摩诃婆罗多 · 章 3.121
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.121.1
न राम कालः परिदेवनाय ।
यदुत्तरं त्वत्र तदेव सर्वे।
समाचरामो ह्यनतीतकालं ।
युधिष्ठिरो यद्यपि नाह किंचित् ॥ ३.१२१.१ ॥
啰摩啊,此时不是悲叹的时候。我们应当趁时机未失,都去做应有的回应,尽管坚战什么也没说。
3.121.2
ये नाथवन्तोऽद्य भवन्ति लोके ।
ते नात्मना कर्म समारन्ते।
तेषां तु कार्येषु भवन्ति नाथाः ।
शैब्यादयो राम यथा ययातेः ॥ ३.१२१.२ ॥
今世上有依靠之人,不会自己去做事;在他们的事务中,依靠者会代为行动,啰摩啊,正如尸毗等人为耶陀提所做的那样。
3.121.3
येषां तथा राम समारभन्ते ।
कार्याणि नाथाः स्वमतेन लोके।
रते नाथवन्तः पुरुषप्रवीरा ।
नानाथवत्कृच्छ्रमवाप्नुवन्ति ॥ ३.१२१.३ ॥
啰摩啊,对于那些依靠者如此依自己的意志在世上为之行事的人,有依靠的英雄之人不会像无依靠者那样遭受困苦。
3.121.4
कस्मादिमौ रामजनार्दनौ च ।
प्रद्युम्नसाम्बौ च मया समेतौ।
वसन्त्यरण्ये सह सोदरीयै-
स्त्रैलोक्यनाथानभिगम्य पार्थाः ॥ ३.१२१.४ ॥
为何罗摩与生主(黑天),连同普罗德雅姆那和桑巴,与我会合,却与他们的兄弟、普利塔之子同住在森林中,而不去拜见三界之主?
3.121.5
निर्यातु साध्यद्य दशार्हसेना ।
प्रभूतनानायुधचित्रवर्मा।
यमक्षयं गच्छतु धार्तराष्ट्रः ।
सबान्धवो वृष्णिबलाभिभूतः ॥ ३.१२१.५ ॥
愿今日十阿尔哈之军,携带众多的各式兵器与彩饰铠甲出发,愿持国之子与其亲族,被毗瑞尼之军击败,前往阎摩之所。
3.121.6
त्वं ह्येव कोपात्पृथिवीमपीमां ।
संवेष्टयेस्तिष्ठतु शार्ह्गधन्वा।
स धार्तराष्ट्रं जहि सानुबन्धं ।
वृत्रं यथा देवपतिर्महेन्द्रः ॥ ३.१२१.६ ॥
你怀着愤怒,甚至能够席卷这大地;让持弓者(Śārṅgadhanvan)留在一旁吧。愿他连同其随从击杀德拉塔拉什特拉之子,正如诸神之主摩诃因陀罗击杀弗栗多。
3.121.7
भ्राता च मे यः स सखा गुरुश्च ।
जनार्दनस्यात्मसमश्च पार्थः।
तदर्थमेको हि य उद्यमन्वै ।
करोति कर्णोऽस्त्रमवारणीयम् ॥ ३.१२१.७ ॥
我的兄弟、朋友与导师,以及与克里希那自身相等的普利塔之子(阿周那)——正为了他,迦尔纳独自竭力放出那无法抵挡的兵器。
3.121.8
यदर्थमैच्छन्मनुजाः सुपुत्रं ।
शिष्यं गुरुं चाप्रतिकूलवादम्।
यदर्थमभ्युद्यतमुत्तमं त-
त्करोति कर्माग्र्यमपारणीयम् ॥ ३.१२१.८ ॥
人们为之所求的,是好儿子、弟子,以及不违逆的师长;为之所发起的这项至上的事业——为了它,他完成了最卓越、无法忍受的功业。
