयाद्धोरात्ततो नस्त्रातुनर्हसि ॥ ३.१०७.१५ ॥
大王啊,您是我们免受敌军等之恐惧、以及阿萨曼迦可怖之恐惧的庇护者;因此您应当保护我们。
3.107.16
पौराणां वचनं श्रुत्वा घोरं नृपतिसत्तमः ।
मुहूर्तं विमना भूत्वासचिवानिदमब्रवीत् ॥ ३.१०७.१६ ॥
最优秀的君王萨加罗听到城民这些可怕的话语,一时心情沉重,便对他的大臣们说道。
3.107.17
असमञ्ज पुरादद्य सुतो मे विप्रवास्यताम् ।
यदि वो मत्प्रियं कार्यमेतच्छीध्रं विधीयताम् ॥ ३.१०७.१७ ॥
请今天就将我的儿子阿萨曼迦逐出城去。如果你们想做让我高兴的事,就快快办理。
3.107.18
एवमुक्ता नरेन्द्रेण सचिवास्ते नराधिप ।
यथोक्तं त्वरिताश्चक्रुर्यथाऽऽज्ञापितवान्नृपः ॥ ३.१०७.१८ ॥
人主啊,人主如此吩咐之后,那些大臣便急忙按照君王所命令的去办了。
3.107.19
एतत्ते सर्वमाख्यातं यथा पुत्रो महात्मना ।
पौराणां हितकामेन सगरेण विवासितः ॥ ३.१०७.१९ ॥
这一切已经告诉你了:伟大的萨加拉为了百姓的福祉,如何流放了自己的儿子。
3.107.20
अंशुमांस्तु महेष्वासो यदुक्तः सगरेण हि ।
तत्ते सर्वंप्रवक्ष्यामि कीर्त्यमानं निबोध मे ॥ ३.१०७.२० ॥
萨加拉对大弓手安舒曼所说的一切,我都会完整地告诉你;请听我讲述。
3.107.21
पितुश् तेऽहंत्यागेन पुत्राणां निधनेन च ।
अलाभेन तथाऽश्वस् परितप्यामि पुत्रक ॥ ३.१०७.२१ ॥
孩子,我因舍弃你、诸子的死亡以及未能找回骏马而痛苦万分。
3.107.22
तस्माद्दुःखाभिसंतप्तं यज्ञविघ्नाच्च मोहितम् ।
हयस्यानयनात्पौत्र नरकान्मां समुद्धर ॥ ३.१०७.२२ ॥
因此,我被悲痛折磨,又因祭祀受阻而迷惑,孙儿啊,请带回骏马,将我从地狱中救出。
3.107.23
अंशुमानेवमुक्तस्तु सगरण महात्मना ।
जगाम दुःखात्तं देशं यत्रवै दारिता मही
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।
एवं स सागरो राजन्पूरितोऽगस्त्यदूपितः
जगाम दुःखात्तं देशं यत्रवै दारिता मही ॥ ३.१०७.२३ ॥
伟大的萨加拉如此吩咐后,安舒曼前往那片土地被劈开的悲伤之地。你向我询问的,这一切都已告诉你。因此,国王啊,那片被阿伽斯蒂亚注满并玷污的大海,也前往了那片土地被劈开的悲伤之地。
3.107.24
स तु तेनैव मार्गेण समुद्रं प्रविवेश ह ।
अपश्यच्च महात्मानं कपिलं तुरगं च तम् ॥ ३.१०७.२४ ॥
他沿着同一条路进入大海,看见了伟大的迦毗罗和那匹马。
3.107.25
स दृष्ट्वा तेजसो राशिं पुराणमृपिसत्तमम् ।
प्रणम्य शिरसा भूमौ कार्यमस्मै न्यवेदयत् ॥ ३.१०७.२५ ॥
他看见那团光辉、古老的最优秀的仙人,便以头触地行礼,并将自己的来意禀告。
3.107.26
ततः प्रीतो महाराज कपिलोंऽशुमतोऽभवत् ।
उवाच चैनं धर्मात्मा वरदोस्मीति भारत ॥ ३.१०७.२६ ॥
于是,大王啊,迦毗罗对阿舍曼特感到欢喜,那位心性正直者对他说:婆罗多啊,我是赐予恩惠者。
3.107.27
स वव्रे तुरगं तत्र प्रथमं यज्ञकारणात् ।
द्वितीयमुदकं वव्रे पितॄणां पावनेच्छया ॥ ३.१०७.२७ ॥
他在那里先求得马匹以供祭祀,其次求取水,因为想要净化祖先。
3.107.28
तमुवाच महातेजाः कपिलो मुनिपुङ्गवः ।
ददानि तव भद्रं ते यद्यत्प्रार्थयसेऽनघ ॥ ३.१०७.२८ ॥
大光明的仙人中最优秀者迦毗罗对他说:愿你吉祥,无罪者啊,你所求的任何东西,我都给你。
3.107.29
त्वयि क्षमा च धर्मश्च सत्यं चापि प्रतिष्ठितम् ।
त्वया कृतार्थः सगरः पुत्रवांश्च त्वया पिता ॥ ३.१०७.२९ ॥
