摩诃婆罗多 · 章 3.111
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.111.1
एषा देवनदी पुण्या कौशिकी भरतर्षभ ।
विश्वामित्राश्रमो रम्य एष चात्र प्रकाशते ॥ ३.१११.१ ॥
婆罗多族的雄牛啊,这是神圣的天河考希基,这里闪耀着毗首弥多罗的可爱修行处。
3.111.2
आश्रमश्चैव पुण्याख्यः काश्यपस्य महात्मनः ।
ऋश्यशृङ्गः सुतो यस् तपस्वी संयतेन्द्रियः ॥ ३.१११.२ ॥
还有大士迦叶波名为“补尼耶”的修行处;他的儿子鹿角仙人是一位克制诸根的苦行者。
3.111.3
तपसो यः प्रभावेन वर्षयामास वासवम् ।
अनावृष्ठ्यां भयाद्यस्य ववर्ष बलवृत्रहा ॥ ३.१११.३ ॥
他以苦行的威力使因陀罗降雨;在干旱的恐惧中,击杀强大弗栗多者为他而降雨。
3.111.4
मृग्यां जातः स तेजस्वी काश्यपस्य सुतः प्रभुः ।
विषये लोमपादस्य यश्चकाराद्भुतं महत् ॥ ३.१११.४ ॥
这位光辉的主者,迦叶波之子,生于一只母鹿;他在罗摩波陀的国土上做出了一件伟大而奇异的事。
3.111.5
निर्वर्तितेषु सस्येषु यस्मै शान्तां ददौ नृपः ।
लोमपादो दुहितरं सावित्रीं सविता यथा ॥ ३.१११.५ ॥
庄稼收割完毕时,国王罗摩波陀把女儿善陀嫁给了他,正如太阳神萨维陀里把萨维特丽嫁出一样。
3.111.6
ऋश्यशृङ्गः कथं मृग्यामुत्पन्नः काश्यपात्मजः ।
विरुद्धयोनिसंसर्गः कथं च तपसा युतः ॥ ३.१११.६ ॥
迦叶波之子鹿角仙人是如何从一只母鹿所生的?他又如何在两种相反的胎生结合中获得苦行之力?
3.111.7
किमर्थं च भयाच्छक्रस्तस्य बालस्य धीमतः ।
अनावृष्ट्यां प्रवृत्तायां ववर्ष बलवृत्रहा ॥ ३.१११.७ ॥
当旱灾降临时,杀死强大之龙弗栗多的因陀罗,为何因畏惧这位智慧的少年而降下雨水?
3.111.8
कथंरूपा च सा शान्ता राजपुत्री पतिव्रता ।
लोभयामास या चेतो मृगभूस्य तस्य वै ॥ ३.१११.८ ॥
那位温顺、忠于丈夫的公主有着怎样的容貌,竟迷惑了这位由鹿所生之人的心?
3.111.9
लोमपादश्च राजर्षिर्यदाऽश्रूयत धार्मिकः ।
कथं वै विषये तस्य नावर्षत्पाकशासनः ॥ ३.१११.९ ॥
当人们听闻正义的王仙罗摩波陀时,为何破迦之主因陀罗不在他的国土降雨?
