Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.11

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.11.1

किर्मीरस्य वधं क्षत्तः श्रोतुमिच्छामि कथ्यताम् ।
रक्षसा भीमसेनस्य कथमासीत्समागमः ॥ ३.११.१ ॥

维杜拉啊,我想听听基尔米拉被杀之事,请讲述。毗摩సena与罗刹是如何相遇的?

3.11.2

शृणु भीमस्य कर्मेदमतिमानषकर्मणः ।
श्रुतपूर्वं मया तेषां कथान्तेषु पुनः पुनः ॥ ३.११.२ ॥

请听这位行事超凡的毗摩的功绩。我以前在故事的结尾多次听过关于他们的事。

3.11.3

इतः प्रयाता राजेन्द्र पाण्डवा द्यूतनिर्जिताः ।
जग्मुस्त्रिभिरहोरात्रैः काम्यकं नाम तद्वनम् ॥ ३.११.३ ॥

王中之王啊,在赌局中败北的般度五子从此处出发,经过三日三夜,抵达了名为迦摩耶迦的那片森林。

3.11.4

रात्रौ निशीथे त्वाभीले गतेऽर्धसमये नृप ।
प्रचारे पुरुषादानां रक्षसां घोरकर्मणाम् ॥ ३.११.४ ॥

国王啊,在夜里,午夜过后,正值那些食人、行事凶恶的罗刹四处游荡之时。

3.11.5

तद्वनं तापसा नित्यमशेषा वनचारिणः ।
दूरात्परिहरन्ति स्म पुरुषादभयात्किल ॥ ३.११.५ ॥

那片森林里的所有苦行者和林居者,总是因畏惧食人者而远远地避开它。

3.11.6

तेषां प्रविशतां तत्र मार्गमावृत्य भारत ।
दीप्ताक्षं भीषणं रक्षः मोल्मुकं प्रत्यपद्यत ॥ ३.११.६ ॥

婆罗多啊,当他们进入那里时,一个双目燃烧、面如火把的可怖罗刹挡住了他们的去路,出现在他们面前。

3.11.7

बाहू महान्तौ कृत्वा च तथास्यं च भयानकम् ।
स्थितमावृत्यपन्थानं येन यान्ति कुरूद्वहाः ॥ ३.११.७ ॥

他伸展两条巨臂,张开可怖的大口,挡住了俱卢英雄们前行的道路。

3.11.8

दष्टोष्ठदंष्ट्रं ताम्राक्षं प्रदीप्तोर्ध्वशिरोरुहम् ।
सार्करश्मितडिच्चक्रं सबलाकमिवाम्बुदम् ॥ ३.११.८ ॥

咬着嘴唇露出獠牙,眼睛赤红如铜,燃烧的头发直竖向上,周身似有日光与闪电的环轮,宛如带着白鹭的乌云。

3.11.9

सृजन्तं राक्षसीं मायां महानादनिनादितम् ।
मुञ्चन्तं विपुलान्नादान्सतोयमिव तोयदम् ॥ ३.११.९ ॥

施展罗刹的幻术,发出巨大的吼声,放出阵阵响声,宛如满载雨水的乌云。

3.11.10

तस्य नादेन संत्रस्ताः पक्षिणः सर्वतोदिशम् ।
विमुक्तनादाः संपेतुः स्थलजा जलजैः सह ॥ ३.११.१० ॥

众鸟被他的吼声吓得惊惶,四散飞起,鸣叫不已;陆地的生灵与水中的生灵一同奔逃。

3.11.11

संप्रद्रुतमृगद्वीपिमहिषर्क्षसमाकुलम् ।
तद्वनं तस्य नादेन संप्रस्थितमिवाभवत् ॥ ३.११.११ ॥

那片森林里满是惊慌奔逃的鹿、豹、水牛与熊,在他的吼声中仿佛要整个迁离而去。

3.11.12

तस्योरुवाताभिहतास्ताम्रपल्लवबाहवः ।
विदूरजाताश्च लताः समाश्लिष्यन्ति पादपान् ॥ ३.११.१२ ॥

被他大腿带起的风吹打,远处生长的藤蔓以铜红色的嫩芽如臂膀一般,紧紧攀缠住树木。

3.11.13

तस्मिन्क्षणेऽथ प्रववौ मारुतो भृशदारुणः ।
रजसा संवृतं तेन नष्टर्क्षमभवन्नभः ॥ ३.११.१३ ॥