3.121.9
तस्यास्त्रवर्षाण्यहमुत्तमास्त्रै-
र्विहत्य सर्वाणइ रणेऽभिभूय।
कायाच्छिरः सर्पविषाग्निकल्पैः ।
शरोत्तमैरुन्मथिताऽस्मि राम ॥ ३.१२१.९ ॥
我以上乘兵器挡开他所有的箭雨,在战场上击败众人,又以如蛇毒与火焰般的上好箭矢,将他的头颅从身上斩落——罗摩啊,正是我将他碾碎。
3.121.10
खङ्गेन चाहं निशितेन सङ्ख्ये ।
कायाच्छिरस्तस्य बलात्प्रमत्य।
ततोऽस् सर्वाननुगान्हनिष्ये ।
दुर्योधनं चापि कुरूश्च सर्वान् ॥ ३.१२१.१० ॥
我将以利剑在战场上亲手用力将他的头颅从身上斩落;然后我将杀尽他的所有随从,连同难敌和所有俱卢人。
3.121.11
आत्तायुधं मामिह रौहिणएय ।
पश्यन्तु भैमा युधि जातहर्षाः।
निघ्नन्तमेकं कुरुयोधमुख्या-
नग्निं महाकक्षमिवान्तकाले ॥ ३.१२१.११ ॥
愿毗摩之子们在此看见我——罗希尼之子手持武器,在战斗中欢喜,独自击杀俱卢的主要勇士,如同末日时焚烧大林的火焰。
3.121.12
प्रद्युम्नमुक्तान्निशितान्न शक्ताः ।
सोढुं कृपद्रोणविकर्णकर्णाः।
जानासि पीर्यं च तवात्मजस्य ।
कार्ष्णिर्भवत्येव यथा रणस्थः ॥ ३.१२१.१२ ॥
克利巴、德罗纳、毗迦尔纳与迦尔纳无法承受普拉优摩那射出的利箭。您知道您儿子的勇力,也知道在战场上屹立的克里希纳之子普拉优摩那是何等模样。
3.121.13
साम्बः ससूतं सरथं भुजाभ्यां ।
दुःशासनं शास्तु बलात्प्रमथ्य।
न विद्यतेजाम्बवतीसुतस्य ।
रणेऽविषह्यं हि रणोत्कटस्य ॥ ३.१२१.१३ ॥
愿桑波连同御者与战车,以双臂用力碾压杜沙桑那并惩罚他。对于遮婆婆蒂之子而言,战斗中没有什么是无法承受的,因为他是战场上勇猛的战士。
3.121.14
एतेन बालेन हि शम्बरस्य ।
दैत्यस्य सैन्यं सहसा प्रणुन्नम्।
हतः स पापो युधि केवलेन ।
युद्धेऽद्वितीयो हरितुल्यवीर्यः ॥ ३.१२१.१४ ॥
正是这位少年,突然击退了达extya商跋罗的军队。那恶人在战斗中被他一人杀死。在战场上无与伦比,其勇力堪比哈里。
3.121.15
वृत्तोरुरत्यायतपीनबाहु-
रेतेन सङ्ख्ये निहतोऽश्वचक्रः।
को नाम साम्बस्य महारथस्य ।
रणे समक्षं रथमभ्युदीयात् ॥ ३.१२१.१५ ॥
这位圆腿、长而壮硕臂膀的阿濕伐恰克罗,在战斗中被此人所杀。谁敢在伟大战车勇士桑波眼前,在战场上冲向他的战车呢?
3.121.16
यथा प्रविश्यान्तरमन्तकस्य ।
काले मनुष्यो न विनिष्क्रमेत।
तथा प्रविश्यान्तरमस्य सङ्ख्ये ।
को नाम जीवन्पुनराव्रजेच्च ॥ ३.१२१.१६ ॥
正如人进入死神的间隙,到时便不再出来,那么在战斗中进入他的间隙,谁能活着再回来呢?
