Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 3.115

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

3.115.1

ततः प्रयातः कौशिक्याः पाण्डवो जनमेजय ।
आनुपूर्व्येण सर्वाणि जगामायतनान्यथ ॥ ३.११५.१ ॥

それからカウシキーを出発し、ジャナメージャヤよ、パーンダヴァは順に聖地すべてを巡った。

3.115.2

स सागरं समासाद्य गङ्गायाः संगमे नृप ।
नदीशतानां पञ्चानां मध्ये चक्रे समाप्लवम् ॥ ३.११५.२ ॥

王よ、海に着き、ガンガーの合流点で、百の河のうち五つの中で完全な沐浴を行った。

3.115.3

ततः समुद्रतीरेण जगाम वसुधाधिपः ।
भ्रातृभिः सहितो वीरः कलिङ्गान्प्रति भारत ॥ ३.११५.३ ॥

それから海岸に沿って、大地の主である英雄は兄弟たちと共に、バーラタよ、カリンガ族の方へ向かった。

3.115.4

एते कलिङ्गाः कौन्तेय यत्र वैतरणी नदी ।
यत्रायजत धर्मोपि देवाञ्शरणमेत्य वै ॥ ३.११५.४ ॥

クンティーの子よ、これがカリンガ族の地である。ここにヴァイタラニー河が流れ、ダルマ神もまた神々に庇護を求めて供犠を行ったのだ。

3.115.5

ऋषिभिः समुपायुक्तं यज्ञियं गिरिशोभितम् ।
उत्तरं तीरमेतद्धि सततं द्विजसेवितम् ॥ ३.११५.५ ॥

この北岸は聖仙たちが整え、供犠にふさわしく、山々に飾られ、常に再生族の人々に仕えられている。

3.115.6

समेन देवयानेन पथा स्वर्गमुपेयुषः ।
अत्रवै ऋषयोऽन्येऽपि पुरा क्रतुभिरीजिरे ॥ ३.११५.६ ॥

神々の平らな道によって天界へ赴いた者たち。ここでは昔、他の聖仙たちもまた供犠によって崇拝した。

3.115.7

अत्रैव रुद्रो राजेन्द्र पशुमादत्तवान्मखे ।
पशुमादाय राजेन्द्र भागोयमिति चाब्रवीत् ॥ ३.११५.७ ॥

ここで、王の中の王よ、ルドラは供犠において供物の獣を奪い取った。獣を取って彼は言った。「これは私の分である。」

3.115.8

हृते पशौ तदा देवास्तमूचुर्भरतर्षभ ।
मा परस्वमभिद्रोग्धा माधर्म्यान्नीनशः पथः ॥ ३.११५.८ ॥

獣が奪われたとき、神々は彼に言った。バラタの牡牛よ。「他人の財産を害してはならない。不義によって道を滅ぼしてはならない。」

3.115.9

स्वयं यज्ञेश्वरो भूत्वा कर्मणां फलदायकः ।
यज्ञं विहन्तुं भगवान्नार्हसे जगदीश्वर ॥ ३.११५.९ ॥

あなた自身が供犠の主となり、行為の果報を与える者である。世界の主よ、尊き方よ、供犠を壊すことはあなたにふさわしくない。

3.115.10

इतिकल्याणरूपाभिर्वाग्भिस्ते रुद्रमस्तुवन् ।
इष्ट्या चैनं तर्पयित्वा मानयांचक्रिरे तदा ॥ ३.११५.१० ॥

こうして彼らは吉祥な言葉でルドラを讃え、供犠によって彼を満足させ、そのとき彼を敬った。

3.115.11

ततः स पशुमुत्सृज्य देवयानेन जग्मिवान् ।
तत्रानुवंशो रुद्रस्यतं निबोध युधिष्ठिर ॥ ३.११५.११ ॥

