Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.114

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.114.1

रक्षांसि चैतानि चरन्ति पुत्र ।
रूपेण तेनाद्भुतदर्शनेन।
अतुल्यवीर्याण्यभिरूपवन्ति ।
विघ्रं सदा तपसश्चिन्तयन्ति ॥ ३.११४.१ ॥

孩子啊,这些罗刹以奇异的外貌四处游荡。他们拥有无与伦比的勇力,容貌俊美,总在谋划阻碍苦行。

3.114.2

सुरूपरूपाणि च तानि तात ।
प्रलोभयन्ते विविधैरुपायैः।
सुखाच्च लोकाच्च निपातयन्ति ।
तान्युग्ररूपाणि मुनीन्वनेषु ॥ ३.११४.२ ॥

亲爱的孩子,那些形貌俊美者以种种手段诱惑;那些形貌凶猛者则使林中的苦行者坠离安乐与世间。

3.114.3

न तानि सेवेत मुनिर्यतात्मा ।
सतां लोकान्प्रार्थयानः कथंचित्।
कृत्वा विघ्रनं तापसानां रमन्ते ।
पापाचारास्तापसस्तान्न पश्येत् ॥ ३.११४.३ ॥

自制的苦行者不应侍奉他们,无论如何都不应为求善人之界而如此。作恶之人以阻碍苦行者为乐;苦行者不应见他们。

3.114.4

असज्जनेनाचरितानि पुत्र ।
पानान्यपेयानि मधूनि तानि।
माल्यानि चैतानि न वै मुनीनां ।
स्मृतानि चित्रोज्ज्वलगन्धवन्ति ॥ ३.११४.४ ॥

孩子啊,那些恶人所饮用的不可饮之酒与蜜酒,以及这些花环和光彩夺目、香气浓郁之物,确实不被记载为属于苦行者的。

3.114.5

रक्षांसि तानीति निवार्य पुत्रं ।
विभाण्डकस्तां मृगयांबभूव।
नासादयामास यदा त्र्यहेण ।
तदा स पर्याववृते श्रमाय ॥ ३.११४.५ ॥

毗婆湿迦说“他们是罗刹”,制止了儿子,便去寻找他们。三日之内仍未找到,他便因疲惫而返回。

3.114.6

यदा पुन काश्यपो वै जगाम ।
फलान्याहर्तुं विधिनाश्रमेऽसौ।
तदा पुनर्लोभयितुं जगाम ।
सा वेशायोषा मुनिमृश्यशृह्गम् ॥ ३.११४.६ ॥

当迦叶按照规矩再次离开净修林去采摘果实时,那名娼妓女子又去引诱苦行者力角(Ṛṣyaśṛṅga)。

3.114.7

दृष्ट्वैव तामृश्यशृङ्गः प्रहृष्टः ।
संभ्रान्तरूपोऽभ्यपतत्तदानीम्।
प्रोवाच चैनां भवतः श्रमाय ।
गच्छाव यावन्न पिता ममैति ॥ ३.११४.७ ॥

一见到她,力角(Ṛṣyaśṛṅga)便欣喜不已,神色慌乱地立刻向她奔去。他对她说:“我们去吧,让你歇息,趁我父亲还没回来。”

3.114.8

ततो राजन्काश्यपस्यैकपुत्रं ।
प्रवेश्य वेगेन विमुच्य नावम्।
प्रलोभयन्त्यो विविधैरुपायै-
राजग्मुरङ्गाधिपतेः समीपम् ॥ ३.११४.८ ॥

随后,大王啊,她们迅速将迦叶的独子放入船中,又放开船只,以种种手段引诱他,来到了安伽国主的面前。

3.114.9

संस्थाप्यतामाश्रमदर्शने तु ।
संतारितां नावमथातिशुभ्राम्।
तीरादुपादाय तथैव चक्रे ।
राजाश्रमं नाम वनं विचित्रम् ॥ ३.११४.९ ॥

请将船停稳,以便显示净修林。她们从岸边取回极其洁白的船,并同样把那片奇妙的森林命名为“王仙苑”(Rājāśrama)。

3.114.10

अन्तःपुरे तं तु निवेश्य राजा ।
विभाण्डकस्यात्मजमेकपुत्रम्।
ददर्श मेघैः सहसा प्रवृष्ट-
मापूर्यणाणं च जगज्जलेन ॥ ३.११४.१० ॥

国王将毗婆那迦(Vibhāṇḍaka)的独子安置在后宫,并看到乌云中突然降下大雨,整个世界被水充满。

3.114.11

स रोमपाद परिपूर्णकामः ।
सुतां ददावृश्यशृङ्गाय शान्ताम्।
क्रोधप्रतीकारकरं च चक्रे ।
गोभिश्च मार्गेष्वभिकर्षणं च ॥ ३.११४.११ ॥

圆满心愿的罗摩跋陀将女儿珊塔嫁给了仙人力角。他设法平息愤怒,并安排以牛群在道路上吸引他。

3.114.12

विभाण्डकस्याव्रजतः स राजा ।
पशून्प्रभूतान्पशुपांश्च वीरान्।
समादिशत्पुत्रगृद्धी महर्षि-
र्विभाण्डकः परिपृच्छेद्यदा वः ॥ ३.११४.१२ ॥

毗婆达迦走来时,国王命令准备大量牲畜和勇敢的牧人。当渴望有子的大仙毗婆达迦向你们询问时……

3.114.13

स क्तव्यः प्राञ्जलिभिर्भवद्भिः ।
पुत्रस्य ते पशवः कर्षणं च।
किं ते प्रियं वै क्रियतां महर्षे ।
दासाः स्म सर्वे तव वाचि बद्धाः ॥ ३.११४.१३ ॥

