摩诃婆罗多 · 章 3.117
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.117.1
स वेदाध्ययने युक्तो जमदग्निर्महातपाः ।
तपस्तेपे ततो देवान्नियमाद्वशमानयत् ॥ ३.११७.१ ॥
专心研习吠陀的大苦行者遮摩达格尼修行苦行,随后以持戒之力使诸神臣服于他。
3.117.2
स प्रसेनजितं राजन्नधिगम्य नराधिपम् ।
रेणुकां वरयामास स च तस्मै ददौ नृपः ॥ ३.११७.२ ॥
大王啊,他前往人主波罗森纳吉特处,求娶雷奴伽;国王便将她许配给了他。
3.117.3
रेणुकां त्वथ संप्राप्य भार्यां भार्गवनन्दनः ।
आश्रमस्थस्तया सार्धं तपस्तेपेऽनुकूलया ॥ ३.११७.३ ॥
波利古之子得到雷奴伽为妻,住在修行林中,与这位顺心的妻子一同修苦行。
3.117.4
तस्याः कुमाराश्चत्वारो जज्ञिरे रामपञ्चमाः ।
सर्वेषामजघन्यस्तु राम आसीञ्जघन्यजः ॥ ३.११७.४ ॥
她生下四个儿子,罗摩为第五个;在所有儿子中,罗摩是最小的。
3.117.5
फलाहारेषु सर्वेषु गतेष्वथ सुतेषु वै ।
रेणुका स्नातुमगमत्कदाचिन्नियतव्रता ॥ ३.११७.५ ॥
众子都去采果食时,持戒坚定的雷奴伽有一次去沐浴。
3.117.6
सा तु चित्ररथं नाम मार्तिकावतकं नृपम् ।
ददर्श रेणुका राजन्नागच्छन्ती यदृच्छया ॥ ३.११७.६ ॥
大王啊,雷奴伽正返回途中,偶然看见了摩提迦伐塔之王名叫旃陀罗罗陀的国王。
3.117.7
क्रीडन्तं सलिले दृष्ट्वा सभार्यं पद्ममालिनम् ।
ऋद्धिमन्तं ततस्तस्य स्पृहयामास रेणुका ॥ ३.११७.७ ॥
雷努卡看见他与妻子在水中嬉戏,佩戴莲花花环,富足兴盛,便对他生出渴慕。
3.117.8
व्यभिचाराच्च तस्मात्सा क्लिन्नाम्भसि विचेतना ।
अन्तरिक्षान्निपतिता नर्मदायां महाह्रदे ॥ ३.११७.८ ॥
因那淫邪之念,她在湿水中失去知觉,从天空坠入纳尔默达的大湖之中。
3.117.9
उतीर्य चापि सा यत्नाज्जगाम भरतर्षभ ।
प्रविवेशाश्रमं त्रस्ता तां वै भर्तान्वबुध्यत ॥ ३.११७.९ ॥
婆罗多族的雄牛啊,她费力地爬出水面,惊恐地走进隐修所,她的丈夫察觉了她。
3.117.10
स तां दृष्ट्वाच्युतांधैर्याद्ब्राह्म्या लक्ष्म्या विवर्जिताम् ।
श्रिक्शब्देन महातेजा गर्हयामास वीर्यवान् ॥ ३.११७.१० ॥
他见她失去定力、缺少婆罗门的光辉,这位大光明而有力者便以“Śrik”一词斥责她。
3.117.11
ततो ज्येष्ठो जामदग्न्यो रुमण्वान्नाम नामतः ।
आजगाम सुषेणश्च वसुर्विश्वावसुस्तथा ॥ ३.११७.११ ॥
随后,耶摩达格尼的长子名为鲁曼文,苏舍那、婆苏与毗湿婆婆苏也来了。
3.117.12
तानानुपूर्व्याद्भगवान्वधे मातुरचोदयत् ।
न च ते जातसंमोहाः किंचिदूचुर्विचेतसः ॥ ३.११७.१२ ॥
尊者依次催促他们杀死母亲,但他们因迷惑而心乱,什么也没说。
3.117.13
ततः शशाप तान्क्रोधात्ते शप्ताश्चैतनां जहुः ।
मृगपक्षिसधर्माणः क्षिप्रमासञ्जडोपमाः ॥ ३.११७.१३ ॥
于是他愤怒地诅咒他们;被诅咒后,他们失去了知觉,很快变得如鹿和鸟一般的本性,如同无知觉的土块。
3.117.14
ततो रामोऽभ्ययात्पश्चादाश्रमं परवीरहा ।
तमुवाच महामन्युर्जमदग्निर्महातपाः ॥ ३.११७.१४ ॥
随后,屠戮敌方英雄的罗摩来到了修行处;大怒而大苦行的遮摩达格尼对他说道。
3.117.15
जहीमां मातरं पापां मा च पुत्र व्यथां कृथाः ।
तत आदाय परशुं रामो मातु शिरोऽहरत् ॥ ३.११७.१५ ॥
“儿啊,杀掉这个罪孽的母亲,不要悲伤。”于是罗摩拿起斧头,砍下了母亲的头。
3.117.16
ततस्तस्य महाराज जमदग्नेर्महात्मनः ।