3.111.10
एतन्मे भगवन्सर्वं विस्तरेण यथातथम् ।
वक्तुमर्हसि शुश्रूषोर्ऋश्यशृङ्गस् चेष्टितम् ॥ ३.१११.१० ॥
尊者啊,我愿聆听,请将 Ṛśyaśṛṅga 的全部事迹详细而如实地讲述给我。
3.111.11
विभाण्डकस्य ब्रह्मर्षेस्तपसा भावितात्मनः ।
अमोघवीर्यस्य सतः प्रजापतिसमद्युतेः ॥ ३.१११.११ ॥
关于梵仙毗梵陀迦:他以苦行净化了自我,其力量从不失效,是光辉堪比生主的善人。
3.111.12
शृणु पुत्रो यथा जात ऋश्यशृङ्गः प्रतापवान् ।
महाह्रदे महातेजा बालः स्थविरसंभतः ॥ ३.१११.१२ ॥
请听:威力强大的 Ṛśyaśṛṅga 是如何作为儿子降生的。在大湖中,这位光辉无比的少年被一位老仙人抚养长大。
3.111.13
महाह्रदं समासाद्य काश्यपस्तपसि स्थितः ।
दीर्घकालं रिश्रान्त ऋषिर्देवर्षिसंमितः ॥ ३.१११.१३ ॥
迦叶抵达大湖,安住于苦行之中。这位long久疲惫的仙人,与天界仙人相等。
3.111.14
तस्य रेतः प्रचस्कन्द दृष्ट्वाऽप्सरसमुर्वशीम् ।
अप्सूपस्पृशतो राजन्मृगी तच्चापिबत्तदा।
सह तोयेन तृषिता गर्भिणी चाभवत्ततः ॥ ३.१११.१४ ॥
他见到天女优哇西,精液便泄出。大王啊,他触水之时,一只母鹿饮下了它;口渴的她便随水怀孕了。
3.111.15
सा पुरोक्ता भगवता ब्रह्मणा लोककर्तृणा ।
देवकन्या मृगी भूत्वा मुनिं सूय विमोक्ष्यसे ॥ ३.१११.१५ ॥
很久以前,世界的创造者尊者梵天曾告诉她:你这天女将化为母鹿,生下一位仙人,然后便得解脱。
3.111.16
अमोघत्वाद्विधेश्चैव भावित्वाद्दैवनिर्मितात् ।
तस्यां मृग्यां समभवत्तस्व पुत्रो महानृषिः।
ऋश्यशृङ्गस्तपोनित्यो वन एवाभ्यवर्धत ॥ ३.१११.१६ ॥
因天命不可违逆、乃由命运所定,那母鹿为他生下了伟大的儿子,仙人力尸演迦(Ṛśyaśṛṅga),他常修苦行,就在森林中成长。
3.111.17
तस्य शृङ्गं शिरसि वै राजन्नासीन्महात्मनः ।
तेनर्श्यशृङ्ग इत्येवं तदा स प्रथितोऽभवत् ॥ ३.१११.१७ ॥
大王啊,那位大德的头上有一只角,因此他当时便以“力尸演迦”(Ṛśyaśṛṅga,鹿角)之名而闻名。
3.111.18
न तेन दृष्टपूर्वोऽन्यः पितुरन्यत्रमानुषः ।
तस्मात्तस्य मनो नित्यं ब्रह्मचर्येऽभवन्नृप ॥ ३.१११.१८ ॥
除了父亲,他以前从未见过其他人。因此,大王啊,他的心总是专注于梵行。
3.111.19
एतस्मिन्नेव काले तु सखा दशरशस्य वै ।
कलोमपाद इतिख्यातो ह्यङ्गानामीश्वरोऽभवत् ॥ ३.१११.१९ ॥
就在那时,达舍罗陀的朋友、以名闻天下的罗摩跋陀成为盎伽之主。
3.111.20
तेन कामः कृतो मिथ्या ब्राह्मणेभ्य इति श्रुतिः ।
दैवोपहतसत्त्वेन धर्मज्ञेनापि भारत।
स ब्राह्मणैः परित्यक्तस्तदा भरतसत्तम ॥ ३.१११.२० ॥
据说他对婆罗门做了虚假的请求。虽然他的本性受到命运打击,且通晓法,婆罗多之最的你啊,他那时却被婆罗门们抛弃了。
3.111.21
पुरोहितापचाराच्च तस्य राज्ञो यदच्छया ।
न ववर्ष सहस्राक्षस्ततोऽपीड्यन्त वै प्रजाः ॥ ३.१११.२१ ॥
因为祭司的过失,千眼因陀罗并未降雨于那位国王,于是臣民也受到了苦难。
3.111.22
स ब्राह्मणान्पर्यपृच्छत्तपोयुक्तान्मनीषिणः ।
प्रवर्षणे सुरेन्द्रस्य समर्थान्पृथिवीपते ॥ ३.१११.२२ ॥
他询问那些具有苦行、有智慧、能够促成因陀罗降雨的婆罗门,大地之主啊。
3.111.23
