Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.116

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.116.1

स तत्र तामुषित्वैकां रजनीं पृथिवीपतिः ।
तापसानां परं चक्रे सत्कारं भ्रातृभिः सह ॥ ३.११६.१ ॥

国王在那里住了一夜,与诸弟一起,对苦行者给予了最高的敬礼。

3.116.2

लोमशस्तस्य तान्सर्वानाचख्यौ तत्र तापसान् ।
भृगूनङ्गिरसश्चैव वसिष्ठानथ काश्यपान् ॥ ३.११६.२ ॥

罗摩舍为他指出那里的所有苦行者,并说出婆利古、安吉罗娑、婆悉吒及迦叶波的名号。

3.116.3

तान्समेत्य सा राजर्षिरभिवाद्य कृताञ्जलिः ।
रामस्यानुचरं वीरमपृच्छदकृतव्रणम् ॥ ३.११६.३ ॥

国王圣仙走近他们,合掌行礼,然后问罗摩那位英勇的侍者无伤(阿克利塔伏兰那)。

3.116.4

कदा नु रामो भगवांस्तापसो दर्शयिष्यति ।
तमहं तपसा युक्तं द्रष्टुमिच्छामि भार्गवम् ॥ ३.११६.४ ॥

尊贵的罗摩这位苦行者何时会显现?我想见到那位具足苦行的婆利古后裔。

3.116.5

आयानेवासि विदितो रामस्य विदितात्मनः ।
प्रीतिस्त्वयि च रामस्य क्षिप्रं त्वां दर्शयिष्यति ॥ ३.११६.५ ॥

你一来,自制的罗摩便已知道你了。罗摩对你有爱意,他很快便会显现给你。

3.116.6

चतुर्दशीमष्टमीं च रामं पश्यन्ति तापसाः ।
अस्यां रात्र्यां व्यतीतायां भवित्री श्वश्चतुर्दशी ॥ ३.११६.६ ॥

苦行者在十四日与八日见到罗摩。此夜过去后,明天便是十四日。

3.116.7

ततो द्रक्ष्यसि रामं त्वं कृष्णाजिनजटाधरम् ।
भवाननुगतो रामं जामदग्न्यं महाबलम्।
प्रत्यक्षदर्शी सर्वस्य पूर्ववृत्तस्य कर्मणः ॥ ३.११६.७ ॥

那时你将见到身披黑羚羊皮、头戴发髻的罗摩。你曾追随大力的世系之子耶摩达格尼之子罗摩,是此前一切事迹的亲眼见证者。

3.116.8

स भवान्कथयत्वद्य यथा रामेण निर्जिताः ।
आहवे क्षत्रियाः सर्वे कथं केन च हेतुना ॥ ३.११६.८ ॥

那么请您现在说明:罗摩在战场上如何、因何原因击败了所有刹帝利?

3.116.9

हन्त ते कथयिष्यामि महदाख्यानमुत्तमम् ।
भृगूणां राजशार्दूल वंशे जातस्य भारत ॥ ३.११६.९ ॥

好吧,我要为你讲述一个伟大而殊胜的故事,王中猛虎,婆罗多后裔,关于一位出生于婆里古族的人。

3.116.10

रामस्य जामदग्न्यस्य चरितं देवसंमितम् ।
हैहयाधिपतेश्चैव कार्तवीर्यस् भारत ॥ ३.११६.१० ॥

耶摩达格尼之子罗摩如天神般的事迹,以及海哈雅之主憍陀维利耶的事迹,婆罗多啊。

3.116.11

रामेण चार्जुनो नाम हैहयाधिपतिर्हतिः ।
तस्य बाहुशतान्यासंस्त्रीणि सप्त च पाण्डव ॥ ३.११६.११ ॥

罗摩杀死了名为阿周那的海哈雅之主。般度之子啊,他有百臂,即三百又七。

3.116.12

दत्तात्रेयप्रसादेन विमानं काञ्चनं तथा ।
ऐश्वर्यं सर्वभूतेषु पृथिव्यां पृथिवीपते ॥ ३.११६.१२ ॥