कोपोऽभ्यगच्छत्सहसा प्रसन्नश्चाब्रवीदिदम् ॥ ३.११७.१६ ॥
大王啊,那位大德的遮摩达格尼突然生起怒气;但随后他欣然说出了这些话。
3.117.17
ममेदं वचनात्तात कृतं ते कर्म दुष्करम् ।
वृणीष्व कामान्धर्मज्ञ यावतो वाञ्छसे हृदा ॥ ३.११७.१७ ॥
“依我的话,亲爱的儿子,你做了这件难事。精通法度的人啊,你心中所想,尽管选择吧。”
3.117.18
स वव्रे मातुरुत्थानमस्मृतिं च वधस्य वै ।
पापेन तेन चास्पर्शं भ्रातॄणां प्रकृतिं तथा ॥ ३.११७.१८ ॥
他请求让母亲复活,让杀戮之事被遗忘,免于那罪孽的沾染,并使兄弟们恢复原来的状态。
3.117.19
अप्रतिद्वन्द्वतां युद्धे दीर्घमायुश्च भारत ।
ददौ च सर्वान्कामांस्ताञ्जमदग्निर्महातपाः ॥ ३.११७.१९ ॥
婆罗多之子啊,他在战斗中赐予他无人能敌的力量与长寿,大苦行者嚈摩陀尼也赐予他一切所愿。
3.117.20
कदाचित्तु तथैवास्य विनिष्क्रान्ताः सुताः प्रभो ।
अथानूपपतिर्वीरः कार्तवीर्योऽभ्यवर्तत ॥ ३.११७.२० ॥
主啊,有一次他的儿子们也像那样出去了,于是阿努波的主人、英雄迦尔塔维尔亚来到了那里。
3.117.21
तमाश्रमपदं प्राप्तमृषिरर्ध्यात्समार्चयत् ।
स युद्धमदसंमत्तो नाभ्यनन्दत्तथाऽर्चनम् ॥ ३.११७.२१ ॥
他来到苦行林,仙人以敬献之礼好好款待他;但他因战斗的傲慢而昏醉,并不欣赏这种供奉。
3.117.22
प्रमथ्य चाश्रमात्तस्माद्धोमधेनोस्ततोबलात् ।
जहार वत्सं क्रोशन्त्या बभञ्ज च महाद्रुमान् ॥ ३.११७.२२ ॥
他从那苦行林中强行夺走祭祀用的神牛,又在她哀鸣时带走了她的小牛,并且折断了巨大的树木。
3.117.23
आगताय च रामाय तदाचष्ट पिता स्वयम् ।
गां च रोरुदतीं दृष्ट्वा कोपो रामं समाविशत्।
स मन्युवशमापन्नः कार्तवीर्यमुपाद्रवत् ॥ ३.११७.२३ ॥
父亲亲自把所发生的一切告诉了归来的罗摩;罗摩看见牛在哭泣,愤怒便进入了他的心中。他被愤怒所控,扑向迦尔塔维尔亚。
3.117.24
तस्याथ युधि विक्रम्य भार्गवः परवीरहा ।
चिच्छेद निशितैर्भल्लैर्बाहून्परिघसंनिभान् ॥ ३.११७.२४ ॥
于是灭敌英雄的婆利古之子在战斗中勇猛进攻,用锋利的婆罗箭斩断了他那如铁杵般的手臂。
3.117.25
सहस्रसंमितान्राजन्प्रगृह्य रुचिरं धनुः ।
अभिभूतः स रामेण संयुक्तः कालधर्मणा ॥ ३.११७.२५ ॥
大王啊,他执起那张配有千支箭的美丽弓,却被罗摩击败,落入时间的法则之中。
3.117.26
अर्जुनस्याथ दायादा रामेण कृतमन्यवः ।
आश्रमस्थं विना रामं जमदग्निमुपाद्रवन् ॥ ३.११७.२६ ॥
于是阿周那的后裔们怀着对罗摩的愤怒,撇开罗摩,袭击了住在修行处的杰玛达格尼。
3.117.27
ते तं जघ्नुर्महावीर्यमयुध्यन्तं तपस्विनम् ।
असकृद्रामरामेति विक्रोशन्तमनाथवत् ॥ ३.११७.२७ ॥
他们杀害了那位大力的苦行者,他并不交战,只是像无依无靠之人一样一再呼喊“罗摩,罗摩”。
3.117.28
कार्तवीर्यस्य पुत्रास्तु जमदग्निं युधिष्ठिर ।
घातयित्वा शरैर्जग्मुर्यथागतमरिंदमाः ॥ ३.११७.२८ ॥
坚战啊,迦尔塔维利耶的诸子以箭杀死了杰玛达格尼,然后像来时一样离去,那些征服敌人的人。
3.117.29
अपक्रान्तेषु वै तेषु जमदग्नौ तथा गते ।
समित्पाणिरुपागच्छदाश्रमं भृगुनन्दनः ॥ ३.११७.२९ ॥
他们离去、杰玛达格尼如此死去之后,婆利古之子手持祭薪来到了修行处。
3.117.30
स दृष्ट्वा पितरं वीरस्तदा मृत्युवशं गतम् ।
अनर्हं तं तथाभूतं विललाप सुदुःखितः ॥ ३.११७.३० ॥
那位英雄见父亲已落入死神之手,而父亲本不该陷入此境,便极度悲痛地哀号起来。