कथं प्रवर्षेत्पर्जन्य उपायः परिमृश्यताम् ।
तमूचुश्चोदितास्ते तु स्वमतानि मनीषिणः ॥ ३.१११.२३ ॥
云怎样才能降雨?应当考虑一个办法。那些智者受到激励,各自向他陈述了自己的见解。
3.111.24
तत्र त्वेको रमुनिवरस्तं राजानमुवाच ह ।
कुपितास्तव राजेन्द्र ब्राह्मणा निष्कृतिं चर ॥ ३.१११.२४ ॥
那时一位卓越的仙人对那位国王说:王中之王啊,婆罗门们对你发怒了;去行赎罪吧。
3.111.25
ऋश्यशृङ्गं मुनिसुतमानयस्व च पार्थिव ।
ऐणेयमनभिज्ञं च नारीणामार्जवे रतम् ॥ ३.१११.२५ ॥
国王啊,请带来鹿所生的仙人之子力角,他不了解女人的坦率之道,却乐于其中。
3.111.26
स चेदवतरेद्राजन्विषयं ते महातपाः ।
सद्यः प्रवर्षेत्पर्जन्य इति मे नास्ति संशयः ॥ ३.१११.२६ ॥
国王啊,如果那位大苦行者进入你的国土,雨云会立刻降雨,对此我毫不怀疑。
3.111.27
एतच्छ्रुत्वा वचो राजन्कृत्वा निष्कृतिमात्मनः ।
स गत्वा पुनरागच्छत्प्रसन्नेषु द्विजातिषु ॥ ३.१११.२७ ॥
国王啊,他听了这些话,为自己做了赎罪,然后离去,待婆罗门们高兴之后又回来了。
3.111.28
राजानमागतं ज्ञात्वा प्रतिसंजगृहुः प्रजाः ।
स च ता प्रतिजग्राह पितेव हितकृत्सदा ॥ ३.१११.२८ ॥
百姓得知国王到来,便回以迎接;国王也总像慈父一样善待他们,接纳了他们。
3.111.29
ततोऽङ्गपतिराहूय सचिवान्मन्त्रकोविदान् ।
ऋश्यशृङ्गागमे यत्नमकरोन्मन्त्रनिश्चये ॥ ३.१११.२९ ॥
于是,安伽之主召集精于谋略的大臣,经过商议决定后,便为迎请力角而努力。
3.111.30
सोऽध्यगच्छदुपायं तु तैरमात्यैः सहाच्युतः ।
शास्त्रज्ञैरलमर्थज्ञौर्नीत्यां च परिनिष्ठितैः ॥ ३.१११.३० ॥
那位坚定的国王与那些精通典籍、深知利害、在治国之道上十分稳固的大臣们一同,找到了一个计策。
3.111.31
ततश्चानाययामास वारमुख्या महीपतिः ।
वेश्याः सर्वत्रनिष्णातास्ता उवाच स पार्थिवः ॥ ३.१११.३१ ॥
于是国王召来各方面都很精通的头牌妓女,对她们说道。
3.111.32
ऋश्यशृङ्गमृषेः पुत्रमानयध्वमुपायतः ।
लोभयित्वाऽभिविश्चास्य विषयं मम शोभनाः ॥ ३.१११.३२ ॥
美人们,用某种计策把仙人之子鹿角(Ṛśyaśṛṅga)带来;诱惑他并取得他的信任后,把他带到我的国土来。
3.111.33
ता राजभयभीताश्च शापभीताश्च योषितः ।
अशक्यमूचुस्तत्कार्यं विषण्णा गतचेतसः ॥ ३.१११.३३ ॥
这些女子既怕国王的威严,又怕诅咒,心情沮丧、神思不定,说此事办不到。
3.111.34
तत्र त्वेका जरद्योषा राजानमिदमब्रवीत् ।
प्रयतिष्ये महाराज तमानेतुं तपोधनम् ॥ ३.१११.३४ ॥
这时有一位老妇对国王说:"大王,我会设法把那位以苦行为财富的人带来。"
3.111.35
अभिप्रेतांस्तु मे कामांस्त्वमनुज्ञातुमर्हसि ।
ततः शक्ष्याम्यानयितुमृश्यशृङ्गमृषेः सुतम् ॥ ३.१११.३५ ॥
"但请您允许我实现心中所愿;这样,我便能把仙人之子鹿角(Ṛśyaśṛṅga)带来。"
3.111.36
तस्याः सर्वमभिप्रेतमन्वजानात्स पार्थिवः ।
धनं च प्रददौ भूरि रत्नानि विविधानि च ॥ ३.१११.३६ ॥
国王应允了她的一切所愿,并赐给她丰厚的财富和各式珍宝。
3.111.37
ततो रूपेण सपन्ना वयसा च महीपते ।
स्त्रिय आदाय काश्चित्सा जगाम वनमञ्जसा ॥ ३.१११.३७ ॥
于是她,在容貌和年龄上与众妃相当,啊大地之主,带着几位女子,立即走向森林。