此时狂风大作,被尘土遮蔽的天空失去了星辰。

3.11.14

पञ्चानां पाण्डुपुत्राणामविज्ञातो महारिपुः ।
पञ्चानामिन्द्रियाणां तु शोकावेश इवातुलः ॥ ३.११.१४ ॥

般度五子未曾察觉的大敌,仿佛无与伦比的悲伤侵袭了五根感官。

3.11.15

स दृष्ट्वा पाण्डवान्दूरात्कृष्णाजिनसमावृतान् ।
आवृणोत्तद्वनद्वारं मैनाक इव पर्वतः ॥ ३.११.१५ ॥

他远远望见身披黑羚羊皮的般度五子,便像摩因那卡山一样堵住了林门。

3.11.16

तं समासाद्य वित्रस्ता कृष्णा कमललोचना ।
अदृष्टपूर्वं संत्रासान्न्यमीलयत लोचने ॥ ३.११.१६ ॥

莲花眼的黑天女(德罗波蒂)惊恐地靠近他,因从未见过的恐惧而闭上了双眼。

3.11.17

दुःशासनकरोत्सृष्टविप्रकीर्णशिरोरुहा ।
पञ्चपर्वतमध्यस्था नदीवाकुलतां गता ॥ ३.११.१७ ॥

被难降那的手扯散了头发,她惊慌不安,宛如五山之间的河流。

3.11.18

विमुह्यमानां तां तत्र जगृहुः पञ्च पाण्डवाः ।
इन्द्रियाणि प्रसक्तानि विषयेषु यथारतिम् ॥ ३.११.१८ ॥

她昏乱之际,五位般度子将她扶住,犹如诸根执著于所爱的境界。

3.11.19

अथ तां राक्षसीं मायामुत्थितां घोरदर्शनाम् ।
रक्षोघ्नैर्विविधैर्मन्त्रैर्धौम्यः सम्यक्प्रयोजितैः ॥ ३.११.१९ ॥

于是,达乌耶以恰当运用的多种诛罗刹之咒语,平息了那升起的、形貌可怖的罗刹幻术。

3.11.20

पश्यतां पाण्डुपुत्राणां नाशयामास वीर्यवान् ।
स नष्टमायोऽतिबलः क्रोधविस्फारितेक्षणः ॥ ३.११.२० ॥

在般度诸子注视之下,那位有威力者将其摧毁;于是他的幻术消失,他站立着,极其强大,双眼因愤怒而圆睁。

3.11.21

काममूर्तिधरः क्रूरः कालकल्पो व्यदृश्यत ।
तमुवाच ततो राजा दीर्घप्रज्ञो युधिष्ठिरः ॥ ३.११.२१ ॥

他能随意变换形貌,残酷如死神,显现出来。于是远见卓识的国王坚战对他说道。

3.11.22

को भवान्कस्य वा किं ते क्रियतां कार्यमुच्यताम् ।
प्रत्युवाचाथ तद्रक्षो धर्मराजं युधिष्ठिरम् ॥ ३.११.२२ ॥

“你是谁?属于谁?你有何所求?且说明要做何事。”于是那罗刹回答了法王坚战。

3.11.23

अहं वकस्य वै भ्राता किर्मीर इति विश्रुतः ।
वनेऽस्मिन्काम्यके शून्ये निवसामि गतज्वरः ॥ ३.११.२३ ॥

“我是跋迦之弟,名为基尔米罗,闻名于世。在这片空寂的伽密耶迦林中,我无忧无虑地居住。”

3.11.24

युधि निर्जित्य पुरुषानाहारं नित्यमाचरन् ।
के यूयमभिसंप्राप्ता भक्ष्यभूता ममान्तिकम्।
युधि निर्जित्यवः सर्वान्भक्षयिष्ये गतज्वरः ॥ ३.११.२४ ॥

“我在战中胜过众人,常以之为食。你们是谁,作为食物来到我的身边?我将在战中胜过你们所有人,无忧地将你们吞食。”

3.11.25

युधिष्ठिरस्तु तच्छ्रुत्वा वचस्तस्य दुरात्मनः ।
आचचक्षे ततः सर्वं गोत्रनामादि भारत ॥ ३.११.२५ ॥