凭借达塔特雷亚的恩典,他获得了金色的飞车,以及对大地上一切众生的统治权,大地之主啊。

3.116.13

अव्घाहतगतिश्चैव रथस्तस्य महात्मनः ।
रथेन तेन तु सदावरदानेन वीर्यवान् ॥ ३.११६.१३ ॥

他的战车行进无阻;这位大德之人凭借那辆因恩赐而常得之车,变得威力强大。

3.116.14

ममर्द देवान्यक्षांश्च ऋषींश्चैव समन्ततः ।
भूतांश्चैव स सर्वांस्तु पीडयामास सर्वतः ॥ ३.११६.१४ ॥

他从四面压制诸神、夜叉与仙人,并到处折磨一切众生。

3.116.15

ततो देवाः समेत्याहुर्ऋषयश्च महाव्रताः ।
देवदेवं सुरारिघ्नं विष्णुं सत्यपराक्रमम्।
भगवन्भूतरार्थमर्जुनं जहि वै प्रभो ॥ ३.११६.१५ ॥

于是诸天与持大誓的仙人聚集起来,对毗湿奴说:神中之神、诸天之敌的摧灭者、真正勇猛的毗湿奴啊,尊贵的主啊,众生的守护者,请杀死阿周那吧。

3.116.16

विमानेन च दिव्येन हैहयाधिपतिः प्रभुः ।
शचीसहायं क्रीडन्तं धर्षयामास वासवम् ॥ ३.११६.१६ ॥

海诃耶之主乘天界飞车,攻击正与舍ची嬉戏的婆娑(因陀罗)。

3.116.17

ततस्तु भगवान्देवः शक्रेण सहितस्तदा ।
कार्तवीर्यविनाशार्थं मन्त्रयामास भारत ॥ ३.११६.१७ ॥

于是这位尊贵的神与帝释(因陀罗)一起,为消灭迦尔塔毗利耶而商议,婆罗多啊。

3.116.18

यत्तद्भूतहितं कार्यं सुरेन्द्रेण निवेदितम् ।
संप्रतिश्रुत्य तत्सर्वं भगवाँल्लोकपूजितः।
जगाम बदरीं रम्यां स्वमेवाश्रममण्डलम् ॥ ३.११६.१८ ॥

众神之主陈述了有益于众生的那件事,受世界尊崇的尊神全都应允,便前往可爱的菩提树地(巴达利),回到自己的修行林苑。

3.116.19

एतस्मिन्नेव काले तु पृथिव्यां पृथिवीपतिः ।
कान्यकुब्जे महानासीत्पार्थिवः सुमहाबलः।
गाधीति विश्रुतो लोके वनवासं जगाम ह ॥ ३.११६.१९ ॥

就在那时,大地之上,在羯若鞠阇有一位伟大而极其强大的国王,世间称他为伽提;他前往森林去居住。

3.116.20

वने तु तस्य वसतः कन्या जज्ञेऽप्सरःसमा ।
ऋचीको भार्गवस्तां च वरयामास भारत ॥ ३.११६.२० ॥

他居住在森林中时,生下一女,美如天女;婆罗多啊,婆利古后裔的力奇迦向她求婚。

3.116.21

तमुवाच ततो गाधिर्ब्राह्मणं संशितव्रतम् ।
उचितं नः कुले किंचित्पूर्वैर्यत्संप्रवर्तितम् ॥ ३.११६.२१ ॥

于是伽提对那位持守严格誓愿的婆罗门说:“我们家族中有一项由先人所立的恰当规矩。”

3.116.22

एकतः श्यामकर्णानां पाण्डुराणां तरस्विनाम् ।
सहस्रं वाजिनां शुक्लमिति विद्धि द्विजोत्तम ॥ ३.११६.२२ ॥

“二生者中最优秀的,你要知道:一边有一千匹白马,耳朵黑色,毛色浅白,且迅捷。”

