Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.119

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.119.1

गच्छन्स तीर्थानि महानुभावः ।
पुण्यानि रम्याणि ददर्श राजा।
सर्वाणि वैप्रैरुपशोभितानि ।
क्वचित्क्वचिद्भारत सागरम्य ॥ ३.११९.१ ॥

大力的国王在行进中,看见了神圣而可爱的圣渡口,它们都装饰着婆罗门;婆罗多啊,它们有的就在海边。

3.119.2

स वृत्तवांस्तेषु कृताभिषेकः ।
सहानुजः पार्थिवपुत्रपौत्रः।
समुद्रगां पुण्यतमां प्रशस्तां ।
जगाम पारिक्षित पाण्डुपुत्रः ॥ ३.११९.२ ॥

他在那里沐浴之后,帕里克希特的后裔、般度之子,与幼弟、王子和孙子们一同前往那最神圣、最受赞誉的海边圣渡口。

3.119.3

तत्रापि चाप्लुत्य महानुभाव ।
संतर्पयामास पितृडन्सुरांश्च।
द्विजातिमुख्येषु धनं विसृज्य ।
गोदावरीं सागरगामगच्छत् ॥ ३.११९.३ ॥

他在那里也沐浴之后,使祖先和诸神得到满足;将财富布施给最优秀的再生者之后,他前往流向大海的戈达瓦里河。

3.119.4

ततो विपाप्मा द्रविडेषु राज-
न्समुद्रमासाद्य च लोकपुण्यम्।
अगस्त्यतीर्थं च महापवित्रं-
नारीतीर्थान्यथा वीरो ददर्श ॥ ३.११९.४ ॥

然后,那位无罪的英雄,大王,在德拉维荼之地抵达大海,看见了净化诸世界的阿伽斯提耶圣渡口,以及最神圣的女性圣渡口。

3.119.5

तत्रार्जुनस्याग्र्यधनुर्धरस्य ।
निशम्य तत्कर्म परैरशक्यम्।
संपूज्यमानः परमर्षिसङ्घैः ।
परां मुदं पाणअडुसुतः स लेभे ॥ ३.११९.५ ॥

在那里,他听闻了最优秀的弓箭手阿周那的那番他人无法做到的事迹,并受到众多大仙的尊敬,般度之子于是获得了无上的喜悦。

3.119.6

स तेषु तीर्थेष्वभिषिक्तगात्रः ।
कृष्णासहायः सहितोऽनुजैश्च।
संपूजयन्विक्रममर्जुनस्य ।
रमे महीपालपतिः पृथिव्याम् ॥ ३.११९.६ ॥

他在那些圣渡口沐浴净身,与黑公主及诸弟同行,赞美阿周那的勇力,大地诸王之主心中欢喜。

3.119.7

ततः सहस्राणि गवां प्रदाय ।
तीर्थेषु तेष्वम्बुधरोत्तमस्य।
हृष्टः सह भ्रातृभिरर्जुनस्य ।
संकीर्तयामास गवां प्रदानम् ॥ ३.११९.७ ॥

随后,他在那些圣渡口、大海的那处胜地布施了数千头牛,欢喜地与诸弟一同宣扬阿周那的布施牛之功。

3.119.8

स तानि तीर्थानि च सागरस्य ।
पुण्यानि चान्यानि बहूनि राजन्।
क्रमेण गच्छन्परिपूर्णकामः ।
शूर्पारकं पुण्यतमं ददर्श ॥ ३.११९.८ ॥

大王啊,他依次经过那些圣渡口及大海的许多其他圣地,心愿圆满,见到了最为神圣的舍尔帕拉卡。

3.119.9

तत्रोदधेः कंचिदतीत्य देशं ।
ख्यातं पृथिव्यां वनमाससाद।
तप्तं सुरैरत्र तपः पुरस्ता-
दिष्टुं कतथा पुण्यपरैर्नरेन्द्रैः ॥ ३.११९.९ ॥

他越过海洋的某处,抵达大地上著名的一片森林;那里从前诸神曾修苦行,重功德的诸王也因欲行祭祀而修苦行。

3.119.10

स तत्र तामग्र्यधनुर्धरस्य ।
वेदीं ददर्शायतपीनबाहुः।
ऋचीकपुत्रस्य तपस्विसङ्घैः ।
समावृतां पुण्यकृदर्चनीयाम् ॥ ३.११९.१० ॥

他在那里见到了利奇迦之子的那座祭坛。他双臂修长而强健,是最优秀的射手。那祭坛被苦行者的群体环绕,为行善积德之人所敬仰。

3.119.11

ततो वसूनां वसुधाधिपः स ।
मरुद्गणानां च तथाश्विनोश्च।
वैवस्वतादित्यधनेश्वराणा-
मिन्द्रस्य विष्णोः सवितुर्विभोश्च ॥ ३.११९.११ ॥

于是那位大地之主(礼敬)诸婆苏、摩如多众、双阿输瓦,毗婆斯瓦特、阿底提耶们与财神,以及因陀罗、毗湿奴、萨维特里与那位遍在的主。

3.119.12

भगस्य चन्द्रस्य दिवाकरस्य ।
पतेरपां साध्यगणस्य चैव।
धातुः पितॄणां च तथा महात्मा ।
रुद्रस्य राजन्सगणस्य चैव ॥ ३.११९.१२ ॥