坚战听了那恶人的话,便说出了一切:他的种姓、名字等,婆罗多啊。

3.11.26

पाण्डवो धर्मराजोऽहं यदि ते श्रोत्रमागतः ।
सहितो भ्रातृभिः सर्वैर्भीमसेनार्जुनादिभिः ॥ ३.११.२६ ॥

若已传到你的耳中:我便是般度之子法王,与所有兄弟同在——怖军、阿周那等人。

3.11.27

हृतराज्यो वने वासं वस्तुं कृतमतिस्ततः ।
वनमभ्यागतो घोरमिदं तव परिग्रहम् ॥ ३.११.२७ ॥

失去王国,决心在森林中居住,我从那里来到这片可怕的森林,此地现在归你所有。

3.11.28

विस्मयं परमं गत्वा राक्षसो घोरदर्शनः ।
किर्मीरस्त्वब्रवीदेनं दिष्ट्या देवैरिदं मम।
उपपादितमद्येह चिरकालान्मनोरथम् ॥ ३.११.२८ ॥

极为惊讶的、外貌可怖的罗刹吉尔米罗对他说:“幸运的是,诸神使我long久以来的愿望今日在此实现了。”

3.11.29

भीमसेनवधार्थं हि नित्यमभ्युद्यतायुधः ।
चरामि पृथिवीं कृत्स्नां नैनं चासादयाम्यहम् ॥ ३.११.२९ ॥

为了杀死怖军,我始终举着武器走遍整个大地,却未能找到他。

3.11.30

सोयमासादितो दिष्ट्या भ्रातृहा काङ्क्षितश्चिरम् ।
अनेन हि मम भ्राता बको विनिहतः प्रियः ॥ ३.११.३० ॥

这个杀兄者,我长久以来所想要的,幸运地找到了;正是他杀死了我亲爱的兄弟巴卡。

3.11.31

वैत्रकीयवने राजन्ब्राह्मणच्छद्मरूपिणा ।
विद्याबलमुपाश्रित्य न ह्मस्त्यस्यौरसं बलम् ॥ ३.११.३१ ॥

大王啊,在毗呾迦耶森林中,他假扮婆罗门,依靠学问的力量,自身并没有天生的力量。

3.11.32

हिडिम्बश्च सखा मह्मं दयितो वनगोचरः ।
हतो दुरात्मनाऽनेन स्वसा चास्य हृता पुरा ॥ ३.११.३२ ॥

希底姆巴是我心爱的朋友,在林中游荡,却被这个邪恶之人杀害;而且先前他还劫走了他的妹妹。

3.11.33

सोयमभ्यागतो मूढो ममेदं गहनं वनम् ।
प्रचारसमयेऽस्माकमर्द्धरात्रे स्थिते समे ॥ ३.११.३३ ॥

这个愚人来到了我这片茂密的森林,正值我们游荡之时,午夜时分,万物处于平衡之中。

3.11.34

अद्यास्य यातयिष्यामि तद्वैरं चिरसंभृतम् ।
तर्पयिष्यामि च बकं रुधिरेणास्य भूरिणा ॥ ३.११.३४ ॥

今天我要让他偿还那长久积累的仇恨,并以他的大量鲜血使巴卡得到满足。

3.11.35

अद्याहमनृणो भूत्वा भ्रातुः सख्युस्तथैव च ।
शान्तिं लब्धास्मि परमां हत्वा राक्षसकण्टकम् ॥ ३.११.३५ ॥

今天,我还清了对兄弟和朋友的债务,杀死了这根罗刹的刺,获得了无上的平静。

3.11.36

यदि तेन पुरा मुक्तो भीमसेनो बकेन वै ।
अद्यैनं भक्षयिष्यामि पश्यतस्ते युधिष्ठिर ॥ ३.११.३६ ॥

如果以前巴卡曾放过比玛森,那么今天我就要在你眼前吞食此人,啊,坚战。

3.11.37

एनं हि विपुलप्राणमद्य हत्वा वृकोदरम् ।
संभक्ष्य जरयिष्यामि यथाऽगस्त्यो महासुरम् ॥ ३.११.३७ ॥

今日杀死这位气息强大的狼腹(Vṛkodara),我将吞食并消化他,正如阿伽斯提耶消化了那大阿修罗。

3.11.38

एवमुक्तस्तु धर्मात्मा सत्यसन्धो युधिष्ठिरः ।
नैतदस्तीति सक्रोधो भर्त्सयामास राक्षसम् ॥ ३.११.३८ ॥