3.116.23

न चापि भगवान्वाच्योदीयतामिति भार्गव ।
देया मे दुहिता चैव त्वद्विधाय महात्मने ॥ ३.११६.२३ ॥

“尊者,不要说“把她给出去”。婆利古之子啊,我的女儿应当许配给像您这样的大德之人。”

3.116.24

एकतः श्यामकर्णानां पाण्डुराणां तरस्विनाम् ।
दास्याम्यश्वसहस्रं ते मम भार्या सुताऽस्तु ते ॥ ३.११६.२४ ॥

“一边我将给你一千匹耳朵黑色、毛色浅白而迅捷的马;愿我的妻子成为你的女儿。”

3.116.25

ददास्यश्वसहस्रं मे तव भार्या सुताऽस्तु मे ॥ ३.११६.२५ ॥

我将给你一千匹马;让你的妻子成为我的女儿。

3.116.26

स तथेति प्रतिज्ञाय राजन्वरुणमब्रवीत् ।
एकतः श्यामकर्णानां पाण्डुराणां तरस्विनाम्।
सहस्रं वाजिनामेकं शुल्कार्थं प्रतिदीयताम् ॥ ३.११६.२६ ॥

国王啊,他答应说「就这样吧」,并对伐楼那说:请从那些黑耳、白色而迅捷的马中,一侧给出一千匹作为聘礼。

3.116.27

तस्मै प्रादात्सहस्रं वै वाजिनां वरुणस्तदा ।
तदश्वतीर्थं विख्यातमुत्थिता यत्र ते हयाः ॥ ३.११६.२७ ॥

于是伐楼那确实给了他一千匹马;那些马出现的地方,因此闻名为「马渡」。

3.116.28

गङ्गायां कान्यकुब्जे वै ददौ सत्यवतीं तदा ।
ततो गाधिः सुतां चास्मै जन्याश्चासन्सुरास्तदा ॥ ३.११६.२८ ॥

在恒河边的羯若鞠阇,那时他把萨提亚瓦蒂给了他;随后伽地也把女儿给了他,诸天成了迎亲的随从。

3.116.29

लब्धं हयसहस्रं तु तां च दृष्ट्वा दिवौकसः ।
विस्मयं परमं जग्मुस्तमेव दिवि संस्तुवन् ॥ ३.११६.२९ ॥

天界的居民见到得到的一千匹马和她,无不大为惊异,并在天上赞颂他。

3.116.30

धर्मेण लब्ध्वा तां भार्यामृचीको द्विजसत्तमः ।
यथाकामं यथाजोषं तया रेमे सुमध्यया ॥ ३.११६.३० ॥

RCIKA(略)

3.116.31

तं विवाहे कृतेराजन्सभार्यमवलोककः ।
आजगाम भृगुश्रेष्ठः पुत्रं दृष्ट्वा ननन्द च ॥ ३.११६.३१ ॥

大王,婚礼既成,婆利固族的最上者偕妻来到此地;见到儿子,他欢喜不已。

3.116.32

भार्यापती तमासीनं भृगुं सुरगणार्चितम् ।
अर्चित्वा पर्युपासीनौ प्राञ्जली तस्थतुस्तदा ॥ ३.११६.३२ ॥

二人见婆利固仙人端坐,为众天神所敬,便供奉礼拜,合掌站立。

3.116.33

ततः स्नुषां स भगवान्प्रहृष्टो भृगुरब्रवीत् ।
वरं वृणीष्व सुभगे दाता ह्यस्मि तवेप्सितम् ॥ ३.११६.३३ ॥

于是尊贵的婆利固欢喜地对儿媳说:“吉祥的人啊,请选一个恩惠吧;你所愿之物,我便赐予你。”

3.116.34

सा वै प्रसादयाभास तं गुरुं पुत्रकारणात् ।
आत्मनश्चैव मातुश्च प्रसादं च चकार सः ॥ ३.११६.३४ ॥