(礼敬)婆伽、月神、日神迪婆迦罗、水主、萨adhya众、达陀、祖灵,以及大心的楼陀罗及其眷属,大王啊。

3.119.13

सरस्वत्याः सिद्धगणस्य चैव ।
पूष्णश्च ये चाप्यमरास्तथाऽन्ये।
पुण्यानि चाप्यायतनानि तेषां ।
ददर्श राजा सुमनोहराणि ॥ ३.११९.१३ ॥

国王看见了萨罗室伐蒂、悉陀众、普善以及其他不死者那些圣洁而极为可爱的神殿。

3.119.14

तेषूपवासान्विबुधानुपोष्य ।
दुत्त्वा च रत्नानि महान्ति राजा।
तीर्थेषु सर्वेषु परिप्लुताङ्गः ।
पुनः स शूर्पारकमाजगाम ॥ ३.११९.१४ ॥

国王在那里为诸天斋戒,施舍大宝,在一切圣渡处全身沐浴,然后再次回到了舒尔帕拉卡。

3.119.15

स तेन तीरेण तु सागरस्य ।
पुनः प्रयातः सह सोदरीयैः।
द्विजैः पृथिव्यां प्रथितं महद्भि-
स्तीर्थं प्रभासं समुपाजगाम ॥ ३.११९.१५ ॥

他与兄弟们再次沿着大海的那片岸边前行,来到了大圣渡处婆罗婆萨,此地在世间为再生者们所传扬。

3.119.16

तत्राभिषिक्तः पृथुलोहिताक्षः ।
सहानुजैर्देवगणान्पितॄंश्च।
संतर्पयामास तथैव कृष्णा ।
ते चापि विप्राः सह लोमशेन ॥ ३.११९.१६ ॥

在那里,受过灌顶的那位宽大赤眼者,与弟弟们一起向众神与祖先献上祭水;黑公主也同样如此。那些婆罗门也与罗摩沙同在。

3.119.17

कस द्वादशाहं जलवायुभक्षः ।
कुर्वन्क्षपाहःसु तदाऽभिषेकम्।
समन्ततोऽग्नीनुपदीपयित्वा ।
तेपे तपो धर्मभृतांवरिष्ठः ॥ ३.११९.१७ ॥

十二天中,只以水和风为食,昼夜沐浴,四周燃起火堆,持法者中最优秀的他修行苦行。

3.119.18

तमुग्रमास्थाय तपश्चरन्तं ।
शुश्राव रामश्च जनार्दनश्च।
तौ सर्ववृष्णिप्रवरौ ससैन्यौ ।
युधिष्ठिरं जग्मतुराजमीढम् ॥ ३.११९.१८ ॥

罗摩与遮那陀那听闻他正修行那苦烈的苦行;这两位vṛṣṇi族中最杰出者,率军前往阿阇弥荼族的国王坚战处。

3.119.19

ते वृष्णयः पाण्डुसुतान्समीक्ष्य ।
भूमौ शयानान्मलदिग्धगात्रान्।
अनर्हतीं द्रौपदीं चापि दृष्ट्वा ।
सुदुःखिताश्चुक्रुशुरार्तनादान् ॥ ३.११९.१९ ॥

那些vṛṣṇi族人看到般度之子卧于地上、身体沾满污垢,又见黑公主本不该落到这般境地,极度悲痛,发出哀号。

3.119.20

ततः स रामं च जनार्दनं च ।
कार्ष्णि च साम्बं च शिनेश्च पौत्रम्।
अन्यांश्च वृष्णीनुपगम्य पूजां ।
चक्रे यथाधर्ममहीनसत्वः ॥ ३.११९.२० ॥

于是他走向罗摩、遮那陀那、黑天之子(普拉都摩那)、三婆以及施尼之孙和其他vṛṣṇi族人,依法礼敬他们;他的精神力量并未减损。

3.119.21

ते चापि सर्वान्प्रतिपूज्य पार्थां-
स्तैः सत्कृताः पाण्डुसुतैस्तथैव।
युधिष्ठिरं संपरिवार्य राज-
न्नुपाविशन्देवगणा यथेन्द्रम् ॥ ३.११९.२१ ॥

他们也向所有普利塔之子致敬,并同样受到般度之子的尊敬,大王啊,他们围绕着坚战坐下,如诸神围绕因陀罗而坐。

3.119.22

तेषां स सर्वं चरितं परेषां ।
वने च वासं परमप्रतीतः।
अस्त्रार्थमिन्द्रस्य गतं च पार्थं ।
कृष्णे शशंसामरराजसूनुम् ॥ ३.११९.२२ ॥

他非常高兴,向克里希纳讲述了他们及其他人的全部行为、他们在森林中的居住,以及为获得武器而前往因陀罗处的帕尔塔,即众神之王之子。

3.119.23

श्रुत्वा तु ते तस्य वचः प्रतीता-
स्तांश्चापि दृष्ट्वा सुकृशनतीव।
नेत्रोद्भवं संमुमुचुर्महार्हा ।
दुःखार्तिजं वारि महानुभावाः ॥ ३.११९.२३ ॥

听到他的话,他们很高兴;看到那些极其消瘦的人,那些极受尊敬、大有威力的人便流下了因悲伤与痛苦而生的眼泪。