被如此说后,守法、诚实守信的坚战愤怒地斥责那罗刹说:“并非如此。”

3.11.39

ततो भीमो महाबाहुरारुज्यतरसा द्रुमम् ।
दशव्याममथोद्विद्धं निष्पत्रमकरोत्तदा ॥ ३.११.३९ ॥

于是臂力强大的毗摩以猛力拔起一棵高十“毗耶摩”的树,使其落尽树叶。

3.11.40

चकार सज्यं गाण्डीवं वज्रनिष्पेषगौरवम् ।
निमेषान्तरमात्रेण तथैव विजयोऽर्जुनः ॥ ३.११.४० ॥

转瞬之间,胜利者(阿周那)便将重如雷霆撞击的甘狄拔弓上了弦。

3.11.41

निवार्य भीमो जिष्णुं तं तद्रक्षो मेघनिःस्वनम् ।
अभिद्रुत्याब्रवीद्वाक्यं तिष्ठतिष्ठेति भारत ॥ ३.११.४१ ॥

毗摩制止了胜利者阿周那,冲向那声如雷云的罗刹,说道:“站住,站住!”婆罗多之子啊。

3.11.42

इत्युक्त्वैनमतिक्रुद्धः कक्ष्यामुत्पीड्य पाण्डवः ।
निष्पिष्य पाणिना पाणिं संदष्टौष्ठपुटो बली।
तमभ्यधावद्वेगेन भीमो वृक्षायुधस्तदा ॥ ३.११.४२ ॥

说罢,极为愤怒的般度之子束紧腰带,双手相互搓握,紧咬嘴唇;强壮的毗摩以树为武器,疾速向他冲去。

3.11.43

यमदण्डप्रतीकाशं ततस्तं तस्य मूर्धनि ।
पातयामास वेगेन कुलिशं मघवानिव ॥ ३.११.४३ ॥

他以如阎摩杖一般的力量,猛然击向其头顶,如因陀罗投掷金刚杵。

3.11.44

असंभ्रान्तं तु तद्रक्षः समरे प्रत्यदृश्यत ।
चिक्षेप चोल्मुकं दीप्तमशनिं ज्वलितामिव ॥ ३.११.४४ ॥

然而那罗刹在战斗中毫不慌乱,他掷出燃烧的火把,如同炽烈的雷霆。

3.11.45

तदुदस्तमलातं तु भीमः प्रहरतां वरः ।
पदा सव्येन चिक्षेप तद्रक्षः पुनराव्रजत् ॥ ३.११.४५ ॥

然而勇士之中最优秀的毗摩以左脚将那被掷来的火把踢开,那罗刹又返身回来。

3.11.46

किर्मीरश्चापि सहसा वृक्षमुत्पाट्य पाण्डवम् ।
दण्डपाणिरिव क्रुद्धः समरे प्रत्यधावत ॥ ३.११.४६ ॥

吉尔米罗也突然拔起一棵树,如执杖的阎摩般愤怒,在战斗中向般度之子冲去。

3.11.47

तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् ।
वालिसुग्रीवयोर्भ्रात्रोर्यथा स्त्रीकाङ्क्षिणोः पुरा ॥ ३.११.४७ ॥

那成为一场树木之战,摧毁着巨树,如往昔兄弟波林与须羯哩婆为争一女子而战。

3.11.48

शीर्षयोः पतिता वृक्षा विभिदुर्नैकधा तयोः ।
यथैवोत्पलपत्राणि मत्तयोर्द्विपयोस्तथा ॥ ३.११.४८ ॥

落在他们头上的树木被劈裂成许多碎片,如同莲花花瓣散落在两头发狂的象身上。

3.11.49

मूर्ध्निजर्झरभूतास्तु बहवस्तत्र पादपाः ।
चीराणीव व्युदस्तानि रेजुस्तत्र महावने ॥ ३.११.४९ ॥

在那大森林中,许多树木从顶端崩裂,如同瀑布,又如被抛弃的衣裳,闪闪发光。

3.11.50

तद्वृक्षयुद्धमभवन्महूर्तं भरतर्षभ ।
राक्षसानां च मुख्यस्य नराणामुत्तमस्य च ॥ ३.११.५० ॥

婆罗多族的雄牛啊,那场树木之战持续了片刻,发生在罗刹之主与人中最优者之间。

3.11.51

ततः शिलां समुत्क्षिप्य भीमस्य युधि तिष्ठतः ।
प्राहिणोद्रासः क्रुद्धो भीमसेनश्चचाल ह ॥ ३.११.५१ ॥