你们应当合掌对他说:“您儿子的牲畜和田地都是您的。大仙啊,要为您做什么您喜欢的事呢?我们都是受您言语约束的仆人。”

3.114.14

अथोपायात्स मुनिश्चण्डकोपः ।
स्वमाश्रमं मूलफलं गृहीत्वा।
अन्वेषमाणश्च न तत्र पुत्रं ।
ददर्श चुक्रोध ततो भृशं सः ॥ ३.११४.१४ ॥

于是那位怒火猛烈的仙人带着根茎与果实回到自己的修行处。在那里寻找儿子却不见踪影,他于是极度愤怒。

3.114.15

ततः स कोपेन विदीर्यमाण ।
आशङ्कमानो नृपतेर्विधानम्।
जगाम चम्पां प्रतिधक्ष्यमाण-
स्तमङ्गराजं सपुरं सराष्ट्रम् ॥ ३.११४.१५ ॥

于是他被愤怒撕裂,怀疑国王有什么图谋,前往占婆城,决心以牙还牙,将盎伽王连同他的城池与国土一并焚毁。

3.114.16

स वै श्रान्तः क्षुधितः काश्यपस्ता-
न्घोषान्समासादितवान्समृद्धान्।
गोपैश्च तैर्विधिवत्पूज्यमानो ।
राजेव तां रात्रिमुवास तत्र ॥ ३.११४.१६ ॥

疲倦而饥饿的迦叶之子来到那些富饶的牛栏。牧人们依照礼仪敬待他,他像国王一样在那里度过了那一夜。

3.114.17

अवाप्य सत्कारमतीव हृष्टः ।
प्रोवाच कस्य प्रथिताः स्थ गोपाः।
ऊचुस्ततस्तेऽभ्युपगम्य सर्वे ।
धनं तवेदं विहितं सुतस्य ॥ ३.११४.१७ ॥

他得到敬待,非常欢喜,问道:"牧人们,你们是谁的著名仆人?"于是他们都走近说:"这些财富是为你的儿子预备的。"

3.114.18

देशेषु देशेषु स पूज्यमान-
स्तांश्चैव शृण्वन्मधुरान्प्रलापान्।
प्रशान्तभूयिष्ठरजाः प्रहृष्टः ।
समाससादाङ्गपतिं पुरस्थम् ॥ ३.११४.१८ ॥

他在各地受到尊敬,聆听他们甜美的话语,心中的激情尘埃大多已平息,他欢喜地来到城中的盎伽之主那里。

3.114.19

स पूजितस्तेन नरर्षभेण ।
ददर्श पुत्रं दिवि देवं यथेन्द्रम्।
शान्तां स्नुषां चैव ददर्श तत्र ।
सौदामनीमुच्चरन्तीं यथैव ॥ ३.११४.१९ ॥

他受到那位人中雄牛的敬待,看见了儿子,他如天上的因陀罗神;他又在那里看见了沉静的儿媳,如向上闪耀的闪电。

3.114.20

ग्रामां श्च घोषांश्च सुतस्य दृष्ट्वा ।
शान्तां च शान्तोऽस्य परः स कोपः।
चकार तस्यैव परं प्रसादं ।
विभाण्डको भूमिपतेर्नरेद्र ॥ ३.११४.२० ॥

看见儿子的村落和牛栏,又看见心已平静的儿媳,他的大怒平息了。啊,人主,毗梵达迦对那位大地之主施以大恩。

3.114.21

स तत्रनिक्षिप्य सुतं महर्षि-
रुवाच सूर्याग्निसमप्रभावः।
जाते च पुत्रे वनमेवाव्रजेथा ।
राज्ञः प्रियाण्यस्य सर्वाणि कृत्वा ॥ ३.११४.२१ ॥

大仙人以与太阳和火焰同等的威力,将儿子留在那里,说道:「儿子出生后,你便回到森林里去,为国王做完一切他所喜爱的事。」

3.114.22

स तद्वचः कृतवानृश्यशृङ्गो ।
ययौ च यत्रास्य पिता बभूव।
शान्ता चैनं पर्यचरन्नरेन्द्र ।
स्वे रोहिणी सोममिवानुकूला ॥ ३.११४.२२ ॥

耶辛迦听从了这话,前往父亲所在之处。王中之王啊!山塔也侍奉他,如同罗希尼顺从月亮一般。

3.114.23

अरुन्धती वा सुभगा वसिष्ठं ।
लोपामुद्रा वा यथा ह्यगस्त्यम्।
नलस्य वै दमयन्ती यथा भू ।
द्यथा शची वज्रधरस्य चैव ॥ ३.११४.२३ ॥

如同吉祥的阿伦达蒂之于婆悉吒,或罗波穆德罗之于阿伽斯提亚,达摩衍蒂之于那罗,舍până之于持金刚的因陀罗一般。

3.114.24

प्रीत्या युक्ता पर्यचरन्नरेन्द्र ॥ ३.११४.२४ ॥

她满怀情意地侍奉他,王中之王啊。

3.114.25

तस्याश्रमः पुण्य एषोऽवभाति ।
महाह्रदं शोभयन्पुण्यकीर्तिः।
अत्रस्नातः कृतकृत्यो विशुद्ध-
स्तीर्थान्यन्यान्यनुसंयाहि राजन् ॥ ३.११४.२५ ॥

她的圣洁隐居处显现在此,装点着这座名望神圣的大湖。国王啊,你在此沐浴,既已圆满、洁净,便可前往其他圣渡口。