Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.112

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.112.1

सा तु नाव्याश्रमं चक्रे राजकार्यार्थसिद्धये ।
संदेशाच्चैव नृपतेः स्वबुद्ध्या चैव भारत ॥ ३.११२.१ ॥

婆罗多的后裔啊!她奉国王之命,凭自己的机智,建造了一座船上的修行所,以完成国王的使命。

3.112.2

नानापुष्पफलैर्वृक्षैः कृत्रिमैरुपशोभितैः ।
नानागुल्मलतोपेतैः स्वादुकामफलप्रदैः ॥ ३.११२.२ ॥

它装饰着人造的树木,开着各式花朵、结满果实,布满各种灌木与藤蔓,结出味美、令人心仪的果实。

3.112.3

अतीव रमणीयं तदतीव च मनोहरम् ।
चक्रे नाव्याश्रमं रम्यमद्भुतोपमदेर्शनम् ॥ ३.११२.३ ॥

她把这座船上的修行所建造得极为迷人、极为赏心悦目,美丽且景象奇妙。

3.112.4

ततो निवध्य सा नावमदूरे काश्यपाश्रमात् ।
चारयामास पुरुषैर्विहारं तस्य वै मुनेः ॥ ३.११२.४ ॥

随后她将船系在离迦叶修行所不远的地方,并让手下人为那位仙人安排游乐。

3.112.5

ततो दुहितरं वेश्यां समाधायेतिकार्यताम् ।
दृष्ट्वाऽन्तरं काशय्पस्य प्राहिणोद्बुद्धिसंमताम् ॥ ३.११२.५ ॥

随后,她嘱咐自己的妓女女儿去办这件事,并看准了迦叶那里的时机,派遣了这个为智者所认可的女儿。

3.112.6

सा तत्र गत्वा कुशला तपोनित्यस्य संनिधौ ।
आश्रमं तं समासाद्य ददर्श तमृषेः सुतम् ॥ ३.११२.६ ॥

那位机巧的女子前往那里,到达那位恒常修苦行的仙人身边的修行所,看见了那位仙人之子。

3.112.7

कच्चिन्मुने कुशलं तापसानां ।
कच्चिच्च वो मूलफलं प्रभूतम्।
कच्चिद्भवान्रमते चाश्रेऽस्मिं-
स्त्वां वै द्रष्टुं सांप्रतमागतास्मि ॥ ३.११२.७ ॥

哦,仙人,苦行者们可安好?你们的根茎和果实是否充足?你在此净修之处是否快乐?我现在前来见你。

3.112.8

कच्चित्तपो वर्धते तापसानां ।
पिता च ते कच्चिदहीनतेजाः।
कच्चित्त्वया प्रीयतेचैव विप्र ।
कच्चित्स्वाध्यायः क्रियते चर्श्यशृङ्गः ॥ ३.११२.८ ॥

苦行者们的苦行是否日益增长?你父亲的光辉是否依旧不减?婆罗门啊,你是否喜乐?狮角啊,诵读吠陀之事是否在进行?

3.112.9

ऋद्ध्या भवाञ्ज्योतिरिव प्रकाशते ।
मन्ये चाहं त्वामभिवादनीयम्।
पाद्यं वै ते संप्रदास्यामि कामा-
द्यथाधर्मं फलमूलानि चैव ॥ ३.११२.९ ॥

你因福泽而光彩照人,如同明灯。我认为你值得致敬。我将为你奉上洗足之水,并依法随愿奉上果实与根茎。

3.112.10

कौश्यां बृस्यामास्स्व यथोपजोषं ।
कृष्णाजिनेनावृतायां सुखाय।
क्व चाश्रमस्तव किं नाम चेदं ।
व्रतंब्रह्मंश्चरसि हि देववत्त्वम् ॥ ३.११२.१० ॥

请随意就座于覆盖黑羚羊皮的吉祥草座上。你的净修之处在哪里,名为何?婆罗门啊,你持戒如同神明。

3.112.11

ममाश्रमः काश्यपपुत्र रम्य-
स्त्रियोजनं शैलमिमं परेण।
तत्रस्वधर्मोऽनभिवादनं नो ।
न चोदकं पाद्यमुपस्पृशामः ॥ ३.११२.११ ॥

迦叶波之子啊,我的净修之处十分优美,在这座山的那一边,相距三由旬。那里我们的法是不行礼,也不触碰洗足之水。

3.112.12

भवता नाभिवाद्योऽहमभिवाद्यो भवान्मया ।
व्रतमेतादृशं ब्रह्मन्परिष्वज्यो भवान्मया ॥ ३.११२.१२ ॥

您不必向我行礼,我将向您行礼。婆罗门啊,我的誓愿是这样的:我必须拥抱您。

3.112.13

फलानि पक्वानि ददानि तेऽहं ।
भल्लातकान्यामलकानि चैव।
करूषकानीङ्गुदधन्वनानि ।
प्रियालानां काङ्क्षितं वै कुरुष्व ॥ ३.११२.१३ ॥