3.121.17
द्रोणं कच भीष्मं च महारथौ तौ ।
सुतैर्वृतं चाप्यथ सोमदत्तम्।
सर्वाणइ सैन्यानि च वासुदेवः ।
प्रधक्ष्यते सायकवह्निजालैः ॥ ३.१२१.१७ ॥
德罗纳与克里帕、毗湿摩、那两位大车战士、被众子环绕的索摩达多,以及所有军队——婆薮提婆将以箭的火焰之网把他们全部焚烧。
3.121.18
किंनाम लोकेषु विषह्ममस्ति-
कृष्णस्य सर्वेषु सदेवकेषु।
आत्तायुधस्योत्तमबाणपाणे-
श्चक्रायुधस्याप्रतिमस्य युद्धे ॥ ३.१२१.१८ ॥
在诸世界中,连同诸神在内,谁能承受克里希那——那执起兵器、手持上等箭、手持轮宝、在战斗中无可匹敌的人?
3.121.19
ततो निरुद्धोऽप्यसिचर्मपाणि-
र्महीमिमां धार्तराष्ट्रैर्विसंज्ञैः।
हृतोत्तमाङ्गैर्निहतैः करोतु ।
कीर्णाङ्कुशैर्वेदिमिवाध्वरेषु ॥ ३.१२१.१९ ॥
那时,即使被阻拦,手持剑与盾,愿他以德里多罗湿陀罗之子们——昏迷、头颅被斩、被杀——铺满这片大地,如同祭祀中散布着刺棒的祭坛。
3.121.20
गदोल्मुकौ बाहुकभानुनीथाः ।
शूरश्र सङ्ख्ये निशठः कुमारः।
रणोत्कटौ सारणचारुदेष्णौ ।
कुलोचितं विप्रथयन्तु कर्म ॥ ३.१२१.२० ॥
愿两位火炬般的棍棒手、巴胡迦、婆努、尼陀、英雄尼沙陀(战场上的王子)、勇猛的萨罗那与查鲁德舍那,展现与其家族相称的功业。
3.121.21
सवृष्णिभोजान्धकयोधमुख्या ।
समागता सात्वतशूरसेना।
हत्वा रणे तान्धृतराष्ट्रपुत्रा-
न्लोके यशः स्फीतमुपाकरोतु ॥ ३.१२१.२१ ॥
愿与韦希尼、博阇和安陀迦的主要战士会合的萨多跋陀罗英勇军队,在战场上杀死持国之子,在世间获得广大的名声。
3.121.22
ततोऽभिमन्युः पृथिवीं प्रशास्तु ।
यावद्व्रतं धर्मभृतांवरिष्ठः।
युधिष्ठिरः पारयते महात्मा ।
द्यूते यथोक्तं कुरुसत्तमेन ॥ ३.१२१.२२ ॥
那么愿阿毗曼尤统治大地,直到持法者中最优秀的伟大灵魂坚战履行他在赌局中,由俱卢最优秀者所言定的誓约。
3.121.23
अस्मत्प्रमुक्तैर्विशिखैर्जितारि-
स्ततो महीं भोक्ष्यति धर्मराजः।
निर्धार्तराष्ट्रां हतसूतपुत्रा-
मेतद्धि नः कृत्यतमं यशस्यम् ॥ ३.१२१.२३ ॥
借我们所射的箭击败敌人之后,法王将享有大地,那时持国之子已被清除,御者之子也已被杀。这对我们而言是最必要、最光荣的职责。
3.121.24
असंशयं माधव सत्यमेत-
द्गृह्णीम ते वाक्यमदीनसत्व।
स्वाभ्यां भुजाभ्यामजितां तु भूमिं ।
नेच्छेत्कुरूणामृषभः कथंचित् ॥ ३.१२१.२४ ॥
毫无疑问,摩陀婆,这是真的;我们接受你的话,无畏的人啊。库鲁族的雄牛绝不会以任何方式想要不是由他自己的双臂所征服的大地。
3.121.25
न ह्येष कामान्न भयान्न लोभा-
द्युधिष्ठिरो जातु जह्यात्स्वधर्मम्।
भीमार्जुनौ चातिरथौ यमौ च ।
तथैव कृष्णा द्रुपदात्मजेयम् ॥ ३.१२१.२५ ॥
坚战绝不会因贪欲、恐惧或贪婪而舍弃自己的法。阿周那与毗摩,二位大车战士,双生子亦然,还有这位德鲁波陀之女黑公主,也是如此。
3.121.26
उभौ हि युद्धेऽप्रतिमौ पृथिव्यां ।
वृकोदरश्चैव धनंजयश्च।
कस्मान्न कृत्स्नां पृथिवीं प्रशासे-
न्माद्रीसुताभ्यां च पुरस्कृतोऽयम् ॥ ३.१२१.२६ ॥
在大地上的战斗中,这二人无与伦比:狼腹(毗摩)与财胜(阿周那)。既有摩德丽之二子作为依靠,你为何不统治整个大地?