そして彼は獣を放し、神々の道を通って去った。そこにルドラの系譜がある。ユディシュティラよ、それを聞け。

3.115.12

अयातयामं सर्वेभ्यो भागेभ्यो भागमुत्तमम् ।
देवाः संकल्पयामासुर्भयाद्रुद्रस्य शाश्वतम् ॥ ३.११५.१२ ॥

すべての分け前のうち、最上の、腐ることのない分を、神々はルドラへの恐れから永遠に定めた。

3.115.13

इमां गाथामत्र गायन्नपः स्पृशति यो नरः ।
देवयानोऽस्य पन्थाश्च चक्षुषाऽभिप्रकाशते ॥ ३.११५.१३ ॥

ここでこの偈を歌いながら水に触れる人には、その神々の道(デーヴァヤーナ)が目の前にはっきりと現れる。

3.115.14

ततो वैतरणीं सर्वे पाण्डवा द्रौपदी तथा ।
अवतीर्य महाभागास्तर्पयांचक्रिरे पितृन् ॥ ३.११५.१४ ॥

それから、すべてのパーンダヴァとドラウパディーはヴァイタラニー川に降り、その大いなる幸運な人々は祖霊に供物を捧げた。

3.115.15

उपस्पृश्येह विधिवदस्यां नद्यां तपोबलात् ।
मानुषादस्मि विषयादपेतः पश्य लोमश ॥ ३.११५.१५ ॥

ここでこの川に規定通り水を口にふくみ、苦行の力によって私は人間の領域から離れた。見よ、ローマシャよ。

3.115.16

सर्वाल्लोँकान्प्रपश्यामि प्रसादात्तव सुव्रत ।
वैखानसानां जपतामेष शब्दो महात्मनाम् ॥ ३.११५.१६ ॥

善き誓いを守る者よ、あなたの恩寵によって私は全世界を見ている。この音は偉大なヴァイカーナサの聖者たちが唱える声である。

3.115.17

त्रिशतं वै सहस्राणि योजनानां युधिष्ठिर ।
यत्रध्वनिं शृणोष्येनं तूष्णीमास्स्व विशांपते ॥ ३.११५.१७ ॥

ユディシュティラよ、三十万ヨージャナの彼方からこの響きを聞いているのだ。人の王よ、静かに坐せ。

3.115.18

एतत्स्वयंभुवो राजन्वनं दिव्यं प्रकाशते ।
यत्रायजत राजेन्द्र विश्वकर्मा प्रतापवान् ॥ ३.११५.१८ ॥

王よ、これは自存者(スヴァヨンブー)の神聖な森が輝くところ。ここで猛き神工ヴィシュヴァカルマンが祭祀を行ったのだ、王の中の王よ。

3.115.19

यस्मिन्यज्ञे हि भूर्दत्ता कश्यपाय महात्मने ।
सपर्वतवनोद्देशा दक्षिणार्थे स्वयंभुवा ॥ ३.११५.१९ ॥

その供犠で自存者は、山と森を含む大地を、大いなるカシャパへの布施として与えた。

3.115.20

अवासीदच्च कौन्तेय दत्तमात्रा मही तदा ।
उवाच चापि कुपिता लोकश्वरमिदं प्रभुम् ॥ ३.११५.२० ॥

クンティーの子よ、与えられるや否や大地は沈み始めた。彼女は怒って、この世界の主にこう言った。

3.115.21

न मां मर्त्याय भगवन्कस्मैचिद्दातुमर्हसि ।
प्रदानं मोघमेतत्ते यास्याम्येषा रसातलम् ॥ ३.११५.२१ ॥

尊き主よ、あなたは私をいかなる死すべき者にも与えてはならない。あなたのこの布施は無益である。私は奈落へ下るであろう。

3.115.22

विषीदन्तीं तु तां दृष्ट्वा कश्यपो भगवानृषिः ।
प्रसादयांबभूवाथ ततो भूमिं विशांपते ॥ ३.११५.२२ ॥