于是愤怒的罗刹举起一块巨石,投向站在战场上的毗摩;毗摩森那为之摇晃。

3.11.52

तं शिलाताडनजडं पर्यधावत राक्षसः ।
बाहुविक्षिप्तकिरणः स्वर्भानुरिव भास्करम् ॥ ३.११.५२ ॥

罗刹绕着被巨石击中而麻木的毗摩奔跑,犹如挥洒光芒的罗睺绕着太阳旋转。

3.11.53

तावन्योन्यं समाश्लिश्य प्रकर्षन्तौ परस्परम् ।
उभावपि चकाशेते प्रवृद्धौ वृषभाविव ॥ ३.११.५३ ॥

二人相互拥抱、彼此拖拽,两者皆闪耀,犹如两头强壮的公牛。

3.11.54

तयोरासीत्सुतुमुलः संप्रहारः सुदारुणः ।
नखदंष्ट्रायुधवतोर्व्याघ्रयोरिव दृप्तयोः ॥ ३.११.५४ ॥

二人之间爆发了猛烈而极其可怖的搏击,犹如两头以爪牙为武器的骄傲猛虎相搏。

3.11.55

दुर्योधननिकाराच्च बाहुवीर्याच्च दर्पितः ।
कृष्णानयनदृष्टश्च व्यवर्धत वृकोदरः ॥ ३.११.५५ ॥

因难敌的侮辱和自身臂力而自傲,又见黑公主(德罗波蒂)被带来,狼腹(怖军)怒火愈盛。

3.11.56

अभिहत्याथ बाहुभ्यां प्रत्यगृह्णादमर्षितः ।
मातङ्गमिव मातङ्गः प्रभिननकरटामुखम् ॥ ३.११.५६ ॥

他以双臂猛击,又愤然反擒住对方,如同额角流着发情液的象抓住另一头象。

3.11.57

स चाप्येनं ततो रक्षः प्रतिजग्राह वीर्यबान् ।
तमाक्षिपद्भीमसेनो बलेन बलिनां वरः ॥ ३.११.५७ ॥

那强悍的罗刹也抓住了他;然而力士中最优秀的怖军以力将他举起抛掷而去。

3.11.58

तयोर्भुजविनिष्पेषादुभयोर्बलिनोस्तदा ।
शब्दः समभवद्घोरो वेणुस्फोटसमो युधि ॥ ३.११.५८ ॥

二位强者双臂相互碾压,战场上于是响起一阵可怖之声,如同竹子爆裂。

3.11.59

अथैनमाक्षिप्य बलाद्गृद्य मध्ये वृकोदरः ।
धूनयामास वेगेन वायुश्चण्ड इव द्रुमम् ॥ ३.११.५९ ॥

于是狼腹(怖军)以力将其举起,从中间抓住,猛烈地摇晃,如同狂风撼动大树。

3.11.60

स भीमेन परामृष्टो दुर्बलो बलिनां रणे ।
व्यस्पन्दत यथाप्राणं विचकर्ष च पाण्डवम् ॥ ३.११.६० ॥

那弱小的罗刹被怖军在战中擒住,只要尚存一息便挣扎不已,还想拖拽般度之子。

3.11.61

तत एनं परिश्रान्तमुपलक्ष्य वृकोदरः ।
योक्रयामास बाहुभ्यां पशुं रशनया यथा ॥ ३.११.६१ ॥

此时,见他已筋疲力尽,狼腹(Vṛkodara,即毗摩)用双臂将他捆住,如同用绳索缚住牲畜。

3.11.62

विनदन्तं महानादं भिन्नभिरीस्वनं बली ।
भ्रामयामास सुचिरं विस्फुरन्तमचेतसम् ॥ ३.११.६२ ॥

他大声嘶吼,发出如破鼓般的声音,挣扎扭动,昏迷不醒,被强壮的(毗摩)长时间旋转。

3.11.63

तं विषीदन्तमाज्ञाय राक्षसं पाण्डुनन्दनः ।
प्रगृह्य तरसा दोर्भ्यां पशुमारममारयत् । ॥ ३.११.६३ ॥

