Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.120

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.120.1

प्रभासतीर्थमासाद्यपाण्डवा वृष्णयस्तथा ।
किमकुर्वन्कथाश्चैषां कास्तत्रासंस्तपोधन ॥ ३.१२०.१ ॥

到达普拉巴萨圣渡口后,般度五子与毗首尼族人在那里做了什么?他们谈论了什么?哦,苦行之富者?

3.120.2

ते हि सर्वे महात्मानः सर्वशास्त्रविशारदाः ।
वृष्णयः पाण्डवाश्चैव सुहृदश्चपरस्परम् ॥ ३.१२०.२ ॥

他们都是伟大的灵魂,精通一切经典;毗首尼族与般度五子彼此是朋友。

3.120.3

प्रभासतीर्थं संप्राप्य पुण्यं तीर्थं महोदधेः ।
वृष्णयः पाण्डवान्वीराः परिवार्योपतस्थिरे ॥ ३.१२०.३ ॥

到达大海边的圣渡口普拉巴萨后,英勇的毗首尼族人围绕般度五子,侍立在他们身旁。

3.120.4

ततो गोक्षीरकुन्देन्दुमृणआलरजतप्रभः ।
वनमाली हली रामो बभाषे पुष्करेक्षणम् ॥ ३.१२०.४ ॥

于是,身带犁、光泽如牛奶、茉莉、明月、莲茎与白银,戴着野花花环的罗摩对莲花眼者说道。

3.120.5

न कृष्ण धर्मश्चरितो भवाय ।
जन्तोरधर्मश्च पराभवाय।
युधिष्ठिरो यत्रजटी महात्मा ।
वनाश्रयः क्लिश्यति चीरवासाः ॥ ३.१२०.५ ॥

克里希那啊,奉行法道并不能给众生带来福祉,非法则导致败亡。在那里,长发结髻、居于森林、身着树皮衣的大灵魂坚战正在受苦。

3.120.6

दुर्योधनश्चापि महीं प्रशास्ति ।
न चास्य भूमिर्विवरं ददाति।
धर्मादधर्मश्चरितो वरीया-
नितीव मन्येत नरोऽल्पबुद्धिः ॥ ३.१२०.६ ॥

难敌也统治着大地,而大地并未为他裂开深渊。愚昧之人或许会以为,行非法胜过行法。

3.120.7

शङ्का मिथः संजनिता नराणाम् ॥ ३.१२०.७ ॥

人们之间相互产生了疑虑。

3.120.8

अयं स धर्मप्रभवो नरेन्द्रो ।
धर्मे धृतः सत्यधृतिः प्रदाता।
चलेद्धि राज्याच्च सुखाच्च पार्थो ।
धर्मादपेतस्तु कथं विवर्धेत् ॥ ३.१२०.८ ॥

这位人主生于法,安住于法,坚守真实,乐于布施。般度之子或许会失去王国与幸福,但背离法的人又怎能昌盛?

3.120.9

कथं नु भीष्मश्च कृपश्च विप्रो ।
द्रोणश्च राजा च कुलस्य वृद्धः।
प्रव्राज्य पार्थान्सुमाप्नुवन्ति ।
धिक्पापबुद्धीन्भरतप्रधानान् ॥ ३.१२०.९ ॥

毗湿摩、婆罗门克里帕、德罗纳、国王以及家族的长辈,放逐了般度之子之后,怎能得享安乐?可耻啊,你们这些心怀恶念的婆罗多首领!

3.120.10

किंनाम वक्ष्यत्यवनिप्रधानः ।
पितृडन्समागम्य परत्र पापः।
पुत्रेषु सम्यक्वरितं मयेति ।
पुत्रानपापान्व्यपरोप्य राज्यात् ॥ ३.१२०.१० ॥

地上的主君在来世见到祖先时,会说什么——“我对儿子们处理得当”吗?将无罪的儿子们逐出王国之后,那个罪人会说什么?

3.120.11

नासौ धिया संप्रति पश्यति स्म ।
किंनाम कृत्वाऽहमचक्षुरेवम्।
जातः पृथिव्यामिति पार्थिवेषु ।
प्रव्राज्यकौन्तेयमिति स्म राज्यात् ॥ ३.१२०.११ ॥

他如今不再以智慧思考——“我做了什么,竟然如此盲目地降生于大地,生为众王之中的一员?”将贡蒂之子逐出王国之后,他便这样想。

3.120.12

नूनं समृद्धान्पितृलोकभूमौ ।
चामीकराभान्क्षितिजान्प्रफुल्लान्।
विचित्रवीर्यस्य सुतः सपुत्रः ।
कृत्वा नृशंसं वत पश्यति स्म ॥ ३.१२०.१२ ॥