民の主よ、絶望に沈む彼女を見て、尊き聖仙カシャパは大地を宥めた。

3.115.23

ततः प्रसन्ना पृथिवी तपसा तस्य पाण्डव ।
पुनरुन्नह्य सलिलाद्देदीरूपास्थिता बभौ ॥ ३.११५.२३ ॥

パーンドゥの子よ、そのとき彼の苦行に喜んだ大地は再び水から浮かび上がり、祭壇の形で立って輝いた。

3.115.24

सैषा प्रकाशते राजन्वेदीसंस्थानलक्षणा ।
आरुह्यात्र महाराज वीर्यवान्वै भविष्यसि ॥ ३.११५.२४ ॥

王よ、祭壇の相をしたこの大地がここに輝いている。大王よ、ここに登れば、あなたはきっと力強くなるだろう。

3.115.25

सैषा सागरमास्राद्य राजन्वेदी समाश्रिता ।
एतामारुह्य भद्रं ते त्वमेकस्तर सागरम् ॥ ३.११५.२५ ॥

王よ、海に至ると、この祭壇がそこにある。これに登れ、汝に幸あれ。汝ひとりで速やかに海を渡れ。

3.115.26

अहं च ते स्वस्त्ययनं प्रयोक्ष्ये ।
यथा त्वमेनामधिरोहसेऽद्य।
स्पृष्टा हि मर्त्येन ततः समुद्र-
मेषा वेदी प्रविशत्याजमीढ ॥ ३.११५.२६ ॥

私は汝のために吉祥の儀式を行おう。汝が今日これに登れるように。この祭壇は人間に触れられると大海へと入るのだ、アジャミーダよ。

3.115.27

ओंनमो विश्वगुप्ताय नमो विश्वपराय ते ।
सान्निध्यं कुरु देवेश सागरे लवणाम्भसि ॥ ३.११५.२७ ॥

オーム、万物の守護者に礼拝。万物の至高者に礼拝。神々の主よ、塩水の海にそなたの臨在を現したまえ。

3.115.28

अग्निर्मित्रो योनिरापोऽथ देव्यो ।
विष्णो रेतस्त्वममृतस्य नाभिः।
एवं ब्रुवन्पाण्डव सत्यवाक्यं ।
वेदीमिमां त्वं तरसाऽधिरोह ॥ ३.११५.२८ ॥

火、ミトラ、胎、水、そして女神たち——汝はヴィシュヌの精液であり、不死の臍である。パーンドゥの子よ、この真実の言葉を語って、この祭壇に登れ。

3.115.29

अग्निश्च ते योनिरिडा च देहो ।
रेतोधा विष्णोरमृतस्य नाभिः।
एवं ब्रुवन्पाण्डव सत्यवाक्यं ।
ततोऽवगाहेत पतिं नदीनाम् ॥ ३.११५.२९ ॥

火は汝の胎、イダーは汝の身体である。汝はヴィシュヌの精を担う者、不死の臍である。パーンドゥの子よ、この真実の言葉を語り、それから河の主なる海に沐浴せよ。

3.115.30

अन्यथा हि कुरुश्रेष्ठ देवयोनिरपांपतिः ।
कुशाग्रेणापि कौन्तेय न स्प्रष्टव्यो महोदधिः ॥ ३.११५.३० ॥

さもなくば、クルの最勝者よ、この大海は神の起源にして水の主であり、クンティーの子よ、吉祥草の先端ですら触れてはならぬ。

3.115.31

ततः कृतस्वस्त्ययनो महात्मा ।
युधिष्ठिरः सागरमभ्यगच्छत्।
कृत्वा च तच्छासनमस्य सर्वं ।
महेन्द्रमासाद्य निशामुवास ॥ ३.११५.३१ ॥

その後、マハートマー・ユディシュティラは吉祥の儀式を終え、海へと向かった。その命令をすべて果たし、マヘーンドラ山に着いて一夜を過ごした。