毗摩得知他已力竭,便以双臂猛然抓住这罗刹,像宰杀牲畜一样将他杀死。

3.11.64

आक्रम्य च कटीदेशे जानुना राक्षसाधमम् ।
पीडयामास पाणिभ्यां तस्य कण्ठंवृकोदरः ॥ ३.११.६४ ॥

狼腹(毗摩)将膝压在这最卑劣的罗刹腰间,用双手扼住他的喉咙。

3.11.65

अथ जर्जरसर्वाङ्गं व्यावृत्तनयनोल्बणम् ।
भूतले भ्रामयामास वाक्यं चेदमुवाच ह ॥ ३.११.६५ ॥

此时,毗摩将他在地上拖转,他全身破碎,双目翻白,状极可怖,毗摩便说了这些话。

3.11.66

हिडिम्बबकयोः पाप न त्वमश्रुप्रमार्जनम् ।
करिष्यसि गतश्चापि यमस्य सदनं प्रति ॥ ३.११.६६ ॥

恶人啊!你不会为希迪姆巴和巴卡擦干眼泪,即便你去了阎摩的居所。

3.11.67

इत्येवमुक्त्वा पुरुषप्रवीर-
स्तं राक्षसं क्रोधपरीतचेताः।
विस्रस्तवस्त्राभरणं स्फुरन्त-
मुद्धान्तचित्तं व्यसुमुत्ससर्ज ॥ ३.११.६७ ॥

如此说罢,那位人中英雄心被愤怒所蔽,将那罗刹——衣饰散乱、辗转翻滚的罗刹——击得气绝,弃之于地。

3.11.68

तस्मिन्हते तोयदतुल्यरूपे ।
कृष्णां पुरस्कृत्य नरेन्द्रपुत्राः।
भीमं प्रशस्याथ गुणैरनेकै-
र्हृष्टास्ततो द्वैतवनाय जग्मुः ॥ ३.११.६८ ॥

那形如云雨的罗刹被杀之后,诸王子让黑天女(德劳帕蒂)走在前面,称赞怖军的诸多德行,欢喜地向二岐林而去。

3.11.69

एवं विनिहतः सङ्ख्ये किर्मोरो मनुजाधिप ।
भीमेन वचनात्तस् धर्मराजस्य कौरव ॥ ३.११.६९ ॥

如此,人主啊,俱卢之子,基尔米罗在战斗中被杀,乃是依法王之言,由怖军所杀。

3.11.70

ततो निष्कष्टकं कृत्वा वनं तदयराजितः ।
द्रौपद्या सह धर्मज्ञो वसतिं तामुवास ह ॥ ३.११.७० ॥

此后,他清除了那片林中的荆棘,这位不可战胜的达磨通晓者便与德劳帕蒂一同住在那里。

3.11.71

समाश्वास्य च ते सर्वे द्रौपदीं भरतर्षभाः ।
प्रहृष्टमनसः प्रीत्या प्रसशंसुर्वृकोदरम् ॥ ३.११.७१ ॥

众婆罗多牛之雄安慰了德劳帕蒂之后,心中欢喜,满怀爱意地大力称赞狼腹(怖军)。

3.11.72

भीमबाहुबलोत्पिष्टे विनष्टे राक्षसे ततः ।
विविशुस्ते वनं वीराः क्षेमं निहतकण्टकम् ॥ ३.११.७२ ॥

那罗刹被怖军臂力碾碎而毁灭之后,那些英雄进入了那片已无荆棘、安全的林中。

3.11.73

स मया गच्छता मार्गे विनिकीर्णो भयावहः ।
वने महति दुष्टात्मा दृष्टो भीमबलाद्धतः ॥ ३.११.७३ ॥

我在路上行走时,看见大森林中那个可怖的恶念之魔,四散倒地,被毗摩的力量所杀。

3.11.74

तत्राश्रौषमहं चैतत्कर्म भीमस् भारत ।
ब्राह्मणानां कथयतां ये तत्रासन्समागताः ॥ ३.११.७४ ॥

婆罗多之后啊,我也在那里听到毗摩的这一事迹,当时聚集在那里的婆罗门们正在讲述。

3.11.75

एवं विनिहतं सङ्ख्ये किर्मीरं रक्षसां वरम् ।
श्रुत्वा ध्यानपरो राजा निशश्वासार्तवत्तदा ॥ ३.११.७५ ॥

听到罗刹中的最优者吉尔米罗在战斗中如此被杀,沉浸于思索的国王便像悲痛之人一样长叹一声。