的确,在祖先世界的大地上,毗质多罗耶之子与他的儿子们犯下残忍之事,唉,正看着那些繁盛的、金光闪耀的、从地平线升起而盛开的(树木)。

3.120.13

व्यूढोत्तरांसान्पृथुलोहिताक्षा-
निमाम्स्म पृच्छन्स शृणोति नूनम्।
प्रास्थापयद्यत्स वनं सशङ्को ।
युधिष्ठिरं सानुजमात्तशस्त्रम् ॥ ३.१२०.१३ ॥

他必定打听并聆听那些宽肩、红色大眼的人的消息;心怀恐惧,他把持武器的坚战与其弟们派往森林。

3.120.14

योऽयं परषां पृतनां समृद्धां ।
निरायुधो दीर्घभुजो निहन्यात्।
श्रुत्वैव शब्दं हि वृकोदरस्य ।
मुञ्चन्ति सैन्यानि शकृत्समूत्रम् ॥ ३.१२०.१४ ॥

这位长臂者,即使手无兵器,也能杀尽敌人强大的军队;仅闻狼腹(怖军)之声,军队便屎尿齐下。

3.120.15

स क्षुत्पिपासाध्वकृशस्तरस्वी ।
समेत्य नानायुधबाणपाणिः।
वने स्मरन्वासमिमं सुघोरं ।
शेषं न कुर्यादिति निश्चितं मे ॥ ३.१२०.१५ ॥

那位迅猛之人,因饥渴与路途而憔悴,手持各种兵器与箭矢归来,记起森林中这场极可怕的流放,必定不会放过我们的余人——这是我的确定信念。

3.120.16

न ह्यस् वीर्येण बलेन कश्चि-
त्समः पृथिव्यामपि विद्यतेऽन्यः।
स शीतवातातपकर्शिताङ्गो ।
न शेषमाजावसुहृत्सु कुर्यात् ॥ ३.१२०.१६ ॥

因为大地之上,论勇武与力量,无人能与他相比;即便身体因寒风烈日而憔悴,他在战场上也不会给敌人留下任何余地。

3.120.17

प्राच्यां नृपानेकरथेन जित्वा ।
वृकोदरः सानुचरान्रणेषु।
स्वस्त्यागमद्योऽतिरथस्तरस्वी ।
सोयं वने क्लिश्यति चीरवासाः ॥ ३.१२०.१७ ॥

他曾以一辆战车在东方击败众多国王,并与随从平安从战场归来;这位大战车武士、迅捷而强大的狼腹(Vṛkodara)如今却身穿树皮衣在林中受苦。

3.120.18

यः सिन्धुकूले व्यजयन्नृदेवा-
न्समागतान्दाक्षिणात्यान्महीपान्।
तं पश्यतेमं सहदेवमद्य ।
तरस्विनं तापसवेषरूपम् ॥ ३.१२०.१८ ॥

今日请看这位在身穿苦行者装束的强大的萨哈德瓦:他曾在信度河岸击败了集结于此的南方人中之王。

3.120.19

यः पार्थिवानेकरथेन वीरो ।
दिशं प्रतीचीं प्रत्नियुद्धशौण्डः।
जिग्ये रणे तं नकुलं वनेऽस्मि-
न्संपश्यतैनं मलदिग्धगात्रम् ॥ ३.१२०.१९ ॥

请看这片森林中的那恒心(Nakula),这位英雄以一辆战车在战场上击败了西方的诸王,精通古老的战法;他的身体沾满污垢。

3.120.20

सत्रे समृद्धेऽतिरथस्य राज्ञो ।
वेदीतलादुत्पतिता सुता या।
सेयं वने वासमिमं सुदुःखं ।
कथं सहत्यद्य सती सुखार्हा ॥ ३.१२०.२० ॥

那位在繁盛的祭祀中从大战车王(德鲁帕达)的祭坛中升起的女儿,那位贞洁、应当享受幸福的女子,今日如何忍受这森林中极其痛苦的居所呢?

3.120.21

त्रिवर्गमुख्यस् समीरणस्य ।
देवेश्वरस्याप्यथवाऽश्विनोश्च।
एषां सुराणां तनयाः कथंनु ।
वने चरन्त्यस्तसुखाः सुखार्हाः ॥ ३.१२०.२१ ॥

三重法之首的风神之子,或天神之主(因陀罗)之子,或双马童之子:这些天神的儿子,本应享受幸福,如今却失去快乐,怎么会在森林中流浪呢?

3.120.22

जिते हि धर्मस्य सुते सभार्ये ।
सभ्रातृके सानुचरे निरस्ते।
दुर्योधने चापि विवर्धमाने ।
कथं न सीदत्यवनिः सशैला ॥ ३.१२०.२२ ॥

法之子已被战败,连同妻子、兄弟与随从被驱逐,而难敌却日益昌盛——为何大地连同群山不陷落呢?