我将给你成熟的果实:婆利伽多果、阿摩勒果、卡卢沙迦果以及因古提林的果实;至于波利耶罗果,你想要什么便取什么。

3.112.14

सा तानि सर्वाणि विसर्जयित्वा ।
भक्ष्याण्यनर्हाणि ददौ ततोऽस्मै।
तान्यृश्यशृङ्गाय महारसानि ।
भृशं सुरूपाणि च मोदकानि ॥ ३.११२.१४ ॥

她将那些都撤去,舍弃了不合适的食物,然后给了利阇耶舍陵伽非常美味而精致的甜点。

3.112.15

ददौ च माल्यानि सुगन्धवन्ति ।
चित्राणि वासांसि च भानुमन्ति।
पेयानि चाग्र्याणि ततो मुमोद ।
चिक्रीड चैव प्रजहास चैव ॥ ३.११२.१५ ॥

她又给了香气的花环、色彩斑斓闪亮的衣服和上等饮品;于是他欢喜,游戏,也大笑起来。

3.112.16

सा कन्दुकेनारमतास्य मूले ।
विभज्यमाना फलिता लतेव।
गात्रैश्च गात्राणि निषेवमाणा ।
समाश्लिषच्चासकृदृश्यशृङ्गम् ॥ ३.११२.१६ ॥

她在他身边用球游戏;像结满果实的藤蔓般摇曳,以自己的肢体触碰他的肢体,一再拥抱利阇耶舍陵伽。

3.112.17

सर्जानशोकांस्तिलकांश्च वृक्षा-
न्सुपुष्पितानवनाम्यावभज्य।
विलज्जमानेव मदाभिभूता ।
प्रोभयामास सुतं महर्षेः ॥ ३.११२.१७ ॥

她弯折并折断娑罗、阿输迦和底洛迦树,被欲望所笼罩,仿佛羞涩,撩动了大仙人之子。

3.112.18

अथर्श्यशृङ्गं विकृतंसमीक्ष्य ।
पुनः पुनः पीञ्य च कायमस्य।
अवेक्ष्यमाणा शनकैर्जगाम ।
कृत्वाऽग्निहोत्रस्य तदाऽपदेशम् ॥ ३.११२.१८ ॥

随后,她见Ṛśyaśṛṅga神情慌乱,一再按压他的身体,回头张望,借口去供奉祭火,慢慢离去。

3.112.19

तस्यां गतायां मदनेन मत्तो ।
विचेतनश्चाभवदृश्यशृङ्गः।
तामेव भावेन गतेन शून्ये ।
विनिःश्वसन्नार्तरूपो बभूव ॥ ३.११२.१९ ॥

她离去之后,被欲火迷乱的Ṛśyaśṛṅga失去知觉;心中只想着她,在空寂中深深叹息,陷入了痛苦之中。

3.112.20

ततो मुहूर्ताद्धरिपिङ्गलाक्षः ।
प्रवेष्टितो रोमभिरानखाग्रात्।
स्वाध्यायवान्वृत्तसमाधियुक्तो ।
विभाण्डकः काश्यपः प्रादुरासीत् ॥ ३.११२.२० ॥

片刻之后,迦叶之子毗婆達迦出现了,他眼睛呈黄褐色,从头到指甲尖都被毛发覆盖,专心诵习,定力坚固。

3.112.21

सोऽपश्यदासीनमुपेत्य पुत्रं ।
ध्यायन्तमेकं विपरीतचित्तम्।
विनिःश्वसन्तं मुहुरूर्ध्वदृष्टिं ।
विभाण्कः पुत्रमुवाच दीनम् ॥ ३.११२.२१ ॥

他走近,看见儿子独自坐着冥想,心神混乱,屡屡深深叹息,仰望上方;毗婆達迦便对沮丧的儿子说道。

3.112.22

न कल्पिताः समिधः किंनु तात ।
कच्चिद्धुतं चाग्निहोऽत्रं त्वयाऽद्य।
न संसृष्टं क्रियते द्वारभागे ।
सुवृक्षाणा खण्डने कः प्रवृत्तः ॥ ३.११२.२२ ॥

孩子啊,柴薪没有备好吗?今天你没有完成火祭(阿格尼霍特拉)的供奉吗?门口一带,是谁开始砍伐那些美好的树木?

3.112.23

सुनिर्णिक्तं स्रुक्स्रुवं होमधेनुः ।
कच्चित्सवत्साद्यकृता त्वया च।
कोप्यागतः शुश्रूषणायेह पुत्र ।
कुतश्चित्रं माल्यमिदं प्रवृद्धम् ॥ ३.११२.२३ ॥

勺子sruk和sruva是否已经洗净?今天你没有给祭祀用的母牛挤奶,连同小牛一起吗?孩子,有没有人来这里侍奉?这串奇异的花环从哪里来,竟长得这样大?

3.112.24

न वै यथापूर्वमिवासि पुत्र ।
चिन्तापरश्चासि विचेतनश्च।
दीनोतिमात्रं किमिवाद्य खिन्नः ।
पृच्छामि त्वां क इहाद्यागतोऽभूत् ॥ ३.११२.२४ ॥

孩子,你已不像从前了。你似乎陷于忧虑之中,神情恍惚。今天为何如此沮丧、痛苦?我问你:今天谁来到这里了?