她为求子,取悦了那位尊长;他也对她自己和她的母亲施以恩典。

3.116.35

ऋतौ त्वं चैव माता च स्नाते पुंसवनाय वै ।
आलिङ्गेतां पृथग्वृक्षौ साऽस्वत्थं त्वमुदुम्बरम् ॥ ३.११६.३५ ॥

在你受孕的时节,于沐浴后为行男胎之礼,你与你的母亲各自拥抱一棵树:她抱菩提无花果树,你抱乌曇跋罗树。

3.116.36

चरुद्वयमिदं भद्रे जनन्याश्च तवैव च ।
विश्वमावर्तयित्वा तु मया यत्नेन साधितम् ॥ ३.११६.३६ ॥

吉祥的人啊,这是两份粥(炊饭):一份给你的母亲,一份给你;我把一切搅拌均匀,细心地煮成了。

3.116.37

प्राशितव्यं प्रयत्नेन तेत्युक्त्वाऽदर्शनं गतः ।
आलिङ्गने चरौ चैव चक्रतुस्ते विपर्ययम् ॥ ३.११६.३७ ॥

他说:"此物应当小心食用。"说完便消失不见了。在拥抱中以及两份羹饭中,她二人做了互换。

3.116.38

ततः पुन स भगवान्काले बहुतिथे गते ।
दिव्यज्ञानाद्विदित्वा तु भगवानागतः पुनः ॥ ३.११६.३८ ॥

此后经过许多时日,那位尊者以天眼通知晓此事,又来了。

3.116.39

अथोवाच महातेजा भृगुः सत्यवतीं श्नुषाम् ॥ ३.११६.३९ ॥

于是大光明的婆利古对儿媳萨蒂亚瓦蒂说道。

3.116.40

उपयुक्तश्चरुर्भद्रे वृक्षे चालिङ्गनं कृतम् ।
विपरीतेन ते सुभ्रूर्मात्रा चैवासि वञ्चिता ॥ ३.११६.४० ॥

善良的女子啊,羹饭已经吃了,拥抱也在树旁完成了。美眉的女子啊,因为颠倒,你和你的母亲都被欺骗了。

3.116.41

क्षत्रियो ब्राह्मणाचारो मातुस्तव सुतो महान् ।
भविष्यति महावीर्यः साधूनां मार्गमास्थितः ॥ ३.११६.४१ ॥

你母亲的儿子虽为刹帝利,却将具有婆罗门的行为;他将伟大,有大勇力,并遵循善人的道路。

3.116.42

ततः प्रसादयामास श्वशुरं सा पुनःपुनः ।
न मे पुत्रो भवेदीदृक्कामं पौत्रो भवेदिति ॥ ३.११६.४२ ॥

于是她一再向公公求情:"愿我的儿子不要如此;若您愿意,就让孙子如此吧。"

3.116.43

एवमस्त्विति सा तेन पाण्डव प्रतिनन्दिता ।
क्रालं प्रतीक्षती गर्भं धारयामास यत्नतः ॥ ३.११६.४३ ॥

“就这样吧。”她因他的应允而欢喜,般度之子啊,她等待适当的时机,小心地怀着胎儿。

3.116.44

जमदग्निं ततः पुत्रं जज्ञे सा काल आगते ।
तेजसा वर्चसा चैव युक्तं भार्गवनन्दनम् ॥ ३.११६.४४ ॥

随后,时候到了,她生下一子名叫遮摩陀尼,具足光辉与威仪,是婆利古家族的喜悦。

3.116.45

स वर्धमानस्तेजस्वी वेदस्याध्ययनेन च ।
बहूनृषीन्महातेजाः पाण्डवेयात्यवर्तत ॥ ३.११६.४५ ॥

他因学习吠陀而成长,光辉灿烂,般度之子啊,他以大光辉超越了众多仙人。

3.116.46

तं तु कृत्स्नो धनुर्वेदः प्रत्यभाद्भरतर्षभ ।
चतुर्विधानि चास्त्राणि भास्करोपमवर्चसम् ॥ ३.११६.४६ ॥

婆罗多族的雄牛啊,整部弓术之学向他显现,四类兵器也向这位光辉如日的人显现。