宽恕、正法与真理也都安立于你之中;因你,萨迦罗得以成就,因你,他的父亲得了众子。
3.107.30
तव चैव प्रभावेन स्वर्गं यास्यन्ति सागराः ।
शलभत्वं गता ये ते मम क्रोधहुताशने ॥ ३.१०७.३० ॥
正是凭借你的威力,萨迦罗的诸子将升天;那些坠入我怒火之中、化为蝗虫之状的人,将因你而升天。
3.107.31
पौत्रश्च ते त्रिपथगां त्रिदिवादानयिष्यति ।
पावनार्थं सागराणां तोषयित्वा महेश्वरम् ॥ ३.१०७.३१ ॥
你的孙子将在取悦大自在天(摩诃湿婆)之后,从天上引来三道流淌的恒河,以净化萨加拉的众子。
3.107.32
हयं नयस्व भद्रं ते याज्ञिं नरपुङ्गव ।
यज्ञः समाप्यतां तात सगरस्य महात्मनः ॥ ३.१०७.३२ ॥
人中之牛,愿你平安:牵走为祭祀所备的马。孩子,愿大德萨加拉的祭祀得以圆满。
3.107.33
अंशुमानेवमुक्तस्तु कपिलेन महात्मना ।
आजगाम हयं गृह्य यज्ञवाटं महात्मनः ॥ ३.१०७.३३ ॥
大德迦毗罗如此说后,阿姆舒曼牵着马来到了那位大德的祭祀场。
3.107.34
सोभिवाद्य ततः पादौ सगरस्य महात्मनः ।
मूर्ध्नि तनाप्युपाघ्रातस्तस्मै सर्वंनय्वेदयत् ॥ ३.१०७.३४ ॥
他向大德萨加拉的双足致敬,之后被他抚摸头顶并拥抱,于是将一切禀告给他。
3.107.35
यथा दृष्टं श्रुतं चापि सागराणां क्षयं तथा ।
तं चास्मै हयमाचष्ट यज्ञवाटमुपागतम् ॥ ३.१०७.३५ ॥
他如所见所闻,述说了萨加拉众子的毁灭,并把来到祭祀场的那匹马指给他看。
3.107.36
तच्छ्रुत्वा सगरो राजा पुत्रजं दुःखमत्यजत् ।
अंशुमन्तं च संपूज्यसमापयत तं क्रतुम् ॥ ३.१०७.३६ ॥
萨加拉王闻此,舍弃了因众子而生的悲痛;尊敬阿姆舒曼之后,他圆满完成了那场祭祀。
3.107.37
समाप्तयज्ञः सगरो देवैः सर्वैः सभाजितः ।
पुत्रत्वे कल्पयामास समुद्रं वरुणालयम् ॥ ३.१०७.३७ ॥
祭祀完成,受到诸神尊敬的萨加拉,将伐楼那的居所大海立为自己的儿子。
3.107.38
प्रशास्य सुचिरं कालं राज्यं राजीवलोचनः ।
पौत्रे भारं समवेश्य जगाम त्रिदिवं तदा ॥ ३.१०७.३८ ॥
莲花眼的国王长期治理国家后,将重担托付给孙子,随即升往天界。
3.107.39
अंशुमानपि धर्मात्मा महीं सागरमेखलाम् ।
प्रशशास महाराज यथैवास् पितामहः ॥ ३.१०७.३९ ॥
德行高尚的阿阇曼同样统治着被大海环绕的大地,大王啊,正如他的祖父所做的那样。
3.107.40
तस्य पुत्रः समभवद्दिलीपो नाम धर्मवित् ।
तस्मिन्राज्यं समाधाय अंशुमानपि संस्थितः ॥ ३.१०७.४० ॥
他生下一子,名叫迪利帕,精通法义。将国家托付给他之后,阿阇曼也依旧安住。
3.107.41
दिलीपस्तु ततः श्रुत्वा पितॄणां निधनं महत् ।
पर्यतप्यत दुःखेन तेषां गतिमचिन्तयत् ॥ ३.१०७.४१ ॥
迪利帕听闻祖先遭受的巨大毁灭后,被悲痛折磨,于是思考他们的命运。
3.107.42
गङ्गावतरणए यत्नं सुमहच्चाकरोन्नृपः ।
न चावतारयामास चेष्टमानो यथाबलम् ॥ ३.१०७.४२ ॥
国王为恒河的降临做了极大的努力,但虽依自身之力奋力而为,却未能使她降下。
3.107.43
तस् पुत्र समभवच्छ्रीमान्धर्मपराणः ।
भगीरथ इति ख्यातः सत्यवागनसूयकः ॥ ३.१०७.४३ ॥
他生了一个光荣的儿子,笃守法义,名叫婆吉罗陀,诚实而无嫉妒。
3.107.44
अभिषिच्य तु तं राज्येदिलीपो वनमाश्रितः ॥ ३.१०७.४४ ॥
立他为王之后,狄利波便隐居森林。
3.107.45
तपः सिद्धिसमायोगात्स राजा भरतर्षभ ।
वनाज्जगाम त्रिदिवं कालयोगेन भारत ॥ ३.१०७.४५ ॥
凭借苦行与成就的结合,那位国王,婆罗多的雄牛啊,随着时间的推移,从森林升往天界,婆罗多啊。