3.121.27
यदा तु पाञ्चालपतिर्महात्मा ।
सकेकयश्चेदिपतिर्वयं च।
युध्येम विक्रम्य रणे समेता-
स्तदैव सर्वे रिपवो हि न स्युः ॥ ३.१२१.२७ ॥
当高尚的般遮罗王,与迦吉耶人和亲近的车底王,以及我们众人会合,在战场上奋勇作战时,那时敌人便确实不再存在了。
3.121.28
नेदं चित्रं माधव यद्ब्रवीषि ।
सत्यं तु मे रक्ष्यतमं न राज्यम्।
कृष्णस्तु मां वेद यथावदेकः ।
कृष्णं च वेदाहमथो यथावत् ॥ ३.१२१.२८ ॥
摩陀婆啊,你所说的并不奇怪。对我而言,最应守护的是真实,而非王国。唯有黑天真正了解我,我也真正了解黑天。
3.121.29
यदैव कालं पुरुषप्रवीरो ।
वेत्स्यत्ययं माधव विक्रमस्य।
तदा रणे त्वं च शिनिप्रवीर ।
सुयोधनं जेष्यसि केशवश्च ॥ ३.१२१.२९ ॥
当这位人中之雄知道他勇武的时机时,摩陀婆啊,那时在战场上,你——施尼族之英杰,与羯沙婆——将击败苏陀那(难敌)。
3.121.30
प्रतिप्रयान्त्वद्य दशार्हवीरा ।
दृष्टोस्मि नाथैर्नरलोकनाथैः।
धर्मेऽप्रमादं कुरुताप्रमेया ।
द्रष्टाऽस्मि भूयः सुखिनः समेतान् ॥ ३.१२१.३० ॥
今日愿十车王族的英雄们启程回去。我已被这些人间之主所见。无量的英雄们啊,在法上务必警觉;我将再次看见你们都安乐地聚集在一起。
3.121.31
तेऽन्योन्यमामन्त्र्य तथाऽभिवाद्य ।
वृद्धान्परिष्वज्य शिशूंश्च सर्वान्।
यदुप्रवीराः स्वगृहाणि जग्मु-
स्ते चापि तीर्थान्यमुसंविचेरुः ॥ ३.१२१.३१ ॥
他们彼此告别,依礼致敬,拥抱了长者和所有的孩子之后,耶度族的英雄们各自回家;他们也在圣渡口之间游历。
3.121.32
विसृज्य वृष्णीननु धर्मराजौ ।
विदर्भराजोपचितां सुतीर्थाम्।
जगाम पुण्यां सरितं पयोष्णीं ।
सभ्रातृभृत्यः सह लोमशेन ॥ ३.१२१.३२ ॥
送别了毗湿尼族人之后,两位法王与兄弟、侍从以及罗摩舍一同前往圣河帕约什尼,那里渡口众多,布满了毗达尔巴王的臣民。
3.121.33
सुतेन सोमेन विमिश्रतोयां ।
पयः पयोष्णीं प्रति सोध्युवास।
द्विजातिमुख्यैर्मुदितैर्महात्मा ।
संस्तूयमानः स्तुतिभिर्वराभिः ॥ ३.१२१.३३ ॥
这位大德居住在帕约什尼河畔,此河之水与月神之子的水相混合;众位尊贵的婆罗门心中欢喜,以殊胜的赞颂称扬他。